________________
१००
[ અધ્યાત્મ અનુયોગ સહિત गइ चेव केई दवियं वयंति एगंता। तं पि य उड्डगईअं तहा गई अण्णहा अगइत्ति ।।" (स.त.३/२९)
न चाऽप्रमाणपदं व्युत्पत्तिविशेषात् प्रमाणसामान्यभेदस्यैव बोधकमिति नेयमुपपत्तिः, व्युत्पत्तेः तात्पर्यमुखनिरीक्षकत्वेन सामान्यशब्दस्य विशेषपरत्वे दोषाभावात् ।।१३।।
एतेन 'सर्वज्ञोऽप्यसर्वज्ञः स्यात्, सिद्धोऽप्यसिद्धः स्यादिति दूषणद्वयमपि प्रत्युक्तम्, स्वरूप -परल्पाभ्यां तदनेकान्तस्याऽपीष्टत्वात्। प्रथमाऽप्रथमसर्वज्ञ-सिद्धादिभेदोऽपि सिद्धान्तसिद्ध एवेति का नामाऽनिष्टापत्तिः ?
किञ्च, सर्वज्ञत्वं सिद्धत्वञ्च सामान्यप्रत्यासत्त्यादिना यत्किञ्चित्कर्मक्षयेण चाऽस्मदादीनामप्यस्त्येवेति धर्मिविशेषे तन्नियमो रूपविशेषेण वाच्यः ।
तथा च रूपान्तरेण तदभावोऽवर्जनीय एवेत्यकामेनाऽप्येतदनेकान्तः परेण श्रद्धेयः।
रूपविशेषविशिष्टस्य विधि-नियमौ धर्मिणः शुद्धस्य वा रूपविशेषेण वाच्यावित्यत्र रुचिभेद स एव प्रमाणम्। तृतीयान्तोल्लिख्यमानधर्मावच्छिन्नता निषेधस्येव विधेरपि युक्तैवेति तु अनुभवावलम्बि अस्मदीयं मतम् ।।१४-१५।।
यच्चोक्तं येन प्रमाणेन सर्वस्याऽनेकान्तरुपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपतासिद्धिः स्यात् ?' इत्यादि, तत्रोच्यते - प्रमेयं द्विधा चेतनमचेतनञ्च। तत्राऽचेतनं स्व-पराध्यवसायविकलं न स्वस्य एकान्तरूपताम् अनेकान्तरूपतां (वा) परिच्छेत्तुमलम् । चेतनन्तु अर्थस्यानेकान्ततां परिच्छिन्दत् स्वस्याऽप्यनेकान्तरूपतां परिच्छिनत्ति। 'सर्वमनेकान्तात्मकं सत्त्वादि'त्यत्र स्वस्याऽपि सर्वमध्ये निक्षेपात् स्व-परव्यवसायिना प्रमाणेन परस्येव स्वस्याऽपि चित्ररूपताया अनुभवादिति क्व ग्राहकानवस्था ? ___ यदपि “अनेकान्तेऽप्यनेकान्तः तत्राऽप्यनेकान्तः इत्यादि ग्राह्यानवस्थायामेव तात्पर्यम्” ( ) इत्यादि पशुपालेन प्रेर्यते, तदपि तुच्छम्, अनेकान्ते अनेकान्तस्य समयाऽविराधनयैव आश्रयणात्। तदुक्तं सम्मतौ “भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणा णियमो वि होइ 'समयाविरोहेण ।।" (स.त.३/२७)
सा च अनेकान्त एकान्त एव तत्र चाऽनेकान्तः प्रथमोक्त एवेति परेषामभावाभावतदभावादिरीत्या ग्राह्यानवस्थाया अप्यप्रसरात् । ____किञ्च, नेयमुत्पत्तिविरोधिनी, वस्तुधर्मस्य अनेकान्तस्य उत्पत्ते: अनधिकृतत्वात्। नाऽपि 1. भजना अपि हु भजनीया यथा भजना भजति सर्वद्रव्याणि। एवं भजनानियमोऽपि भवति समयाऽविरोधेन ।। .ओ.(3) + दी..(४) + सि.wi 'समयाविराहणयत्ति' पा8. भुद्रितसम्मतितम समयाविरोहेण' पाठ. 2. सि. + ली.(४) मा 'नेय...' इति शुद्धः पाठः। को.(३) मा 'येय...' इत्यशुद्धः पाठः ।