________________
-पृ० १६७]
उपासकाध्ययनटीका
४४५
मुगः हरिणः तस्य विनोदस्य विहारभूमिः संचारस्थानम् । एषा स्मरः कामः एव द्विरदः गजः तस्य बन्धने वारिवृत्तिः बन्धनरज्जुः । एषा किं खेचरी विद्याधरी, किम् अमरी सुरी, वा किम् इयं रतिः मदनभार्या ॥४२३॥
[पृष्ठ १९५-१६७] इति च विचिन्त्य मकरेति-मकरः मत्स्यः केतो ध्वजे यस्य स मदनः तस्य वशे व्यापारनिधिः प्रवृत्तिनिधानं यस्य, प्रवृत्तेति-प्रबृत्तः प्रादुर्भूतः दुरभिसंधिः दुष्टो मनोविचारो यस्य, पुरुषेति-पुरुषप्रयोगेण दूतसंप्रेषणादिना अभिमतस्य इष्टस्य सिद्धि प्राप्तिम् अनवबुद्धधमानः अजानन्, तडिल्लतां नाम धात्रीम्, कथंभूताम् । पराशयेति-पराभिप्राय एवं शैल: पर्वतः तस्य विदारणे विदलने तडिल्लतामिव विद्युल्लतामिव । अषडक्षीणे शरणे न षट् अक्षोणि नेत्राणि यत्र तथाभूते शरणे गृहे तृतीयाद्यगोचरे गृहे विजने गृहे इत्यर्थः । सुनयेति-सुनयानां विज्ञप्त्यादिव्यवहाराणाम् आयतनादिभिः स्थानादिभिः पादपतनादिभिः चरणवन्दनादिकैः प्रश्रयैः विनयः। कथंभूतः असदाशयाश्रयैः दुरभिप्रायावलम्बनः अवन्ध्यसाध्यं सफलसाध्यम् उपरुध्य ज्ञात्वा। स्वकीयेति-निजाभिप्रायगहनवर्धनभमिम अकरोत विदधे। तदपरोधात तस्य उपरोधात आग्रहात् तथाविधविधिविधात्री वशीकरणकार्यविधायिनी तत्कार्यविधायिनी-घात्री (स्वगतम् ) परपरिग्रहः परस्य अन्यस्य परिग्रहः कलत्रम् । अन्यतरानुरागग्रहश्च अन्यतरस्य अनुरागः स्नेहस्तस्य ग्रहणं चेति दुर्घटः दुःसंधानः प्रतिभासः अनुभवो यस्य तादक् खलु अयं कार्योपन्यासः। अथवा सुघटः एव सुसंधान एव अयं कार्यघटः । इयं कार्यरचना सुसंधानव । यतः यस्मात् तप्तातप्तप्लवयसोरयसोरिव अग्नितप्तानग्नितप्तयोः प्लवयसोः चक्रलोहनेभ्योरिव विरुद्धयोश्चेतसोः मनसोः सांगत्याय अनुकूलीकरणाय खलु पण्डितैः दोत्यं दूतत्वं करणीयम् । अन्यथा सरसतरसोः रससहितयोः वेगवतोः द्रवस्वभावयो: जलयोरिव सरसतरसोः प्रेमवतोः वेगवतोश्च अन्योन्यं प्रति उत्सुकयोः द्रवस्वभावयोः काठिन्यरहितयोः चित्तयोः एकीकरणे कि नु नाम प्रतिभाविजृम्भितम् । का नाम नवनवोन्मेषशालिन्या बुद्धः स्फूतिः । प्रतिकूलस्वभावयोर्मनसोरेकीकरणे यद्दोत्यं क्रियते तदेव दौत्यं प्रशस्यमित्यर्थः । किं च । सा दूतिकेति-या बुधानां विदुषाम् अभिमतकार्यविधी इष्टकर्मकरणे चातुर्यवर्यवचनोचितचित्तवृत्तिः चातुर्येण बुद्धिकौशल्येन वयं श्रेष्ठं