________________
-पृ० १६४] उपासकाध्ययनटीका
४४३ ब्रह्म ब्रह्मचर्य वैदितव्यम् ॥४०५।। धर्मेति-धर्माचरणस्य भूमिः पुण्यभूमिः आर्यदेशः चैत्यालयादिकं वा तत्र मनुष्यः नियतस्मरः विजितमदनो भवेत् । धर्मभूमौ धर्मस्य स्थाने मातृस्वसृतनूजादिषु मनुष्यः जितमदनो भवेत् । यत् यस्मात् जात्यैव स्वजात्या एव परिणीतया सह संभोगः कार्यः, पराः वधूवेश्ये मुक्त्वा पराः ताभ्याम् अन्याः जातिबन्धुलिङ्गिस्त्रियः जातिस्त्रियः या स्वीया जातिः तस्त्रियः, बन्धुस्त्रियः सुहृदां स्त्रियः, स्यालादिसंबन्धिनां स्त्रियः, लिङ्गिस्त्रियः तिन्यः स्त्रियः आयिकादयश्च । ताः त्यजेत् ॥४०६॥ रक्ष्यमाणे इति-यत्र यस्मिन् व्रते रक्ष्यमाणे अहिंसादयो गुणाः अहिंसा-सत्य-अचौर्य-परिग्रहप्रमाणत्वादयो गुणाः बृहन्ति वृद्धिमुपयान्ति । ब्रह्मविद्याविशारदाः अध्यात्मज्ञाननिपुणाः तद्ब्रह्म उदाहरन्ति नियतस्मरं नाम व्रतं वदन्ति ॥४०७॥ मदनेतिमदनोद्दीपनैः मदनस्य उद्दीपनानि कामवृद्धिविधायोनि यानि वृत्तानि वर्तनानि कुत्सिताचाराः तः आत्मनि मदं न आचरेत् दर्प नोत्पादयेत् । मदनोद्दीपन रसैवष्यादिरसैः स्वस्मिन् दपं न जनयेत् । मदनोद्दीपनैः शृङ्गारप्रचरैः काव्यादिभिः दर्पन उत्पादयेत ॥४०८॥ हव्यैरति-यथा हतप्रीतिः हयन्ते इति हतानि घतादीनि तेषु प्रीतिः यस्य सः हुतप्रीतिः अग्निः, स हव्यरिव हव्यर्यथा देवदत्तद्रव्य तादिभिः तोषं तृप्तिं न एति। नीरधिः समुद्रः पाथोभिरिव जलयथा तोषं नैति तथा भवसंभवैः नजन्मनि संभव उत्पत्तिर्येषां तभॊगैः स्त्रीस्रक्चन्दनादिभिः एष पुमान् पुरुषः तृप्तिं संतोषं न एति ।।४०९॥ विषवदिति-यथा विषम् आपाते तत्काले मधुरागमं भवति मधरस्वादं भवति । अन्ते अवसाने विपत्तिः मृत्युः फलं ददाति तथा विषयाः कामिन्यादयः तत्काले मधुराः प्रियाः भवन्ति अवसाने विपत्तिफलदाः आपत्फलदायिनो भवन्ति । तत् इह विषयेषु सतां सज्जनानां को ग्रहः कः अभिनिवेशः ॥४१०॥ बहिरिति-बाह्यतः तास्ताः आलिङ्गनचुम्बनादिकाः क्रियाः कुर्वन् संकल्पजल्पधान् नरः अहम् एवं तां नारीमाश्लिष्यामि एवं तस्या मुखं चुम्बिष्यामि इति संकल्पं कुर्वस्तथैव अन्तर्जल्पं कुर्वाणः नरः भावाप्तावेव भावः समानरतिरिति । तस्याप्तावेव प्राप्ती सत्यामेव स निर्वाति संतोषं याति । परं तत्र विषयसेवने परस्त्रीसेवायाम् अधिकः क्लेशः समुत्पद्यते । अथवा भावाप्ती एव समरसरसरङ्गोद्गमे सत्येव निर्वाति सूखं लभते । अन्यथा भीत्यादिविकारे सति मनःप्रसत्यभावे सुखं न लभते । प्रत्युत परस्च्यादिसेवने क्लेश एव अधिको भवेत् । अतः परस्त्रियं वर्जयेत् ।।