________________
४५२ पं० जिनदासविरचिता
[पृ० २१०तेन शारीरो विधिविधातव्यः तेन तैलेन अङ्गस्य म्रक्षणं कृत्वा स्नानं विधातव्यम् । परिजनार्भकान् भृत्यबालान् स्वकीयांश्च निजज्ञातिबालांश्च उपजपति ( उपजापयति ) भेदयति । न भवद्भिः अङ्गाम्यङ्गार्थ भवनम् उपद्रोतव्यम् । अङ्गेषु अभ्यङ्गस्नानाय भवनं गृहं न उपद्रोतव्यम् न उद्वेजितव्यम् किं तु प्रातिवेशिकशिशुसंदोहे: सहातिसंबाधं योद्धव्यम् । आसन्नगृहिणां बालकसमूहै: सह अतिसंबाधं मल्लयुद्धं विधेयम् । अस्माद्धेतोः भवताम् अनुपायसंनिधिः स्नान विधिः । उपायमन्तरा प्रयत्नमन्तरेण अभ्यङ्गस्नानकार्य स्यात् । क्षपायां च रात्री प्रतिवेशवेश्मप्रदीपप्रभाप्रज्वलितेन आसन्नगृहे प्रदीपकान्त्या प्रकाशितेन वलीकान्तावलम्बितेन काचमुकुरेण नोध्रान्ताश्रितेन काचदर्पणेन गृहाङ्गणे प्रदीपकार्य कर्तव्यम् । तथा निकाय्यमध्ये गृहस्य मध्ये मध्येगृहं सणसरण्डप्रोतः विषमरुचिदीप्तः उरुवकबीजः शणाग्रसंलग्नः प्रोतः अग्निप्रज्वलितः एरण्डबीजः प्रदीपकार्य करोति । प्रदीपप्रकाशं विदधाति । सकलजनसाधारणाश्च नवीनसंगा एव-युमाः सर्वजनसामान्यानि नवीनसंगा: नत्नान्येव निमितानि वस्त्राणि सपरिच्छदः स्वपरिवारयुक्तः परिदधाति धारयति । मनाक ईषत मलीमसरागाश्च मलिनो रागो रंगो येषां तान् विक्रोणोते । ततोऽस्य वसनधावनार्थं वस्त्रप्रक्षालनाय न कपर्दकोपक्षयः न धनव्ययः । पर्वाणि च पर्वदिनानि च उत्सवदिवसान् पुराणानि जीर्णानि पल्लवानि पर्णानि कचवरं कच्चरं तेषाम् अपनयनकरणं त्यागः यत्र तथाभूतेन उत्करेण नखादिना आकर्षणेन आतपतप्तसंघाटस्नेहद्रवेण आतपेन रविकिरणतापेन तप्ता ये निबिडाः संघाटा: गडांशास्तेषां स्नेहद्रवेण स्निग्धपाकेन गडगोणीक्षालनकषायेण च गडोपेतगोणीनां धावनेन संजातकषायरसेन च निवर्तयति यापयति । प्रत्यामन्त्रणेन भोजनार्थ लोकानाम् आह्वानेन द्रविणव्ययात् धनत्यागात् परागारभोजनावलोकनेन परगृहे यद्भोजनं भुज्यते तस्य आलोकनेन प्रेक्षणेन भोजनकार्य निवर्तयति । आश्रितजनमनोविनाशभयाच्च आमन्त्रितोऽपि भोजनार्थम् आहूतोऽपि परगृहे भोजनाय न गच्छति यदि तत्र गच्छामि भोजनाय तर्हि आश्रितजनानां मनः विकृतं भवेत् ते धनस्य चौयं कुर्युः अतः न कस्यापि निकेतने गहे प्साति भक्षयति । कथंभूते पिण्याकगन्धे ।
[पृष्ठ २०७-२१०] एवमतीव तर्पोत्कर्षरसहार्ये तर्षस्तृष्णा तस्य उत्कर्षः प्रवृद्धिः तस्य रसः प्रेम तेन हार्ये तदधीने इत्यर्थः । पुनः कथंभूते । सकलेति-सकलानां कदर्याणां कृपणानाम् आचार्य महाकृपणे इतिभावः । तथाभूते तस्मिजीवत्यपि मृतकल्पमनसि मृतेन सदृशं मृतकल्पं तन्मनः यस्य सः मृतकल्पमनाः तस्मिन् वसति सति । एकदा ( रत्नप्रभो नृपः चैत्यालयनिर्माणाय सुवर्णेष्टकाः स्तूपताम् आनयत् ) रत्नप्रभो नपः राजसिन्धुरेति-राजानः एव सिन्धुराः हस्तिनः तेषां प्रधावस्य अभिद्रवस्य आक्रमणस्य संदर्शनाय अवलोकनार्थ प्रासादस्य संपादनाय रचनाय । श्रवणेति-श्रवणो को तो आश्रयीभूतो वृत्तस्य यस्य तथाभूतस्य ब्रह्मदत्तस्य महीपते: कालेन स्थण्डिलतया उन्नतभूमिरूपतया लुप्तो विनष्टः अवकाशः यस्मिस्तथाभते भवनप्रदेशे प्रासाददेशे भूशोधनं विधाय यत्ने कृते सति । तदास्थानेति-तस्य आस्थानमण्डपस्य सभागृहस्य आभोगः विस्तारः तस्य बन्धं जुषन्ति इति बन्धजुषः सभागृहविस्तारबन्धभागिन्यः इति भावः । पुनः कथंभूताः । प्रकामेति-प्रकामम् अतिशयेन ऊषरदोषः क्षारमृत्तिकादोषः तेन कलुषवपुषः कृष्णीभूता इति भावः । पुनः कथंभूताः । संपूर्णति-सकलविस्तारभृतः प्रथिमगुणविशिष्टाः पृथुत्वगुणशालिन्यः, सुवर्णेष्टकाः सवर्णन हेम्ना रचिता इष्टकाः समालोक्य बहिनिकाम बाह्यावस्थायां नितरां कलङ्केन कृष्णादित्वेन मलिनिमादर्शनात इतरमत्तिकेष्टकाभिः अविशेषतां तासाम् आकलयन् जानानः एताः खलु चैत्यालयनिर्माणाय जिनगहनिर्माणाय योग्याः इति मनसा एकत्र स्तूपताम् उन्नतराश्याकारताम् आनयत् । [ अत्रान्तरे पिण्याकगन्धः काचवाहान भक्ष्यादिभिः प्रलोभ्य तासां सुवर्णष्टकानां संग्रहमकरोत् ] अत्रान्तरे अस्मिन्प्रसंगे समस्तेति-सकलानां मितंपचानां कृपणानां पुरोगमसंबन्धः अग्रणीत्वयुक्तः पिण्याकगन्धः सरभसं वेगेन पततां गच्छताम् इष्टकोभारं वहतां वैवधिकनिवहानां विवधैः उभयतो बद्धशिक्यः स्कन्धवाहकाष्ठः भार वहन्तो नरा वैवधिका उच्यन्ते तेषां समूहानां सायंसमये मार्गविषये मार्गप्रदेशे पतिताम् एकाम् इष्टकाम् अवाप्य लब्ध्वा चरणधावनप्रदेशे तां स न्यषात अस्थायत् । तत्र च प्रतिषत्रं प्रतिदिनम् अङ्घिसंघर्षात् पादमदनात् अशेषकालुष्यमोषे सकलमलिनताया अपगमे भर्मनिर्मितत्वम् अवेत्य भर्मणा सुवर्णेन रचितत्वं तस्या ज्ञात्वा, तेस्तैः प्रलोभनवस्तुभिः मोदकादिभिः काचवहानां