यद्वचनं तस्य उचिता योग्या चित्तवृत्तिः मनोवत्तिः यस्याः सा दृतिका स्वामिसंदेशप्रापिका ज्ञेया। या दतिका कि करोति । चुम्बकोपल कलेव चुम्बति लोहमाकर्षति स चासो उपलश्च चुम्बकोपल: अयस्कान्तः तस्य कला अंशः यथा अन्तःशल्यं लोहमयं बहिः करोति । तथा अपरस्य अन्यस्य नरस्य चेतोनिरूढं मनसि स्थितं शल्यं वैरादिकं बहिः करोति ततो निष्कासयति । एतादशी एव दुतिका प्रशस्येति भावः ॥४२४॥ तदलं विलम्बेन अस्मिन् कार्ये कालक्षेपो न कर्तव्य इति भावः । यथा परिपक्वफलं व्यतिक्रान्तकालं सरसत्वाधिष्ठानं न भवति । तत् उचितकालातिक्रमेण गन्धवर्णरसभ्रष्टं भवति । तथात्र कार्ये विलम्बे जाते सति अस्य कार्यस्य सरसत्वं च नश्येत् । कि त्वस्य साहसावलम्बनधर्मणः कर्मणः साहसाश्रयसाध्यस्य कार्यस्य देवात सिद्धौ सत्याम, परेङ्गिताकारसर्वज्ञः प्राज्ञैः अन्यमनःस्थिताभिप्रायचेष्टानां विद्भिः विबुधः, कथमपि महता कष्टेन, बहुजनावकाशे कृते सति बहुजनानां मनसि अवकाशे परिचये कृते सति स्नेहे आदरे वा समत्पादिते सति शरीरी साहसकर्मणः कर्ता नरः पुरश्चारी भवति अग्रणोः जायते । साहसकार्यस्य असिद्धी सत्यां शरोरी तत्कार्यस्य विधाता दुरपवादपरागावसरः जननिन्दाधुलिपातस्थानं व्यसनगोचरश्च भवति विपद्विषयश्च जायते । सत् ध्वनयेयं कथयामि या इयं पद्मा इदं कायं च अवसेयं ज्ञातुं योग्यम् । इयं पद्मा किस्वभावा कोदृश्यस्या मनोवृत्तिरिति ज्ञातव्यम् । इदं च कार्यम् अद्वितीयापत्यप्रसवाय अद्वितीयं न द्वितीयम् अद्वितीयम् एकं तच्च तदपत्यं पुत्रः तस्यैव प्रसव उत्पत्तिर्यस्य तथाभूताय सचिवाय अवसेयं ज्ञातव्यम् । तदुदाहरन्ति-"न च अनिवेद्य भर्तुः किंचिदारम्भं कुर्यात् अन्यत्रापत्प्रतीकारेभ्यः" स्वामिनः अनिवेद्य अकथयित्वा न च किंचित् भारम्भम् कार्य कुर्यात् स्वामिनं पृष्ट्वा कार्यं कुर्यात् इति भावः । परम् आपत्प्रतीकारभ्य अन्यत्र विपत्तिनिराकरणसमये स्वामी न प्रष्टव्यः अपृष्ट्वा एव स्वामिनं तदुपद्रवकारिणीम् आपदं परिहरेत् इति । (प्रकाशम) प्राणप्रियकापत्य अमात्य, प्राणवत् प्रियं वल्लभम् एकम् अपत्यं यस्य तथाभूत हे अमात्य सचिव, ईदृश इव सामान्यजन इव भवादृशोऽपि जनः जातस्य पुत्रस्य जीविते अमतस्य निकाय सेचनाय अचिरत्नं यत्नं तात्कालिकं प्रयत्न विधातुं योग्यो भवान् भवति । अमात्यः-समस्तमनोरथसमर्थनकथास्मायें आर्ये, समस्तानां सकलानां मनोरथानाम्