४११॥ निकाममिति-निकामं नितराम् । कामकामारमा कामे मैथुनसुखे काम इच्छा यस्य स आत्मा जीवः । तस्य मैथुनस्य अनारतसेवने सति । तस्य अनन्तवीर्यपर्यायः तृतीया प्रकृतिः भवेत् नपुंसकभावो भवेत् ।।४१२॥ सर्वेति-हितकामिनां हिताभिलाषिणाम् । फलाय धर्मफलप्राप्तये । सर्वा क्रिया अनुलोमा अनुकूला भवेत् । धर्मसेवने अनुकूला दानतपःपूजादिका क्रिया स्वर्गापवर्गफलप्राप्ती हेतुः भवेत् । परम् अर्थकामी वर्जयित्वा विश्वसितवञ्चनस्वामिद्रोहपरस्त्रीसेवनादिकाननुकूलक्रियाणां करणेनार्थकामपुरुषार्थफलं न लभ्यते । न्यायोपात्तपनादिकात् स्वस्त्रीसंतोषादिकादेव अर्थकामफलं लभ्यते ॥४१३॥ क्षमेति-कामः मैथुनसेवनं क्षयामयसमः क्षयनामक आमयसमः रोगतुल्यः अयं कामः । सर्वे च ते दोषाः सर्वदोषाः तेषाम् उदये उत्पत्ती द्युतिः कान्तिः। कामाकुले नरे रागादिदोषाणाम् उत्पत्तिर्भवतीति भावः । तत्र मानाम् मनुष्याणाम् उत्सूत्रे कामे उच्छृङ्खले सति कुतः श्रेयःसमागमः, कुतः मोक्षप्राप्तिः भवेत् ॥४१४॥ देहेति-देहस्य संस्कारः दन्तनखकेशादिशृङ्गारः शरीरसंस्कारः । द्रविणसमुपार्जनं क्रयविक्रयादिभिः धनवृद्धिः तथा द्रविणवत्तयः द्रविणेन धनेन वत्तिः उपजीवनम् । जितकामे जितः कामो येन तस्मिन्नरे जितेन्द्रिये उपर्युक्ताः सर्वाः क्रिया वृथा। तत्कामः सर्वदोषान् भजति ॥४१५॥ ... [पृष्ठ १९३-१९४ ] स्वाध्यायेति यावत् यावत्कालं चित्तेन्धने चित्तमेव मन एव इन्धनं दारु तस्मिन् कामाशशक्षणिः इन्द्धे दीप्तो भवति । तावत् तावत्कालं स्वाध्यायः धर्मग्रन्यानां पठनम्, पुच्छनादिक च, ध्यानं मन एकाग्रं विधाय अर्हदादिषु तद्गुणेष च विहितं चिन्तनम् । धर्मः अहिंसादिसदाचारः आदिशब्देन तपःसंयमादिकम् । एताः क्रियाः कुतः ॥ ४१६ ॥ ऐदंपर्यमिति-अतः एतस्मात्कारणात्, मुक्त्वा अत्यधिक कामसेवनं मुक्त्वा, भोगान् आहारवद्धजेत् अत्यासक्त्या अन्ने सेविते धर्मार्थकाया नश्यन्ति । तथा स्यादिभोगाः अत्यासक्त्या सेविताः धर्मम् अर्थम् कायं च नाशयन्ति अतः भोगान् अन्नवद्भजेत् । देहदाहस्य शान्तये, अभिध्यानं सततं भोगानाम् अनुचिन्तनं तस्य विहानये नाशाय ॥ ४१७ ।। स्वस्त्रीसंतोषव्रतदोषान् वर्णयतिपरस्त्रीति-परस्त्री परस्य स्त्री परस्त्री तया संगमः संभोगः, स्वस्त्रीसंतोष व्रतं नाशयति । अनङ्गक्रीडा