________________
उपासकाध्ययनटीका
- पृ० १७७ ]
४३१
मादिवचनं केवलिष्ववर्णवादः । मांसभक्षणाद्यभिधानं श्रुतावर्णवादः । शूद्रत्वाशुचित्वाद्याविर्भावना संघावर्णवादः । सुरामांसोपसेवाद्यषघोषणं देवावर्णवादः । अनशनादितपश्चरणं केवलम् आत्मक्लेशहेतुः न ततः सुखलाभः कश्चित् इति तपसोऽवर्णवादः || ३७९ || मोक्षमार्गेति - यः मोक्षमार्ग रत्नत्रयरूपं स्वयं जानन् विदन् अर्थिने प्रार्थनायां कृतायाम् ' उपदिश मम मोक्षमार्गमिति' अहं तं ज्ञातुमिच्छामीति प्रार्थनां कुर्वते मदापह्नवमात्सर्यैः तस्य तं न भाषते न ब्रूते स आवरणद्वयी ज्ञानदर्शनावरणद्वयास्रववान् जायते । न मत्समानो ज्ञानी कश्चित् इति स्वस्योत्कर्षतावहनं मदः । कुतश्चित्कारणान्नास्ति, न वेद्मि इत्यादि ज्ञानस्य दर्शनस्य च व्यवलपनं निह्नवः । कुतश्चित्कारणाद्भावितमपि मोक्षमार्गज्ञानं दानार्हमपि यतो न दीयते तन्मात्सर्यम् । इति मदापह्नत्र मात्सर्याणां लक्षणानि ॥ ३८० ॥ सत्याणुव्रतस्य दोषाः - मन्त्रभेद इति मन्त्रभेदः, परीवादः, पैशुन्यम्, कूटलेखनम्, मुधा साक्षिपदोक्तिश्च एते सत्यस्य विघातकाः सन्ति । मन्त्रभेदः - अर्थप्रकरणाङ्गविकार भ्रूनिक्षेपणादिभिः पराकूतमुपलभ्य तदाविष्करणम् असूयादिभिः । परीवादः मिथ्योपदेशः अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्तनम् । पैशुन्यं परस्परभेदशीलत्वम्, अप्रकाशेन अनुचितं कथयित्वा अन्योन्यस्नेहदूषकत्वम् । कूटलेखत्तम् अन्येन अनुक्तम् अननुष्ठितं च यत्किचिदेव तेनोक्तमनुष्ठितं चेति वञ्चनानिमित्तं लेखनं कूटलेखनम् । मुधा साक्षिपदोक्तिः अहं तत्र साक्षी आसम् । इति व्यवहारनिर्णये मुधा असत्यं भाषणम् एते सत्यव्रतस्य विघातका नाशकाः सन्ति ।। ३८१ ॥ परस्त्रीति - परस्त्रीसंश्रयां कथां बुधो न कथयेत् अमुकस्य स्त्रीसौन्दर्यादिगुणैरुपेता चतुरा च वर्तते इत्यादिकथनम् । राजविद्विष्टसंश्रयां कथाम् अस्माकं राज्ञः प्रतिपक्षी हीनबलोऽधिकबलो वेति राजविरुद्धं कथनम् । लोकविद्विष्टसंश्रयां कथां लोकेषु विद्विष्टानां शत्रूणां संबन्धिनीं कथां लोकविरुद्धां न कथयेत् । अनायकसमारम्भां कथानायकं विना यस्य कस्यापि कथनं यद्वा तद्वासंबद्ध कपोलकल्पितं प्रलपनं न कुर्याद् बुधः । अभिजातं हितं मितं वदेदित्यर्थः ॥ ३८२॥ असत्यमिति - अस्यैदंपर्यम् । असत्यमपि किचित्सत्यमेव यथान्धांसि रन्धयति, वयति वासांसि इति । अन्धोयोग्यतण्डुलादिषु अन्धः शब्दप्रयोगादसत्यत्वम् । लोके तथा व्यवहारात् सत्यगं असत्यमेतत् । सत्यमपि असत्यं किचित् यथा अर्धमासत मे दिवसे तवेदं देयमित्यास्थाय मासत मे 'संवत्सरतमे वा दिवसे ददातीति अत्र दानाव्यभिचारात्सत्यत्वम् । प्रतिपन्नकालव्यभिचाराच्चासत्यत्वम् । सत्यसत्यं किचिद्यद्वस्तु यद्देशकालाकारप्रमाणं प्रतिपन्नं तत्र तथैव अविसंवादः । यद्वस्तु यद्देशं यस्मिन् देशे तिष्ठति तथा तद्देशस्थस्य वर्णनम् । तद्वस्तुपरिमाणम्, तद्वर्णः, तदाकारश्च सर्वं यथार्थं वर्ण्यते तत् वचः सत्यसत्यम् । तथैव तदविसंवादिस्वरूपकथनम् । असत्यासत्यं किंचित्स्वस्यासत्संगिरते कल्ये दास्यामीति । यद्वस्तु स्वस्य संबन्धि न भवति तत् तुभ्यं कल्ये प्रातः वितरिष्यामि इत्यादि प्रतिज्ञया कथनम् असत्यासत्यं नालपेत् ||३८३|| तुरीयमिति - लोकयात्रात्रये स्थितः लोकव्यवहाराविसंवादित्वात् सत्यसत्यादिवाक्त्रये स्थितः पुरुषः व्रती तुरीयं चतुर्थम् असत्यासत्यं भाषणं नित्यं वर्जयेत् न ब्रूयादित्यर्थः । या गुर्वादिप्रसादिनी या यद्वचः गुर्वादेः मातापित्रुपाध्यायादेः प्रसन्नतां जनयति सा गीः तद्वचः मिथ्यापि असत्यापि न मिथ्येति मन्यताम् । यतस्तत्र स्वस्य गुर्वादेश्चाहिता - भावात् ॥ ३८४॥ न स्तुयादिति - आत्मना स्वेन आत्मानं स्वं न स्तुयात् न प्रशंसेत् । न परम् अन्यं जनं परिवादयेत् न निन्देत् सतः विद्यमानान् अन्यगुणान् अन्येषां गुणान् न हिंस्यात् न नाशयेत् गुणेषु दोषारोपणं हिंसा तां न कुर्यात् । असत: अविद्यमानान् स्वस्य गुणान् न वर्णयेत् ॥ ३८५ ॥ तथेति-स्वस्याविद्यमानान् गुणांस्तुवन् अन्यगुणान् विनाशयंश्च पुमान्नरः नीचैर्गोत्रोचितः नीचगोत्रे जननयोग्यो भवेत् । गहितेषु कुलेषु जन्म लभेतेत्यर्थः । परं विपरीतकृतेः अन्येषां गुणानां वर्णनात् स्वस्य सतोऽपि उत्कृष्टान् गुणान् वर्णयन् कृतो विद्वान् उच्चैर्गोत्रं लोकपूजितं कुलम् अवाप्नोति लभते ।। ३८६ ॥ यत्परस्येति परस्य अन्यस्य यत् प्रियं प्रीत्युत्पादकं कार्यमुपकारादिकं कुर्यात् तत् आत्मनः स्वस्य हि यस्मात् प्रियं भवेत् अतः अयं लोकः जनः पराप्रियपरायणः किमिति । परस्य अप्रियकरणे अनुपकृतिकरणे किमिति प्रवृत्तो भवति । तेन तथा करणे प्रवृत्तेन न भवितव्यम् ॥ ३८७॥ यथा यथेति - यथायथा एतच्चेतः मनः परेषु अन्यजीवेषु तमः वितनुते पापं विस्तारयति । तथा तथा आत्मनाडीषु आत्मनः निजस्य नाडीषु तच्चेतः तमोधाराः पापोदकधाराः निषिञ्चति । अशुभ परिणामः आत्मनालीसु आत्मनः प्रदेशनलिकासु तमोधाराः पापधाराः प्रविशन्ति || ३८८ ||