________________
प्रमाणनयतत्त्वालोकालङ्कारः।
यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्श्यते सवैधर्म्यदृष्टान्तः ॥ ४६॥ यथाग्न्यभावे नभवत्येवधूमो यथा जलाशये॥४७॥ हेतोः साध्यमिण्युपसंहरणमुपनयः ॥४८|| यथा धूमश्चात्र प्रदेशे ॥ ४९ ॥ साध्यधर्मस्य पुनर्निगमनम् ॥ ५० ॥ यथा तस्मादग्निरत्र ॥ ५१॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते
॥५२॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ॥ ५३॥ उपलब्धिर्विधिनिषेधयोः सिद्धि निबन्धनमनुपब्धिश्च ॥ ५४॥ विधि सदंशः ॥५५॥ प्रतिषेधोऽसदंशः॥ ५६ ॥ सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावोत्यन्ताभावश्च ॥ ५७ ॥ यन्निवृत्तावेव कार्यस्यसमुत्पत्तिः सोस्यप्रागभावः॥५८