________________
४४७
-पृष्ठ २००]
उपासकाध्ययनटीका वपुः शरीरं बन्धुभिः स्वजनैः अग्निसाक्षिकम् अग्निं साक्षीकृत्य परत्र अन्यस्मिन् पुरुषे विक्रीतम् अपितम् । परम् इदं मानसं न विक्रीतम्,न दत्तमिति भावः । ननु यत्र विश्रम्भगर्भा निर्वृतिः प्रणयपूर्वा निवृतिः संतोषः आह्लादः भवति स एव कृती पुण्यवान् धन्यः तस्य मानसस्य अधिपतिः स्वामी मतः ।।४२८॥ धात्रो-पुत्रि,तहि श्रूयताम, त्वं किल एकदा कस्यचित्कुसुमकिंसारुनिविशेषवपुषः, कुसुमस्य किंसारवः केशराः तैः निविशेषवपुषः समानशरीरस्य कुसुमकेशरकोमलदेहस्येति भावः । पुराङ्गनेति-नगरस्त्रीजननयनकमलमोदे अमृतरोचिषः सुधाकरतुल्यस्य कस्यचिन्नरस्य । प्रासादेति-प्रासादस्य हर्म्यस्य परिसरे पर्यन्तभुवि विहारिणी त्वम् एकदा । वीक्षणेतिनयनमार्गानुयायिनी सती कौमुदीव ज्योत्स्नेव । हृदयेति-हृदयम् एव चन्द्रकान्तमणिः तस्य आनन्द एव निःस्यन्दः जलनिर्गमः तस्य संपादिनी अभूः त्वम् अभवः । तत्प्रभृति तद्दिनमारभ्य, ननु तस्य मदनसुन्दरस्य यनः तरुणस्य । प्रत्यवसितेति-प्रत्यवसितः विनष्ट : वसन्तश्रीसमागमसमयो यस्य तथाभतस्य पुष्पंधयस्येव भ्रमरस्येव रसालमज्जर्यामिव आम्रपुष्पपङ्क्ती इव भवत्यां महान्ति खल मन्दमकरन्दास्वादने स्वैरं मकरन्दमक्षणे दोहदानि अभिलाषाः सन्ति । नितान्तं नितरां चिन्ताचक्रपरिक्रान्तं चिन्ता मानसी व्यथा तस्याः चक्रेण परिक्रान्तं व्याकुलं स्वान्तं तस्य मानसम् । प्रसभमिति-प्रसभं नितरां तव गुणस्मरणपरिणत्याः आधारं तस्य मनोऽस्ति । अनवरतमिति-सततं रामणीयकं तव देहसौन्दर्यम्, तस्य अनुकीर्तनं पुनः पुनः स्मरणं तस्य संकेतो यत्र तथाभूतं तस्य मनः । प्रविकसदिति-प्रविकसत् विकासं प्राप्नुवत् कुसुमतुल्यविलासयोग्यवल्लरीसदृशवल्लभाजने संनिहितेऽपि समीपस्थितेऽपि तस्मिन् तस्य महानुद्वेगः, अतीव खिन्नता विद्यते । पिशाचेति-पिशाचेन देवविशेषेण छलितस्येव पीडितस्य नरस्येव अस्थाने स्वायोग्य वस्तुनि अनुबन्धः स्नेहः। संजातति-संजातः उत्पन्न उन्मादः चित्तविभ्रमः यस्य तथाभूतस्य नरस्येव विचित्रः नानाविध उपलम्भः विभ्रमः तेन क्रियाप्रारम्भो यस्य । पुनः कथंभूतः । स्कन्धेति-स्कन्धे निजस्कन्धे निजभुजशिरसि गदेन गृहीत. स्य नरस्येव प्रतिदिनं लग्घकृशावस्थः । स्मरेति-स्मरस्य कामस्य आराधनायां प्रणीतं विहितं प्रणिधानम् ऐकाम्यं येन तथाभूतस्य नरस्येव इन्द्रियेषु