________________
पं० जिनदासविरचिता
३३. गुणत्रतत्रयसूत्रणो नाम त्रयस्त्रिंशत्तमः कल्पः
[ पृष्ठ २१० ] दिगिति - सद्भिः सज्जनैः गणधर देवादिभिः सागारयतिषु मगारेण सहिताः रा: तेच ते यतयश्च सागारयतयः, गृहे स्थित्वा अहिंसादिषु एकदेशेन यतनत्वात् श्रावकाः सागारयतयः प्रोच्यन्ते । तेषु दिशां विरतिः, देशानां विरतिः, अनर्थदण्डानां च विरतिः इति त्रितयाश्रयं दिग्देशानर्थदण्डानां त्रितयस्य आश्रयम् आधारभूतं गुणव्रतत्रयं स्मृतम् दिग्भ्यो विरतिः दिग्ग्रतम्, देशेभ्यो विरतिः देशव्रतम्, अनर्थदण्डेभ्यो विरतिः अनर्थदण्डव्रतम् ||४४८ || दिग्व्रतदेशव्रते व्याचष्टे - सर्वासु दिक्षु पूर्वादिषु दशसु दिक्षु एतस्यां कस्यां - चिद्दिशि मम इयत्येव इयद्योजन क्रोशादिपरिमाणा गतिर्गमनम् इति मर्यादां कृत्वा ततो बाह्ये गमनं नैवेति दिग्व्रतम् । तथा च निखिलेषु सर्वेषु अधःप्रोर्ध्व देशेषु निम्नोन्नतेषु देशेषु गुहादिषु पर्वत शिखरेषु च मम इयत्प्रमाणा गतिरिति देशव्रतम् ||४४९ ॥ दिग्देशेति - एवं पूर्वोक्तप्रमाणेन दिशां देशानां च नियमात् अवधेः ततो बाह्येषु वस्तुषु भोगोपभोगादिषु वस्तुषु हिंसानिवृत्ते: लोभनिवृत्तेः, भोगादिनिवृत्तेश्च चित्तयन्त्रणा मनोनिग्रहः भवति ॥ ४५० ॥
४ ४
[ पृ० २१०
[ पृष्ठ २११-२१२ ] रक्षन्निति - इदं गुणव्रतत्रयं प्रयत्नेन अहिंसाद्यणुव्रतपालनपूर्वकं रक्षन् गृही गृहस्यः यत्र यत्र भूतले स्वर्गादो वा उपजायते उत्पद्यते तत्र तत्र आज्ञेश्वयं लभेत प्राप्नुयात् ॥४५१ ॥ आशेतिगृहीतस्य देवगुरुसमक्षं स्वीकृतस्य आशाप्रमाणस्य आशानां पूर्वादीनां दशानां दिशां प्रमाणस्य इयत्तायाः व्यतिक्रमात् उल्लङ्घनात् देशव्रती अणुव्रती गृहस्थः प्रायश्चित्तसमाश्रयः प्रायश्चित्तस्य विषयः प्रजायेत भवेत् । यदा लोभादिना गृहीतदिग्व्रतस्य गृहीतदेशगुणव्रतस्य गृहिणः तन्मर्यादाया उल्लंघनं स्यात् तदा प्रमादपरिहानये तद्व्रतनैर्मल्याय प्रायश्चित्तं तेन समाचर्यम् । तथा कृते सति दोषपरिहारो भवेत् व्रतोत्कर्षश्च जायेत ॥४५२ ॥ शिखण्डीति - शिखण्डी मयूरः, कुक्कुटस्ताम्रचूडः, श्येनः शशादनः बिडालो मार्जार:, व्यालः सर्पः, बभ्रुः नकुलः, विषं गरलम्, कण्टकानि शस्त्रम् अग्निः कषा प्रतोदः, पाशको जालं रज्जुः || ४५३|| पापाख्यानेति - पापाख्यानं पापोपदेशः हिसाकृष्यादिसंश्रयः, अशुभध्यानम् आर्तरौद्रविकल्पम्, हिंसा हिसादानं विषास्त्रादिहिंसाकारणानां दानम्, क्रीडा जलक्रीडादिकम् । वृथा क्रियाः पृथ्वीखननम्, वातव्याघातः, अग्निविध्यापनम्, जलसेचनादिकम् । वनस्पतीनां छेदादिकम् एते सर्वे अनर्थदण्डास्त्याज्याः । परोपतापः परेषाम् उपतापः पीडनम, पैशुन्यं परोक्षं निन्दाकरणम्, शोकः अनुग्राहक संबन्धविच्छेदे वैक्लव्यविशेषः शोकः, आक्रन्दः परितापजातपातप्रचुरविलापादिभिर्व्यक्तक्रन्दनमाक्रन्दनम् । अन्यैः एतेषां करणम् एते अनर्थदण्ड हेतवो भवन्ति ॥ ४५४ || वधेति - वधः दण्डकशावेत्रादिभिः अभिघातः प्राणिनाम् । बन्धनम् — रज्ज्वादिभिर्बन्धनं येनाभिमतगतिविरोधः । संरोधः — रोधनम् एते अन्येऽपि च ईदृशाः अनर्थदण्डाख्याः भवन्ति, सांपरायः संसारः तस्य प्रवर्ध - कत्वात् ॥ ४५५ ।। पोषणमिति - क्रूरसत्वानां जीवघ्नजीवानां मार्जारादीनाम् पोषणम् । हिंसोपकरणक्रियाम् हिंसायाः उपकरणानां विषशस्त्रादीनां क्रिया करणम् । देशव्रती गुणव्रतपालकः श्रावकः कथंभूतः, स्वकीयेति स्वकीयाश्च ते आचाराः अहिंसाद्युपेताः श्रावकाचाराः तैः चार्वी सुन्दरा तथा युक्ता घोर्बुद्धिर्यस्य ||४५६ || अनर्थदण्डत्यागस्य फलम् - अनर्थदण्डनिर्मोक्षात् स्वस्य स्वकीयजनानां वा शरीरवाङ्मनः प्रयोजनाद्विना अन्यः अर्थः अनर्थः तद्विषयकाः अशुभमनोवाक्कायाः परपीडाकरत्वाद्दण्डा इव दण्डाः तेषां निर्मोक्षात् त्यागात् । देशतो यतिः श्रावकः सर्वभूतेषु सुहृत्तां मित्रत्वं तेषां भूतानां दुःखानुत्पत्त्यभिलाषम् । स्वामित्वं च प्रपद्यते लभते ||४५७ ॥ अनर्थदण्डत्यागनाशाय काः क्रियाः आह - वञ्चनेति - वञ्चना परप्रतारणम्, आरम्भो जीवपीडाहेतुव्यापारः । हिंसा च एतेषाम् उपदेशं कृत्वा एतेषु वञ्चनादिषु अन्येषां प्रवर्तनम् । भाराधिक्यं प्रमाणातिरिक्तभारारोपणम् । अधिकक्लेशः तिरश्चां येन क्लेशः स्यात्तत्कार्यकरणं रज्ज्वादिना बन्धनम् अन्नाद्यदानम् आदिकम् एताः क्रियाः तृतीयगुणहान ये भवन्ति ॥ ४५८ ।।
" इत्युपासकाध्ययने गुणवतत्रयसूत्रणो नाम त्रयस्त्रिंशत्तमः कलाः ||३३||
१. अत्र यशस्तिलक चम्पूकाव्यस्य सप्तम आश्वासः समाप्यते; यथा - " इति सकलता किक लोक चूडामणेः