________________
-पृ० १९१ ] उपासकाध्ययनटीका
४४१ पुनः कथंभूतोऽहम् । पापेति-पापकर्मणां प्राणिवधादीनां कार्याणां प्रसादः कृपा यस्मिन् तथाभूतोऽहम्, चेतन जानन्नपि आर्योपदिष्टम् आर्यः आचार्यपरंपरागतविबुधैः उपदिष्टं प्रतिपादितं विशिष्टम् अहिंसाधर्मपोषकत्वात्, व्याख्यानं विवरणमहं दुरात्मा इति आख्यानं नाम यस्य तथाभूतः, स्वव्यसनविवद्धये वेश्यासेवनादि व्यसनपोषणाय, धर्मबुद्ध्या साधुमध्ये 'अजैर्यष्टव्यम्' इतीदं वाक्यं वचनम् अशेषकल्मषनिषेव्यः अशेषाणि सकलानि कल्मषाणि पापानि निषेव्यानि सेव्यानि यस्य तथाभूतोऽहम अन्यथोपन्यस्यमानो विपरीतार्थोपस्थापकरूपेण प्रतिपादयन नारदेन आपादितवचनस्खलन: आपादितं प्रदर्शितं वचनस्खलनम् अन्यथाप्ररूपणं यस्य तथाभूतः सन् एतावद्विपत्तिस्थाम् इयत्संकटदशाम् अवापं प्राप्तोऽहम् । [पर्वतस्य कार्ये साहाय्यं तन्वान: कालासुरः ब्रह्मवेषं स्वीचकार ] कालासुर:-पर्वत, मा शोच, शोकं मा कुरु । मुञ्च त्वम् अशेष सकलं धिषणायाः बुद्धेः कलुषं मालिन्यम् । अङ्ग, हे पर्वत, साधु संबोधय आत्मानम् । स्वम् एव सुष्ठु उपदिश । खिन्नो माभूरित्यर्थः । किं तत् आत्मसंबोधनम् । 'न खलु निरीहस्य निश्चेष्टस्य निरुद्यमस्य नरस्यास्ति काचिन्मनीषितावाप्ति: अभिलषितप्राप्तिः। तदलं हन्त हृदयदाहानुगेनावेगेन । तस्मात् हन्त खेदे, मन:संतापं कुर्वता आवेगेन खेदेन अलं मनःसंतापकरं खेदं मा करु इत्यर्थः । हो पत्र पर्वत. यथा स्वकीय संकेताझं स्वाभिप्रायव्यञ्जकलक्षणानि यथा स्युस्तथा ब्राह्मादि ब्राह्मगोसवाश्वमेधसौत्रामणिवाजपेयराजसूयपुण्डरीकप्रभतीनाम् सप्ततन्तूनां यज्ञानां प्रतिपादकानि वाक्यानि रचयित्वा मध्ये मध्ये वेदवचनेष निवेशय प्रवेशय । वत्स, भूः पातालम्, भुवर मध्यलोकः, स्वर स्वर्गलोकः एषां त्रय्याः विपर्यासनं वैपरीत्यापादनं तत्र समर्थ मन्त्राणां माहात्म्यं प्रभावो यस्य तथाभूते मयि सति, त्वयि च, तरसेति-तरसं मांसम, आसवो मदिरा, सवित्री माता एतेषु वस्तुषु प्रवृत्तिः एनत्सेवनं तत्र हेतुः श्रुतिर्वेदः तस्याः गीतिः गानं तस्यां सम्यक अभ्यस्तं सात्म्यं तन्मयता येन तथाभूते त्वयि, किं नु नाम इहासाध्यम् । इत्युत्साह्य स्वकीयाभिप्रायद्योतकवाक्यानां वेदे निवेशनकार्ये प्रवर्त्य । स्वयं विद्यानाम् अवष्टम्भेन बलेन सृष्टाभिः उत्पादिताभिः