________________
पं० जिनदासविरचिता
[पृ० १९४
अङ्गं लिङ्ग योनिश्च तयोरन्यत्र मुखादिप्रदेशे क्रीडा । अन्योपयमक्रिया-कन्यादानम् उपयमक्रिया । अन्यस्य स्वापत्यव्यतिरिक्तस्य कन्याफललिप्सया स्नेहसंबन्धादिना वा उपयमक्रिया । तीव्रता परित्यक्तान्यव्यापारस्य पुनः पुनः स्वस्त्रीसेवनम् । रतिकतव्यं रतिक्रियायां कैतव्यं कपट विटत्वम्, एतानि तद्वतं ब्रह्मचर्यव्रतं हन्युः दुष्येयुः ॥ ४१८ ॥ मद्यमिति-मद्यं मदिरा, द्यूतं पणः, उपद्रव्यं मांसमधु-भाङ्गिकधतूरादि वस्तु । तौर्यत्रिकं नाट्यम् गानं वादित्रं च, अलंक्रियाः लिमलेपादिप्रयोगः, आभूषणानि च, मदो दर्पः, व्यभिचारिणः पुरुषा विटा:, वृथाट्या प्रयोजनं विना विचरणम् इति दशधा अनङ्गजः कामजः गणः ॥ ४१९ ॥ कोपजो गणः-हिंसनम्, साहसम् अविचारेण बलेन कार्यकरणम्, द्रोहः स्वामिमित्रादिद्वेषः । पुरोभागी खल: तस्य भावः पौरोभाग्यं दुर्जनत्वम् । अर्थदूषणे अर्थलाभे दूषणम् अन्तरायविधानम। ईर्ष्या स्पर्धा पराभ्युदयासहनम । वाग्दण्ड:- क्रोधावेशेन निन्द्यभाषणं वाग्दण्डः, पारुष्यं परुषभाषणं मर्मदाहकत्वम् अनेकदोषदुष्टोऽसीति । इति कोपजः अष्टधा गणः प्रोक्तः । ब्रह्मव्रतवा दोषाः त्याज्याः ॥ ४२० ॥ ऐश्वर्येत्यादि-ऐश्वर्य वैभवम् । औदार्य दातृत्वगुणः । शौण्डीर्यम् अप्रतिहतमानता, अन्येन अपरिभवः । धयं निर्भयता, सौन्दर्य रूपवत्वम् । वीर्यता सामर्थ्यम् अद्भतसंचारान् च आकाशगामित्वादिचारदिभेदान् एतान् गुणान् चतुर्थव्रतपूतधीः चतुर्थव्रतं ब्रह्मचर्य तेन पूता धीः पवित्रा मतिर्यस्य सः नरः लभेत प्राप्नुयात् ॥ ४२१ ॥ अब्रह्मचारिणो दोषा:-अनङ्गति-अनङ्गो मदनः स एव अनलः अग्निः तेन संलोढे संस्पृष्टे, परस्त्रीरतिचेतसि परस्त्रिया सह-संभोगसुखे चेतो मनो यस्य तथाभूते नरे अत्र इहलोके सद्यस्का विपदः तत्काले एव विपदः पीडा लिङ्गच्छेदादिकाः । परत्र च दुरास्पदाः परलोके च दुःखस्थानानि यासु ताः विपदः जायन्ते ॥ ४२२ ॥
