SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ पं० जिनदासविरचिता [पृ० १६८ अभिलाषाणां समर्थनकथा फलदानकथा तस्यां स्मायें स्मरणयोग्ये आयें पज्ये, तज्जीवितामतनिषेकाय तस्य मदपत्यस्य जीवितार्थम अमतनिषेकाय सघासेचनाय मज्जीवितोचितविवेकाय च मदीयं जीवितं मत्प्राणाः तस्य उचितो योग्यो यो विवेकः तस्मै तत्र भवती पुज्या त्वमेव प्रभवति समर्था भवति । धात्री-अथ किम् । अभ्युपगतं भवद्वचः । तथापि अबलेति-अबलाजनानां नारीजनानां मनसो अतिरिक्ता अधिका या प्रतिभा सा अस्ति यस्य स प्रतिभावान तेन प्रतिभावता। हे अमात्य, नारीजनप्रतिभाया अपि भवतः प्रतिभा अधिका अस्ति अतो भवतापि अस्मिन् कर्मणि प्रयत्नः करणीयः इत्यभिधाय धृतकात्यायनीप्रतिकर्मा धृतकात्यायनीषा या अर्धवृद्धा काषायवसना अधवा च सा दूती कात्यायनीत्युच्यते । करतलेति-हस्ततलधृतस्फटिकमणिरिव विज्ञातसकलस्त्रीस्वभावा तैस्तैः अन्यमनोहरणमन्त्रः वचनः, नयनमनोमोदजनकपदार्थश्च । अतिदीर्घकालं विहितादरा. परिप्राप्तेति-परिप्राप्तः लब्धः प्रणयस्व प्रीत्या प्रार्थनस्य प्रसरावतारः अवतारोद्भवः यया सा तथाभूता सा दूती एकदा मुदा आनन्देन, रहसि विजने तां पुष्यपुरोहितभार्याम् उद्दिश्य इमं वक्ष्यमाणम् प्रस्तुतेति-प्रसंगप्राप्तकार्यरचनायाः अनुकूलमर्यादोपेतं श्लोकं पद्यम् उदाहार्षीत् उक्तवती-स्त्रीषु इतिअत्र जगति स्त्रीषु नारीषु गङ्गव जाह्रव्येव धन्या पुण्यवती, या परभोगोपगापि परेषां समीपं भोगदानाय उपगच्छन्त्यपि शंभुना शिवेन मूनि मस्तके मणिमालेव रत्नस्रगिव सोल्लासं सानन्दं ध्रियते स्थाप्यते ॥४२५॥ भट्टिनी-(स्वगतम् ) इत्वरीति-परपुरुषानेति गच्छति इत्येवं शीला इत्वरी कुलटा पुंश्चली स चासो जनश्च इत्वरोजनः तस्याचरणम् असत्प्रवृत्तिः तदेव हयं धनिनां वासः तस्य निर्माणाय प्रथमसूत्रपात इव प्रथमत एव भूमिमापनार्थ सूत्राङ्कनमिव अयं वाक्यप्रस्ताव उपलक्ष्यते। तथा चाह या इयं तावत् आकृतपरिपाकम् स्वाभिप्रायस्य परिपाकं निश्च्योतं सारम् । (प्रकाशं) आर्ये, किमस्य सुभाषितस्य ऐदंपर्यं तात्पर्यम् । धात्री-परमसौभाग्यभागिनि भट्टिनि, उत्तमसौभाग्यवति, भट्टिनि, भट्ट स्वामित्वम् अस्याः अस्तीति भट्टिनी तत्संबोधनं हे भट्टिनि, हे ब्राह्मणभार्ये, जानासि एवास्य सुभाषितस्य कैम्पर्यम् तात्पर्यम् । यदि न वज्रघटितहृदयासि चेद्वज्रेण निर्मितचित्ता न भवसि । भट्टिनी-( स्वगतम् ) सत्यं वज्रघटितहृदयाहम् । यदि