________________
८४
| અધ્યાત્મ અનુયોગ સહિત येन रूपेण भेद: तेन अभेदोऽपि स्यादिति सड्करः। “सर्वेषां युगपत् प्राप्ति: सकरः" (षड्दर्शनसमुच्चय-श्लोक.५७ बृहद्वृत्तौ उद्धरणम्) इति वचनात् ।।४।।
एकज्ञाने अपरज्ञानाऽऽपत्तिः व्यतिकरः उभयज्ञानाऽऽपत्तिश्च सङ्करः इति विवेकः । भेदाऽभेदौ अपि प्रत्येकं भेदाभेदात्मको स्याताम् । तत्राऽपि भेदाऽभेदात्मकत्वपरिकल्पनायाम् अनवस्था ।।५।।
'केन रूपेण भेदः? केन वाऽभेद:?' इति संशयः ।।६।।
भेदरूपमभेदरूपं वा दृष्टं नाऽभ्युपगम्यते अदृष्टञ्च भेदाऽभेदात्मकमभ्युपगम्यत इति दृष्टहान्यदृष्टकल्पने ।।७-८ ।।
तथा च कल्पितस्याऽभाव एव स्यात्।
किञ्च, किं नानावस्तुधर्माऽपेक्षया सर्वमनेकान्तात्मकम् उत तन्निरपेक्षतया प्रत्येकम् सर्वं वस्तु इति ? प्रथमपक्षे सिद्धसाध्यता, द्वितीयेऽपि पक्षे विरोधादिदोषः । है किञ्च, किं क्रमेण सर्वमनेकान्तात्मकम् उत योगपद्येन ? आये सिद्धसाध्यता, द्वितीये तु
स एव दोषः।।९।। स किञ्च, अनेकधर्मान् वस्तु किमेकेन स्वभावेन नानास्वभावैः वा व्याप्नुयात् ? आद्ये तेषामेकत्वं
वस्तुनो वा नानात्वं स्यात् । द्वितीये तानपि नानास्वभावान् किमेकेन स्वभावेन किं वा नानास्वभावैः व्याप्नुयात् ? इत्यादिचर्चायामेकत्वापत्त्यनवस्थे ।।१०-११।।
किञ्च, सर्वस्यानेकान्तात्मकत्वे जलादेरनलत्वाद्यापत्तौ जलानलाद्यर्थिनो नियतप्रवृत्त्यनुपपत्तिः । को हि नाम विवक्षितार्थेऽविवक्षितक्रियाकारिख्यमुपलभमानो निःशड्कं प्रवर्तेत ?।।१२।। ___किञ्च, सर्वस्य अनेकान्तात्मकत्वे प्रमाणमप्रमाणम्, अप्रमाणं वा प्रमाणं भवेत्। तथा च सर्वजनसिद्धव्यवहारविलोपो भवेत् ।।१३।।
किञ्च, सर्वज्ञोऽप्यसर्वज्ञः स्यात् ।।१४।। किञ्च, सिद्धोऽप्यसिद्ध: स्यात् ।।१५।।
अपि च, येन प्रमाणेन सर्वस्य अनेकान्तरूपता साध्यते तस्य कुतोऽनेकान्तस्पतासिद्धिः ? यदि स्वतः, तर्हि सर्वस्यापि तथा भविष्यति, किं प्रमाणकल्पनया ? अथ परतस्तदाऽनवस्था ।।१६।।
बाधकमप्यस्ति अनेकान्ते - भेदाभेदादिधर्मो नैकाधिकरणौ, परस्परविरुद्धधर्मिद्वयधर्मत्वात् शीतोष्णस्पर्शवदिति ।।१७।।"
ઇમાં શ્રુતધર્મઈ = "સ્યાદ્વાદપ્રવચનમાહઈ મન દઢ = વિશ્વાસવંત કરી રાખો. જિમ
....0 यिद्वयमध्यवता संस्कृतभाषानिल विस्तृत 416 पुस्तामा नथी. ओ.(3) + el.(४) + सि.मा छे. * सा.(१)मा 'स्याबाह अवयनमा' नामहो सिद्धान्तानुसारी भाग 46 छ. भी.(२)मा 'भत दृष्टि' 46.