________________
४३२ पं० जिनदासविरचिता
[पृ० १७७दोषतोयैरिति-शरीरिणां प्राणिनां चित्तवासांसि मनोवस्त्राणि दोषतोयः रागादिदोषजलैः संगन्तणि संगम गतवन्ति गुरूणि भारयुक्तानि भवन्ति । परं शरीरिणां जीवानां चित्तवासांसि मनोवस्त्राणि गुणग्रीष्मः अहिंसासत्याचौर्यादिगुणा एव ग्रीष्मर्तवः तैः संगन्तणि संगं गच्छन्ति दोषजलापनयात् लघुनि भाररहितानि भवन्ति । अत एव दोषांस्त्यक्त्वा गुणान् प्रतिका गृह्णोरन् ॥३८९॥ सत्यवागिति-सत्यवाक् सत्यं वचनं ब्रुवाणो व्रती सत्यस्य सामर्थ्यात्प्रभावात् वचःसिद्धि समश्नुते प्राप्नोति । तया स निग्रहानुग्रहं कतुं प्रभुर्भवति । अस्य वचःसिद्धि प्राप्तस्य प्रतिकस्य वाणी यत्र यत्र उपजायते प्रवर्तते तत्र तत्र जनानां मान्या भवेत् ॥३९०॥ तर्षेति-कैः मषाभाषामनोषित इत्याह तरेत्यादि । मृषाभाषामनीषितः मषाभाषायाम् असत्यभाषायां मनीषा बुद्धिरस्यास्तीति मृषाभाषामनीषितः। असत्यवचनेषु प्रेरितमतिर्नरः तर्षेण धनादेः अभिलाषया, ईयया परोत्कर्षासहिष्णतया, अमर्षेण क्रोधेन, हर्षेण । के दुःखं प्राप्नोति । जिह्वाच्छेदं दुःखम् अवाप्नोति परत्र च परलोके च गतिक्षति सुगतिविनाशं प्राप्नोति लभते तिर्यग्गति नरकगति वा लभते ॥३९१॥
[पृष्ठ १७७-१७६ ] श्रूयतामत्र असत्यफलस्योपाख्यानम्-जाङ्गलदेशेषु हस्तिनागनामावनीश्वरकुञ्जरजनिजातावतारे हस्तिनागपुरे जाङ्गलेति नाम्ना प्रथितेषु देशेषु हस्तिनागनामा अवन्याः भूमेः ईश्वरेषु नपेषु कुञ्जर इव गज इव तस्य जन्या जन्मना जातावतारे जातः अवतारो यस्य तस्मिन् हस्तिनागपुरे [ हस्तिनागनाम्ना नपेण विरचितत्वात् नगरस्यापि नाम हस्तिनागपुरमिति जातम् । ] अयोधनो नाम नृपतिस्तत्र बभूव । कथंभूतः सः । प्रचण्डेति-प्रचण्डौ विक्रमशालिनी तौ च तो दोर्दण्डौ बाहदण्डी तयोर्मण्डली तस्या मण्डनं भूषणं स च मण्डलामः खड्ग्रः तेन मण्डनं कलहः कण्डूः खर्जनम् अस्ति येषां ते कण्डूलाः भण्डनकण्डलास्ते च ते अरातयः शत्रवः तेषां खण्डिता च या मण्डनकण्डलारातिकीतिलता तस्या निबन्धनं हेतुः अयोधनो नाम भूपतिरभूत् । तस्य च अतिथि म महादेवी कृताभिषेका। या अनवरतेति-अनवरतं सततं वसूविश्राणनं धनदानं तेन प्रीणिताः संतोषं नीता अतिथयो यया सा। अनयोः अयोधनातिथ्योः सुता सुलसा माम सकलाश्च ताः कलाः नृत्यादयः तासाम् अवलोकनम् अर्जनं तस्मिन् अनलसा आलस्यरहिता सुलसा नाम । सा किल तया महादेव्या गर्भगतापि तया महादेव्या अतिथिना किल गर्भगतापि सा ज्ञातेयेन ज्ञातित्वेन एकोदरशालिनः एकस्मिन्नेव उदरे जातत्वात् शालिनः शोभमानस्य, रम्यकदेशनिवेशेतिरम्यकदेशे निवेशेन रचनया उपेतं सहितं यत्तौदनपुरं तत्र निवेशिनः तदधीशस्य । निर्विपक्षेति-निर्गता विपक्षाः शत्रवो यस्याः सा लक्ष्मीः रमा तया लक्षितस्य । अक्षणमङ्गलस्य अविनष्टमङ्गलस्य अविनष्टपुण्यस्य पिङ्गलस्य सूनवे मधुपिङ्गलाय सुलसा परिणता बभूव । कथंभूताय सूनवे गुणा एव गीर्वाणाचलो मेरुस्तस्य रत्नसानवे मणि प्रस्थाय पर्वतभागसमायेति भावः, पुनः कथंभूताय । दुर्वार इति-दुर्वाराः दुर्जेयाः ते वैरिणः तेषां वक्षःस्थलानि उरोभूमयः तेषाम् उद्दशनं विदारणं तदेव अवदानं प्रशस्तं कर्म तस्य उद्योगः प्रवृत्तिः तस्मै लागलाय हलसदृशाय मधुपिङ्गलाय तन्नामधेयाय सूनवे परिणीता दानयोग्येति संकल्पवती बभूव । भूभुजा च महोदयेन राज्ञा अयोधनेन महान् उदयः समुन्नतिः आधिपत्यं वा यस्य तथाभूतेन तेन, पुनः कथंभूतेन । विदितेतिविदितं ज्ञातं महादेव्याः अतिथेः हृदयं संकल्पो येन तेनापि विगणय्य विचारं कृत्वा, कथंभूतं विचारं कृत्वेति विप्रियते-“यस्य कस्यचिन्महाभागस्य महादेवशालिनः पुरुषस्य भाग्यः भोग्यतया संभोगयोग्यतया इदं स्त्रणं स्त्रीरूपं द्रविणं धनं तस्यैतद् भूयात् भवतात् । अत्र सर्वेषामपि वपुष्मतां वपुः शरीरम् अस्ति येषां ते वपष्मन्तः जीवाः तेषां देवमेव शरणम अवलम्बनम अस्ति । कथंभतं तत । अचिन्तितेति-अचिन्तितानि मनसा असंकल्पितानि यानि सुखानि दुःखानि च तेषाम् आगमः प्राप्तिः तेन अनुमेयः प्रभावः सामर्थ्य यस्य तत देवमेव शरणम् ।" इति विगणय्य स्वयंवरार्थ स्वयं स्वेच्छया पतिरनया सूलसया वियतामिति हेतोः भोम-भीष्म-भरत-भाग-संग-सगर-सुबन्धु-मधुपिङ्गलादीनामवनिपतीनां भूपतीनाम् उपदानकूलं उपदानानुकूलं मूलं प्रस्थापयांबभूवे उपदानं कन्याप्रदानं तस्य अनुकूलम् उचितं मूलं दूतैः संदेशं प्राहिणोति स्म । अत्रान्तरे मगधेति-मगधदेशानधिकृत्य प्रसिद्धिर्यस्याः तस्याम् अयोध्यायां नरवरः भूपतिः सगरो नाम । स किल किलेति वार्तायाम् । लास्येति-लास्यं नत्यम् आदिशब्देन गानवादनादिकं तस्य विलासः शोभा तस्य कोशलं चातुर्य तस्य रसः प्रोतिर्यस्यां तस्याः सुलसायाः कर्णपरम्परया वार्तया