चेत् भवत्प्रयुक्तोपघातघुणजर्जरितकाया न भविष्यामि । भवत्या प्रयुक्तः यः उपघातः अपकारः स एव घुणः कीटकः तेन जर्जरितः कायः उत्कीर्ण: देहो यस्याः तथाभूताहं न भविष्यामि । मार्ये, हृदयेऽभिनिविष्टम् अर्थ मनसि निश्चयेन प्रविष्टम् अर्थम अभिप्राय श्रोतुमिच्छामि । धात्री-वत्से, कथयामि कि तु चित्तं द्वयोरिति-ज्ञानम् अभिमानः चित्तोन्नतिः तदुभयम् एव धनं तेन धन्या धीः बुद्धिः यस्य, तेन नरेण । द्वयोः पुरतः अग्रतः एव चित्तं निजाभिप्रायः निवेदनीयं कथनीयम् । को तो द्वौ नरो ययोः पुरतः चित्त निवेद्यते इत्याह-यः प्रार्थितम् इति यः नरः अभियुज्यमानः संबध्यमानः प्रार्थितं मित्रस्य याचनादिकं न रहयति न स्फोटयति 'यो वा जनो निजस्य मनसः अनुकुल: भवति, सोऽपि रहस्यं न भिनत्ति । अतः इमो द्वो एव नरो रहस्यकथनयोग्यौ निश्चेयौ ॥४२६॥ भट्टिनी-(स्वगतम्) अहो नभःप्रकृतिम् अपि इयं नभसः आकाशस्य स्वभावम् अपि नैर्मल्यमपि पडूः कर्दमैः उपलेप्तुं म्रक्षितुम् इच्छति आकाशवन्निर्मलस्वभावां मां पतिव्रताम् इयं घात्री असतीजनदोषकर्दमः म्रक्षितुमिच्छति । इति स्वगतं पद्मा व्यमृशत् । (प्रकाशम्) आर्ये, उभयत्रापि समर्थाहम्, अहं रहस्यभेदिका न भवामि । त्वन्मनसोऽनुकूला च भवामि। चित्तं द्वयोरिति न मदुपज्ञम् न ममाद्यज्ञानम् । न भवदुपक्रम वा न भवत्या प्रथमं कार्यम् प्रारब्धमिति । न हि मदीय उपाधिन च भवदीय उद्यमः किं तु पुरैव ईदृशी गतिरस्ति।धात्री-(स्वगतम्) अनुगुणेयं खलु कार्यपरिणतिः इयं खलु निश्चयेन कार्यपरिणतिः कर्मणः परिणमनम् अनुगुणा मदभिप्रायानुकूला भवति । यदि चेत् निकटतटतन्त्रस्य समीपतीरप्राप्तस्य बहिषपात्रस्येव नौकाशरीरस्येव दुर्वातालीसंनिपातो न भवेत् । दुष्टो वातः दुर्वातः तस्य आली पङ्क्तिः दुर्वातालो तस्याः संनिपातः वेगेन आगमनं न भवेत् । मम कायं तु अधुना सम्यक् अनुकूलप्रायमेव जाने इति धात्री वदति यदि कोऽपि नान्तरायोऽत्र स्यात् । (प्रकाशम् ) अत एव भद्रे, वदन्ति पुराणविदः। [पृष्ठ १९८] विधुरिति-गुरोः बृहस्पतेः कलत्रेण भार्यया सह विधुश्चन्द्रः समगस्त मैथुनं चकार । गोतमस्य ऋषेः भार्ययाहल्यया सह अमरेश्वरः इन्द्रः । शन्तनोनृपस्य च भार्यया गङ्गया सह दुश्चर्मा शंकरः पुरा किल समगस्त संभोगं चकार ॥४२७॥ भट्रिनी-आर्ये, एवमेव सत्यमेतत् । यतः । स्त्रीणामिति-स्त्रीणां
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy