________________
द्रव्य-शु-पयानो रास + 24t (४/3)]
८e एतेन वैयधिकरण्यमपि निरस्तम्, निर्बाधकप्रत्यक्षबुद्धौ भेदाऽभेदयोः रूप-रसयोरिव ऐकाधिकरण्यप्रतीतेः ।।२।।
अत एव न सङ्कर-व्यतिकरावपि, भेदाऽभेदयोरेकस्मिन् पदार्थे प्रतिनियतस्पेण प्रतीयमानत्वात् ।।३-४।।
यच्चोक्तम् 'अनवस्था स्यादिति तदप्यनुपपन्नम्, वस्तुन एव भेदाऽभेदात्मकत्वाऽभ्युपगमात्, धर्मत्वेन तयोः पार्थक्येऽपि सम्बन्धत्वेनाऽपार्थक्यात्, कारणत्वादीनां पदार्थान्तरत्वं वदतां तत्सम्बन्धाऽव्यतिरेकचिन्तायामनवस्थानिराकरणेऽन्यगत्यभावात् ।।५।।
संशयोऽपि न युक्तः, निमित्तभेदेन तदुभयनिर्णयस्य मूलाग्रयोः संयोग-तदभावयोरिव सम्भृतोपायत्वात् ।।६।। ___ तथा दृष्टहानि: अदृष्टकल्पना च न स्यात्, गुड-शुण्ठीन्यायेन जात्यन्तरस्य भेदाऽभेदस्य प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात् ।।७-८ ।। ___तत एवाऽभावोऽपि न युक्तः; परिकल्पितस्य वेदान्तिन्यायेनाऽनिर्वचनीयस्य हि रज्जावहेरिवाऽभावो युक्तः, न तु प्रमाणप्रसिद्धस्येति।
नानावस्तुधर्माऽपेक्षया एकस्य अनेकान्तत्वाऽनभ्युपगमाच्च न सिद्धसाधनम्, एकस्यैव । स्वधर्मापेक्षयाऽनेकान्ते च यथा न विरोधस्तथोक्तमेव ।
यथोक्तं 'क्रमण' (४/१) इत्यादि तदपि न युक्तम्, क्रमभाविधर्मापेक्षया क्रमेण अक्रमभाविधर्मापेक्षया चाऽक्रमेण अनेकान्ताभ्युपगमात्, कालभेदेन तदतत्कारित्ववद् निमित्तभेदेन तदतत्स्वभावत्वस्थापनमेवाऽनेकान्तार्थ इति ।।९।। ____ यथोक्तं किं चानेकधर्मान् वस्तु' इत्यादि तत्रैकेन स्वभावेन नानास्वभावैः वा भिन्नवस्तु भिन्नस्वभावान् व्याप्नुयादिति जैनस्य नाऽभ्युपगमः किन्तु स्वकारणकलापादेकाऽनेकस्वभावात्मकमेव तदुत्पन्नमित्यभ्युपगम इति न दोषः ।।१०-११।। ____ यच्चोक्तं 'जलादेरप्यनलादिरूपता स्यादिति तदपि न, साजात्यस्येव अनेकान्तात्मकत्वस्य प्रतिस्पं व्यवस्थितस्य अनतिप्रसञ्जकत्वात्। यथाहि प्रमेयत्वादिनाऽनलसजातीयं जलं न तत्कार्यकारि तथा कथञ्चिदनलानेकान्तात्मकमपीति ।।१२।।
यथोक्तं 'प्रमाणमप्यप्रमाणं स्यादि'त्यादि तदपीष्टमेव, प्रमाणस्य स्वरूपापेक्षया प्रमाणपतायाः परस्त्यापेक्षया त्वप्रमाणरूपतायाः स्याद्वादिनामभीष्टत्वात्। विशेषभेदाऽपेक्षयाऽप्यात्रऽनेकान्तोऽदुष्टः, परोक्षस्याऽपरोक्षरूपेण अपरोक्षस्य च प्रमाणस्य परोक्षरूपेणाऽप्रमाणत्वात् ।
अनेनैवाऽभिप्रायेण गतिपरिणतस्य गतिस्पतैकान्तः सम्मतो दूषितः । तथाहि “गईपरिणयं
1. गतिपरिणतं गतिः एव केऽपि द्रव्यं वदन्ति एकान्तात् । तदपि च ऊर्ध्वगतिकं तथा गतिः अन्यथा अगतिः इति ।।