[पृष्ठ १६४ ] श्रूयतामत्राब्रह्मफलस्योपाख्यानम्-काशिदेशेषु सुरसुन्दरीसपत्नेति-सुरसुन्दर्यो देवाङ्गनाः तासां सपत्नः रूपगुणे ताभिः स्पद्धा कुर्वन् यः पौराङ्गनाजनः नगरनारीगणः तस्य विनोदा एव अरविन्दानि कमलानि तेषां सरसीव तथाभूतायां वाराणस्यां वर्षणो नाम नपतिः । कथंभूतः सः । संपादितेति-संपादितं कृतं समस्तारातीनां सकलद्विषतां संतानस्य वंशस्य प्रकर्षेण कर्षणं सपत्नदेशकोषाणां च हरणं येन तथाभूतः । अस्य सुमजरी नाम अग्रमहादेवी पट्टमहाराज्ञो आसीत् । कथंभूता सा। अतिचिरेति-अतिदीर्घकालात् प्रस्ढः वृद्धि गतः प्रणयः स्नेहः स एव सहकारः आम्रतरुस्तस्य मञ्जरीव पुष्पपंक्तिरिव । धर्षणनपतेः उग्रसेनो नाम सचिवः, कथंभूतः सः। पञ्चतन्त्रादीनि यानि शास्त्राणि तेषामध्ययनात् विस्तृतं वचनं यस्य तथाभूतः । अस्य सचिवस्य सुभद्रा नाम पत्नी, कथंभूता सा । पतिहितकमनोमुद्रा स्वभर्तृ कल्याणे एव एका मनोमुद्रा मनोव्यापारो यस्याः सा। दुर्विलासरसे रङ्गः प्रीतिर्यस्य तथाभूतः कडारपिङ्गो नाम अनयोः सूनुः पुत्रः । घर्षणनृपस्य पुष्यो नाम पुरोहितः । कथंभूतः सः । अनवद्यति-अनवद्या पापरहिता या विद्या आगमज्ञानं तेन प्रकाशिताः अध्यापिता: अशेषशिष्या येन स तथाभूतः। अस्य पद्मा नाम धर्मपत्नी । कथंभूता सा। सौरूप्येति-सुरूपस्य भावः सोरूप्यं सौन्दर्य तस्य अतिशयः प्रकर्षः तेन अपहसिता उपहासं नीता तिरस्कृता पद्मा लक्ष्मीर्यया सा। [ कडारपिङ्गेन पद्मा एकदा अवलोकिता]। स कडारपिङ्गः कथंभूतः । समस्तेति-समस्ताश्च ते अभिजातजनाः सद्वंशजजनाः तेभ्यो ये बाह्या व्यवहारा असदाचाराः ताननुगच्छति इति सकडारपिङ्गः कडारस्तृणवह्निः तद्वत् पिङ्गः सकडारपिङ्गः । स्वापतेयेति-स्वापतेयं धनम्, तारुण्यम् यौवनम्, मदः इन्द्रियदर्पः एभ्यः मन्दं मानबलं ज्ञानसामर्थ्य यत्र तथाभूताच्चापलात् दुरालपनभण्डेन दुर्भाषणे भण्डेन चतुरेण अश्लीलभाषणनिपुणेन खिनषण्डेन विटसमूहेन सह, नतभ्र इति-नते ध्रुवी यासां ता नतभ्रवः तासां विभ्रमाः शृङ्गारभावजक्रियाविशेषाः तः अभ्यर्थ्यमानाः भुजङ्गा जाराः एव अतिथयः यासु तासु वीथिषु मार्गेषु संचरमाणः विहरन् तामेकदा पद्माम् अवलोक्य दृष्ट्वा, कीदृशीं ताम् । प्रासादेति-प्रासादतलं हर्म्यस्योपरितनभूमिम् उपसीदति इति उपसदा तां हय॑स्योर्ध्वभूमौ तिष्ठन्तीम् । अरालेति-अरालानि वक्राणि पक्ष्माणि नेत्रलोमानि ययोः ते च ते ईक्षणे नयने ताभ्याम् आक्षिप्ता तिरस्कृता पद्मा यया तादृशीं तां पद्माम् अवलोक्य । एषेति-एषा इयं प्रत्यक्षीभूता नारी इन्द्रियाणि एव द्रुमाः तरवः तेषां समुल्लसने विकासने अम्बुवृष्टिः जलवृष्टिः । एषा मन एव