________________
-पृष्ठ २१५]
उपासकाभ्ययनटीका
३४. स्नानविधिर्नाम चतुस्त्रिंशत्तमः कल्पः [पृष्ठ २१२-२१३ ] गुणव्रतवर्णनानन्तरं शिक्षाप्रतानि वर्ण्यन्ते प्रथमं तेषामभिधानानि कोय॑न्तेआदाविति-आदी सामायिक कर्म, द्वितीया प्रोषधोपासनक्रिया, सेव्यार्थनियमस्तृतीयं शिक्षाव्रतम्, दानं चतुर्थ शिक्षाव्रतम । शिक्षाय अभ्यासाय व्रतानि शिक्षाप्रतानि, प्रतिदिवसाभ्यसनीयत्वात् । गणव्रतं हि प्रायो यावज्जोविकमाहः । अथवा शिक्षा विद्योपादानम्, शिक्षाप्रधानं व्रतं शिक्षावतम् । सामायिकादेविशिष्टश्रुतज्ञानपरिणतत्वेनैव निर्वाह्यत्वात् ॥४५९॥ सामायिकमाह-आप्तसेवेति-आप्तसेवोपदेशः समयः स्यात् तत्र समयार्थिनां आप्तसेवोपदेशाभिलाषिणां श्रावकाणां नियुक्तं यत्कर्म तत्सामायिकम ऊचिरे। यः सर्वज्ञः सर्व. लोकेशः सर्वदोषविवर्जितः सर्वसत्त्वहितश्च तम् आप्तमाहुः इति आप्तस्य लक्षणं पूर्वमुक्तम् । तस्याप्तस्य सेवा पूजा तत्र नियुक्तं यत्कर्म जिनस्नपना स्तुतिजपाः तत्सामायिकमूचिरे उक्तवन्तः ॥४६०॥ आप्ताभावेऽपि तदाकारपूजा पुण्योत्पादिकेति दर्शयति । आप्तेति-आप्तस्य अर्हत्परमेष्ठिनः असन्निधानेऽपि अविद्यमानेऽपि, तदाकृतिपूजनं पुण्याय पुण्यप्राप्तये भवति । दृष्टान्तमाह-तार्क्ष्य मुद्रा गरुडमुद्रा यस्यां गरुडस्य सांनिध्ये अविद्यमानेऽपि विषसामध्यस्य मूर्छामृत्यादेः सूदनं विनाशनं किं न कुर्यात् अपि तु कुर्यादेव । अहंदाकृति शान्ताम् आत्मध्यानमुद्राप्रदर्शिनी दृष्ट्वा भक्तिरुत्पद्यते ततश्च पुण्यं प्राप्यते पापलोपश्च भवति ॥४६१॥ देवतार्चने शुद्धिद्वयस्यावश्यकता-अन्तःशुद्धिमिति-अन्तःशुदि विधाय अशुभसंकल्पान्मुक्त्वेत्यर्थः, बहिःशुद्धि विधाय, विधिवत् शौच-स्नान-दन्तषावनादिक्रियाः बहिःशुद्धिं च विषाय देवतार्चनं विदध्यात् कुर्यात् । आद्या अन्तःशुद्धिः दौश्चित्यनिर्मोक्षात् पापसंकल्पत्यागात् । अन्या बहिःशुद्धिः स्नानाद् भवति । स्नानभेदान् अग्रे वक्ष्यति ॥४६२।। स्नानं किमयं करणीयमित्यनुयोगस्य उत्तरमाह-संभोगायेति-अन्नादिभक्षणं संभोगः तदर्थः स्नानं कर्तव्यम् । विशवयं शरीरनिर्मलत्वाय परिणामविशघथं च स्नानं मतम् । यत्र यस्मिन् स्नाने । अमुत्र परलोके स्वर्गादौ उचितो विधिः दानव्रतपूजाभिषेकादिकं क्रियते तत्स्नानं धर्माय स्मृतम् । गृहस्थयत्योः स्नानकालनिर्णयः ॥४६३॥ नित्यमिति-गृहस्थस्य देवार्चनपरिग्रहे देवपूजास्वीकारे नित्यं स्नानम्, अकृतस्नानो गृही देवपूजां न कुर्यात् बहि:शुद्धरभावात् । सा च अन्तःशुढेरपि निमित्तम् । यतेस्तु दुर्जनस्पर्शात्स्नानम्, दुर्जनाः कापालिकात्रेयोचाण्डालशबरादयः तेषां स्पर्शात यतेः स्नानं भवति । एषां स्पर्शाभावे तस्य स्नानं विहितं निन्द्यं भवति ॥४६४॥ कुत्र कथं स्नानं कर्तव्यमिति कथयति-वातातपादीति-भूरितोये विपुलजले वातातपादिसंस्पृष्टे प्रवहता वायुना सर्वतः स्पृष्टे । मातपेन सूर्यकिरणः सर्वतः स्पृष्टे । अपनीतशैत्ये जलाशये तडागादो। अवगाह्य अन्तःप्रविश्य स्नानम् माचरेत् । उपर्युक्तविशिष्टजलाशयाभावे अन्यस्य कूपादेर्जलं गालितं भजेत् जलं गालयित्वा दृढेन निर्मलेन वाससा तेन स्नानमाचरेत् । अगालितकूपजलेन स्नानं न कुर्यात् कृतेऽपि तेन स्नाने बहिःशुदिनं भवति । परं वातातपादिसंस्पृष्टं जलाशयजलं गालितजलवन्छु८ मतम् अतस्तेन स्नानं बहिःशुदिविधायकं ज्ञातव्यम् ।।४६५॥ स्नानस्य पञ्चविधत्वम्
[पृष्ठ २१४-२१५ ] पादजानु इति-पादो चरणो, जानुनी ऊरुपर्वणो, कटिः श्रोणिः, ग्रोवा कण्ठः, शिरो मस्तकम्, एषां पञ्चानां पर्यन्तस्य संधयः अवलम्बनं यत्र तत् स्नानं पञ्चविधं पञ्चप्रकारं तवयादोषम् । दोषमनुसृत्य । शरीरिणां नराणां ज्ञेयं ज्ञातव्यम् ॥४६६।। स्नानाधिकारिणो विशिनष्टिप्रमोपपनस्येति-ब्रह्मवर्येण स्त्रीसंभोगवर्जनेन उपपन्नस्य युक्तस्य ब्रह्मचारिणः । पुनः कथंभूतस्य । निवत्तारम्भकर्मणः सेवोद्योगकृष्यादिकर्मविरतस्य । यद्वा तद्वा स्नानं भवेत् पादस्नानं कटिस्नानं विष्वेकेन केनापि स्नानेन आचरितेन स ब्रह्मचारी देवार्चनाधिकारी भवेत् । अन्यस्य स्त्र्यारम्भसेवासंक्लिष्टस्य गहिणः अन्त्यं तद्वयं स्नानं मतं प्रोवास्नानं शिरःस्नानं च ताभ्यां स शुद्धः देवपूजां कुर्यात् ।।४६७।। आरम्भादि
श्रीमन्नेमिदेवभगवतः शिष्येण सद्योऽनवद्यगद्यपद्यविद्याधरचक्रवतिशिखण्डमण्डनीभवच्चरणकमलेन श्रोसोमदेवसुरिणा विरंचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्नि महाकाव्ये सच्चरित्रचिन्तामणि म सप्तम माश्वासः"