अष्टाभिरपि ईतिभिः उपद्रवैः उपद्रूयमाणजनपदहृदयं पोडयमानदेशमध्यम् अयोध्याविषयम् आगत्य तत्र नगरबाहिरिकायां पुरबाह्यप्रदेशे स देवः कालासुरः चतुराननश्चतुर्मुखो ब्रह्मा अजायत । अध्वर्युः पर्वत आसीत् । अध्वरं यज्ञं यौति संपादयतीति अध्वर्युः होमकारी ऋत्विक् अभवत् । मायामयसृष्टयः मायया निवत्ता मायामयी तद्रपा सष्टिः उत्पत्तिर्येषां ते मायामयसृष्टयः पिङ्गलमनु-मतङ्ग-मरीचि-गौतमादयश्च ऋत्विजः ऋतौ यजन्तीति ऋत्विजः पुरोहिताः अजनिषत अजोयन्त । तत्र श्रुतिधृतिः श्रुतीः वेदान् धरतीति श्रुतिधृतिः ब्रह्मा चतुभिः वदनः मुखैः उपदिशति । पर्वतस्तु-यज्ञार्थमिति-स्वयंभुवा स्वयं भवतीति स्वयंभूब्रह्मा तेन स्वयमेव पशवः अजादयः, यज्ञार्थं होमार्थं सृष्टाः उत्पादिताः। यज्ञः सर्वेषां जनानां भूत्यै वैभवाय भवति तस्मात् यज्ञे कृतः पशुवधः अवधःअहिंसा भवति ॥३९७॥ 'ब्रह्मणे ब्राह्मणम् आलभेत । ब्रह्मणे ब्रह्मदेवाय ब्राह्मणं विप्रम् आलभेत हिंस्यात् । इन्द्राय क्षत्रियम् इन्द्रदेवाय क्षत्रियं राजन्यम् आलभेत हिंस्यात् । आलभेत इत्यस्य उत्तरत्र सर्वत्र संबन्धः। मरुद्धयो वैश्यं वायुभ्यो वैश्यम आलभेत। तमसे शुद्रं राहवे शद्रम आलभेत। उत्तमसे तस्करम मालभेत उत्तमोदेवाय चौरम् । आत्मने क्लोबं नपुंसकम् । .कामाय पुंश्चलं व्यभिचारिणम् । अतिक्रुष्टाय मागधं राजानस्तुतिकारिणम् । गीताय सूतं सारथिम् । आदित्याय सूर्याय स्त्रियं गमिणीम् । सौत्रामणो सौत्रामणियज्ञे यः एवंविषां सुरां पिबति न तेन मुरापीता भवति । सुराश्च तिल एवं श्रुतौ संमताः वेदे संमताः मान्याः। पैष्टी, गोडी, मागधी चेति । पैष्टी विविधधान्यविकारजा मदिरा। गौडी गुडादिविकारणा सुरा। मामेधी च सुरा। गोसवे गोमेधे यज्ञे ब्राह्मणो गोसवेन गोमेधेन इष्ट्वा पूजयित्वा संवत्सरान्ते मातरमप्यभिलषति, उपेहि मातरम्, उपेहि स्वसारम् ।।
[पृष्ठ १८६-१९१] षट्शतानि इति-अश्वमेषस्य यज्ञस्य मध्यमे अहनि दिवसे पशूनां षट्शतानि नियुज्यन्ते आलभ्यन्ते । वचनात् त्रिभिः पशुभिः ऊनानि रहितानि । अर्थात् सप्तनवत्यधिकानि पञ्चशतानि
१. अग्नीध्राद्या धनार्या ऋत्विजो याजकाश्च । मादिशब्दात् पोतप्रशास्तृब्राह्मण्यछन्दस्य छायाकप्रावस्तुब्रह्ममैत्रावरुणप्रतिस्थातृप्रतिहन्तनेतृनेष्टसुब्रह्मण्या इत्थं सदस्याः सप्तदत्विजः ।