________________
-पृ० २१० ]
उपासकाध्ययनटीका
४५३
भारवाहकानां विहितोपचारः कृतादरः ताः सुवर्णेष्टकाः संगृह्णन् स्वीकुर्वन् श्रुतः आकणितः स्वस्त्रीयस्य भगिनीपुत्रस्य अपायोदन्तः मृत्युवार्ता येन तथाभूतः पिण्याकगन्धः फायमानेति - - फायमानः वर्धमानः यः मनोमन्युः मनःशोकः तेन कृतो अन्तो नाशः यस्य सः ( स्वसुतं सुवर्णेष्टका ग्रहणं कुवित्यादिश्य भगिनीग्रामं गतवान् । ) पुत्र, सकलकला निपुणचित्तसुदत्त तव पितृष्वसुः पुत्रशोकशान्त्यै मया अवश्यं गन्तव्यम् अपस्थातव्यं च मृतोद्देशेन स्नानं च कर्तव्यम् । ततस्त्वयाप्येताः सुवर्णेष्टकाः परिस्कन्दलोक प्रलोभेन परि आसमन्तात् स्कन्देन भारवाहिनां लोकानां प्रलोभेन दत्वा साधु संग्रहीतव्याः । इत्युपह्वरे एकान्ते व्याहृत्य उक्त्वा सकलेति — सकलं च तज्जगत् सकलजगत् तस्य व्यवहारः प्रवृत्तिः तस्य अवतारः उत्पत्तिः तस्मै त्रिवेद्यां वेदत्रयसदृश्यां काकन्द्यां नगर्यां तोकस्य पुत्रस्य शोकात् अश्रूणि नेत्रजलानि भूयिष्ठानि यस्याः सा तथाभूतायाः कनिष्ठाया लघिष्ठायाः स्वसुः दर्शनार्थमगच्छत् । असद्व्यवहारव्यावृत्तः अन्याय्यव्यवहारात् निवृत्तः सुदत्तः तातोपदेशं पितुरादेशम् निःश्रेयसं अश्रेयस्करम् अवस्यन् जानन् यतः राजपरिगृहीतं राजस्वामिकं तृणमपि काञ्चनीभवति सुवर्णं जायते संपद्यते च तद्धेतुर्भवति पूर्वपुरुषाजितस्यापि धनस्यापहरणाय प्राणविनाशाय च इति जातमतिः उद्भूतविवेकः न एकामपि इष्टकां समग्रहीत् समगृह्णात् । महालो भलोलतान्धः पिण्याकगन्धः तस्याः काकन्द्याः पुरः पुर्याः अपस्नात्वा मृतकोद्देशेन स्नानं विधायागतः सुतमपृच्छत् । वत्स, कियतीः खलु त्वम् इष्टकाततीः इष्टकानां ततीः समूहान् पर्यग्रहीः अगृद्धाः । स्तेययोगविनिवृत्तः स्तेयं चौर्य तस्य योगः संबन्धः तस्माद्विनिवृत्तः विरक्तः सुदत्तः तात, कामपि इष्टकामहम् अगृह्णाम् । [श्रुत्वैतत्पुत्रवाक्यं पिण्याकगन्धः स्वपादौ शिलापुत्रकंण जर्जरितावकरोत्] प्रादुर्भवदिति – प्रकटीभवद्दीर्घ नरकगतिपापबन्धः पिण्याकगन्धः समर्थे कुटुम्बपालनक्षमे सदाचारपालनेन कृतार्थे जीवितसाफल्यं कुर्वाणे, पुण्यकार्यं दानपूजादिकं तद्भजतीति पुण्यभाक् तस्मिन् तुजि पुत्रे परम् अन्यत् उत्तरं वचनम् अपश्यन् 'यदि चेत् इमौ क्रमो चरणो परिक्रमणक्षमी परिक्रमणं गमनं तत्र क्षमौ समर्थों मम न अभविष्यतां तदा कथंकारं किमर्थम् अहं मन्मनोरथवन्द्यां ' मन्मनोरथानां कारागारसदृश्यां काकन्द्याम् अगमिष्यम् । अतः एती एव पादौ अत्र श्रीविरामावहौ लक्ष्मीविनाशजनको द्रोही द्वेषरूपी इति विचिन्त्य उद्वर्त्तनं विलेपनम् वर्तयत्या मर्दयन्त्या स्ववासिन्याः स्वपल्याः करादाक्षिप्तशरीरेण बलाद्गुहीतेन शिलापुत्रकेण पेषणपाषाणेन तो जर्जरिती अकरोत् । [ इष्टकासु सुवर्णत्वं निर्वर्ण्य राजा पिण्याकगन्धस्य सर्वस्वमपाहरत् स च मृत्वा नरके जन्मालभत ] एतच्च वैदेहकव्यञ्जनपरिजनात् वैश्यवेषधारिभृत्यजनात् रत्नप्रभो राजा अशृणोत् । कथंभूतः । प्राचीनेति - प्राचीन बर्ही इन्द्रः तस्य निभः तदुपमः तत्सदृशो वा क्षितीति - क्षितिः पृथ्वी एव रमणी स्त्री सा एव करिणी हस्तिनी तस्याः इभः गजः रत्नप्रभः श्रुत्वा वासोवक्त्रेण कुठारिकामुखेन शिल्पिभिः तक्षिभिः विधापितेति -कारितेष्टकाछेदः नृपः सुवर्णत्वं निश्चित्य विहितेति - कृतधनादिसकलवस्त्वपहारम् सनिकारं सधिक्कारं नगरेति - नागरिकजनेन उच्चार्यमाणदुरपवादानां घोष्यमाणावर्णानां प्रबन्धो विस्तारो यस्य तं पिण्याकगन्धं निरवासयत् स्वदेशात् निरघाटयत् । 'इन्द्रियम् अस्थानं हि गुणदोषयोर्महीपतयः' राजानः गुणदोषयोः अस्थानम् इन्द्रियम्' अस्थानेन यस्य नियतं स्थानं नास्ति तादृशेन इन्द्रियेण मनसा इन्द्रियेण गुणदोषयोविचारः क्रियते यथा तथा राजा जनानां गुणदोषो अस्थानम् इन्द्रियं मनः भूत्वा विचारयति इति नीतिवाक्यम् अनुस्मृत्य मूलधनप्रदानेन राजा सुदत्तस्य मूलधनं दत्त्वा समाश्वासयत् तथा अन्वयागत निवास निवेदनेन च वंशपरम्परागतनिवासो भवतोऽत्रैव भवत्विति निवेदनं कृत्वा राजा सुदत्तं साधु समाश्वासयत् । स तथा निर्वासितः निर्धाटितः संजातनरक निषेक निबन्धः संजातः नरकस्य गतेः आस्रवस्य निश्चयेन बन्धो यस्य । कृतेति - प्रकामम् अतिशयेन लोभेन संबन्धो येन सः, चिरायेति - चिराय दीर्घकालावधिकाः उपार्जिता लब्धाः दुरन्ताः दुःखदोsन्तो येषां तेषां दुष्कर्मणां स्कन्धाः येन स पिण्याकगन्धः प्रेत्य मृत्वा पातालं श्वभ्रं नरकम् अगात् । भवति चात्र श्लोकः - षष्ठयाः क्षितेः तमः प्रभायाः पृथिव्याः दुःखमल्लके दुःखानां पात्रभूते अस्मिन्लल्लके नाम्नि इन्द्रकबिले धनायाविद्धचेतसा घनायया धनाभिलाषया आविद्धं भ्रान्तं चेतः मनो यस्य तेन पिण्याकगन्धेन पेते अपत्यत ||४४७ ॥
- कृतः
इस्युपासकाध्ययने परिग्रहाग्रह फल फुल्लनो नाम द्वात्रिंशत्तमः कल्पः ॥ ३२॥