संनता अवसादः कार्यम् अभवत् । प्राणेषु च अद्य श्वीनकथा असुषु जीविते वा अद्यश्वीनकथा अद्य श्वो वा भवति अद्यश्वीनं मरणं तस्य कथा। अपि च-अनवरतेतिअनवरतं सततं जलेन आाणि क्लिन्नानि यानि आन्दोलनानि व्यजनानि तेषां स्पन्दाः चञ्चलताः तः मन्दः अतिसरसा अतिस्निग्धा या मृणाल्यः कमलिन्यः तासां कन्दलैः अङ्करैः नालैः कथंभूतैः चन्दनार्दैः चन्दनेन आर्द्रः क्लिन्नः एतैः सर्वेः करणभूतैः हे प्रियसखि, अमृतेति-अमृतरुचिः चन्द्रः तस्य मरीचयः कराः तैः प्रौढिता प्रगल्भता यस्यां तथाभूतायां निशायाम् ते सुहृदः मित्रस्य वल्लभस्येत्यर्थः किंचित् आत्मप्रबोधः अल्पस्वानुभूतिविद्यते । स्मरव्यथया तव वल्लभोऽतीव पीडितः इति भावः ॥४२९॥
[पृष्ठ १६४-२००] भट्टिनी-आयें, किमित्यद्यापि गोपायते, केनाहं दृष्टा, कः स्मरपीडितः तस्य नामादिकं कथं न कथयसीत्यर्थः । मा निह नुष्व सर्व स्फुटं कथयेति भावः। धात्री-(कर्णजाहमनुसृत्य ) एवमेवम् । सचिवपुत्रः कडारपिङ्गः स्मरपीडित इति भावः । भट्रिनी–को दोषः। धात्री-कदा। कदा तेन आगन्तव्यम् इति प्रश्नो धाश्या कृतः । भट्टिनी-यदा तुभ्यं रोचते । तदा तेनागन्तव्यम् इतश्च अनन्तरायतया निषितया तया पाया पुष्यमार्यया अनुमता सा धात्री। तनयानुमताहितमतिपाटवः तनयस्य अनुमतं प्रियं यत्कार्य तत्र माहितं स्थापितं मतिपाटवं बुद्धिचातुर्य येन स सचिवोऽपि उग्रसेनोऽपि । नृपतीतिनृपतेः वर्षणाबस्य निवासे गृहे उचितप्रचारेषु उचितः योग्यः प्रचारः प्रवर्तनं येषां तेषु वासरेषु दिनेषु यातेषु कस्मिश्चिद्दिने गुणव्यावर्णनप्रसंगे आगतम् एतस्य महीपतेः नृपस्य पुरतः श्लोकम् इमम् उपन्यास्थत् अपठदित्यर्थः । राज्यमिति-यस्य वेश्मनि गृहे किंजल्पः पक्षिविशेषः विद्यते तस्य राज्यं विवर्धते । सिद्धात् मन्त्राराधनाल्लब्धाञ्चिन्तामणेर्यथा किंजल्पपक्षिप्राप्तेः शत्रवश्च क्षयं यान्ति ॥ ४३० ॥ राजा-अमात्य, क्व तस्य प्रादुर्भूतिः, कीदृशी च तस्याकृतिः। अमात्यः-देव, भगवतः पार्वतीपतेः पूज्यस्य गौरीवल्लभस्य श्वशुरस्य पार्वतीपितुः, कथंभूतस्य श्वशुरस्य । मन्दाकिनीति-मन्दाकिन्या: गङ्गायाः स्पन्दः प्रवाहः तस्य निदानं कारणं कन्दरनीहारो गुहाहिमं यस्य । पुनः कथंभूतस्य । रमणेति-रमणः पतिः सहचरो सहयायो यासां ताः खेचर्यः खगाङ्गनाः तासां सुरतस्य संभोगस्य परिमल: विमर्दोत्थजनमनोहरगन्धः, तेन मत्ता लम्पटा