________________
४४२ पं० जिनदासविरचिता
[पृ० १६१पशूनाम् अश्वमेघस्य यज्ञस्य मध्यमेऽहनि नियुज्यन्ते ॥ ३९८ ॥ महोमो वेति-श्रोत्रियाय वेदाध्येतृब्राह्मणाय महोक्षः महाबलीवर्दः, महाजो महांश्छागः विशस्यते हिंस्यते दिव्याय ॥ ३९९ ॥ गोसवे इति-गोसवे गोमेघयज्ञे सुरभि गां हन्यात् हिंस्यात् । राजसूये यज्ञे तु भूभुजं राजानं हन्यात् । अश्वमेधे हयम् अश्वं हन्यात् । पौण्डरीके च दन्तिनं गजं हन्यात् ।। ४००॥ औषध्य:-औषध्यः वनस्पतयः, पशवः छागादयः, वृक्षाः तरवः पलाशोदुम्बरपिप्पलादयः, तिर्यञ्चः कूर्मादयः, पक्षिणः हंससारसादयः, नराः मनुष्याः, एते यज्ञार्थं निधनं
प्राप्ताः उच्छिताम उन्नतां गति देवादिगति प्राप्नवन्ति यान्ति ॥ ४०१॥ मानवमिति-मनोरिद मानवं मनुवचनम्, व्यासवासिष्ठं व्यासस्येदं व्यासम्, वसिष्ठस्येदं वासिष्ठम्, व्यासवचनं वसिष्ठवचनं च वेदसंयुतं वेदोक्तमेव भवति । यो नरः अप्रमाणं ब्रूयाद्वदेत् स ब्रह्मघातको भवेत् ब्राह्मणघातस्य पातकं तस्य भवेदित्यर्थः ।। ४०२॥ पुराणमिति-पुराणं रामायणभारतादिकम् । मानवो धर्मः मनुप्रणीतं स्मृतिशास्त्रम्, साङ्गो वेदः शिक्षा-कल्प-व्याकरण-च्छन्दो-ज्योतिष-निरुक्तलक्षणः षडङ्गः सहितः वेदः चिकित्सितम् आयुर्वेदम् । एतानि चत्वारि शास्त्राणि आज्ञासिद्धानि । एतेषां वचनमेव मन्यते । हेतुभिर्न हन्तव्यानि । हेतुवादेन न निराकरणीयानि ॥ ४०३ ॥ इति मनु-मरीचि-मतङ्गप्रभृतयश्च सवषट्कारं वषट्कारपूर्वकम् अजाः छागाः, द्विजाः पक्षिणः, गजाः हस्तिनः वाजिनः अश्वाः प्रभृती आदी येषां ते तान् देहिनो मन्वादय ऋषयो जुह्वति यज्ञकुण्डे मन्त्रोच्चारणपूर्वकं पातयन्ति । तदेवं श्रुतिर्वेदः शस्त्रम् अस्यादिकं प्रहरणम्, वणिज्या उद्यमः क्रयविक्रयादिकम्, जित्या हलाद्युपकरणम्, एतैः उपजीविनां ब्राह्मण-क्षत्रिय-विट्-शूद्राणाम् ईताः ( ईतीः) पीडाः पर्वतो व्यपोहति निराकरोति । कालासुरः पुनः आलभ्यमानान् हिंस्यमानान् प्राणिन: अजद्विजगजादीन् साक्षाद्विमानानि मारूढान स्वर्गे देवलोके शाम्बर्या मायया पर्यटतः विहरमाणान् दर्शयति । मनुप्रमुखाश्च मुनयः प्रभावयन्ति मन्त्रप्रभावं दर्शयन्ति । मायया प्रकटितस्वर्गालयप्रदेशादिलोभे उत्पन्ने सकलप्रजाजनक्षोभे च स सगरः प्रत्यासन्नं समीपं नरकनगरं यस्य, श्वनं नरकः तस्य विभ्रमस्य उचिता योग्या स्थितिर्यस्य स विश्वभूतिश्च तदुपदेशात् पर्वतकालासुराद्यपदेशात् तांस्तान् प्राणिनोऽजादीन् हत्वा • प्सात्वा भक्षयित्वा च दुर्दुःखदः अन्तोऽवसानं यस्य तदुरितं पातकं तेन युक्तं चित्तं मनः चेतः ज्ञानं ययोस्तो सगरविश्वभूती मखमिषात् यशव्याजेन कालासुरेण स्मारितं ज्ञापितं. पूर्वभवागः पूर्वजन्मापराधः ययोस्तो वोतिहोत्रोऽग्निः तस्मिन्नाहुतिरूपेण विहितं कृतं विचित्रं नानाविध वधरहः प्राणघातगुह्यं ययोस्तो विचित्राया धरित्र्या भूमेः वाघीयः दीर्घ दुःखदवथुः पीडासंतापः तेन मन्थरं मन्दं तलं नरकतलम् इति भावः अगाताम् अगच्छताम् । पर्वतोऽपि सप्तमनरके जन्म लेभे। कथंभूतः सः अग्नायीपतिविजये अग्नेः स्त्री अग्नायी अग्नेर्भार्या तस्याः पतिः अग्निः तस्य विजये, जठरधनंजये उदराग्नी व हव्यकव्यकर्मभिः पितृदेवकर्मभिः कृतसकलप्राणिघातः । पुनः कथंभूतः। कालासुरेति-कालासुरस्य तिरोधानम् अन्तर्धानं तेन विधुरविषिसारः दुःखपीडासारो यस्य । तद्विरहेति-तस्य कालासुरस्य विरहः वियोगः स एव आतकुशोचिः रोगाग्निर्यस्य क्लेशकृश्यच्छरीरः दुःखेन कृशदेहः, कालेन जीनं जीणं जीवितम् आयुः प्रचारः श्वासोच्छवासादिकं गमनादिकं च यस्य सः पर्वतः सप्तमरसावसरः सप्तमरसा सप्तमं नरकम् अवसरः तस्य स्थानम् । समपादि अभवत् । भवति चात्र श्लोक:मृषोद्यादीनवोद्योगात्-मृषोद्यम् असत्यवचनं तदेव आदीननो दोषः तस्य उद्योगात् पर्वतेन समं वसुः ज्वलदातङ्कपावकं ज्वलन् दीप्यन् आतङ्क एव पावको अग्निर्यत्र तथाभूतं जगतीमूलं जगत्या मूलं नरकभूमि जगाम अगच्छत् ॥ ४०४ ॥
इत्युपासकाध्ययने असत्यफलसूचनो नाम त्रिंशत्तमः कल्पः ॥३०॥
३१. अब्रह्मफलसाधारणो नामैकत्रिंशत्तमः कल्पः [पृष्ठ १९१-१९२ ] वधू इति-वधूः पत्नी वित्तस्त्री वेश्या अवधूता उभे मुक्त्वा सर्वत्र अन्यस्मिन् तज्जने स्त्रीजने कन्यादिषु तेषु माता, स्वसा भगिनी, तनूजेति कन्येति या मतिः संकल्पः गृहाश्रमे गृहस्थधर्म