________________
४३०
पं० जिनदासविरचिता
समस्तद्रविणः पर्याप्तं गृहीतं सकलद्रविणं धनं यस्य सः । क्रिमिकिर्मीरपरिषत्परिकल्पितमाष्टिकृतकलशकपालमालावासिकसृष्टिः कृमयः कीटाः तैः किर्मीरः कर्बुरितवर्णः स चासो परिषत्कर्दमः तेन परिकल्पिता या माष्टिः अङ्गलेपनं यस्य तथा च कलशानां मृद्घटानां या कपालमाला खर्परपंक्तिः, वासिकः कुठारश्च तेषां सृष्टिः रचना यंत्र, उच्छिष्टसरावस्रक्परिष्कृतः भुक्त्वा क्षिप्ता उच्छिष्टास्ते च ते सरावाश्च तेषां स्रजा मालया परिष्कृतः अलंकृतः । पुरात् नगरात् अबालबालेयकम् अबालं तरुणं बालेयकं गर्दभम् आरोह्य चटापयित्वा सनिकारं संधिक्कारं निष्कासितः निःसारितः । पापविपाकोपपन्नाप्रतिष्ठाकुष्टः पापस्य विपाकेन उदयेन उपपन्ना प्राप्ता या अप्रतिष्ठा अकीर्तिस्तया कुष्टः मर्दितः, दुष्परिणामकनिष्ठः अशुभाध्यवसायैः कनिष्ठः हीनतमतां गतः शुभाशयाः पुण्यसंकल्पाः तदेव अरण्यं तस्य विनाशाय महः तेजो यस्य तथाभूते हिरण्यरेतसि अग्नो अतिरौद्रसर्गात् अतिशयरूपं यद्रौद्रं रौद्रध्यानं तस्य सर्ग उत्पत्तिर्यस्मात् तथाभूतात् तनुसर्गात् देहत्यागात् । आहेयेऽन्ववाये सर्पसंबन्धिनि अन्ववाये कुले प्रादुर्भूय उत्पद्य चिराय दीर्घकालम् अपराध्य च प्राणिषु बहून् जीवान् हिंसित्वा भक्षयित्वा च जातजीवितावधिः जाता जीवितस्यावधिर्मर्यादा यस्य समाप्त - जोवितमर्यादः अधः प्रधाननिधिः अधः नरकेषु प्रधान मुख्यः निधिः बभूव । भवति चात्र श्लोक : - श्रीभूति - रिति - श्रीभूतिः पुरोहितः स्तेयदोषेण चौर्यापराधेन पत्युः सिंहसेनराजात् पराभवं धिक्कारं प्राप्य लब्ध्वा रोहिताश्च प्रवेशेन अग्नो प्रवेशं कृत्वा दंशेरः सन् अहिः भवन् अधो गतः नरके उत्पन्नः ॥ ३७५ ॥
इस्युपासकाध्ययने स्तेयफलप्रलपनो नाम सप्तविंशतितमः कल्पः ॥२७॥
[ पृ० १७४
२८. सुलसायाः सगरसंगमो नामाष्टाविंशः कल्पः
[ पृष्ठ १७४- १७७ ] किं वचनं वाच्यं किं च वर्जयेत् । अत्युक्तीति - अत्युक्तिम् अतिशयेन उक्तिः अत्युक्तिः यथा यद् वस्तुस्वरूपं विद्यते ततोऽप्याधिक्येन कथनम् अत्युक्तिः । अन्यदोषोक्तिः अन्यस्य दोषाणाम् उक्तिवर्णनम् अन्य दोषोक्तिः । सा च अन्यनिन्दा भवत्विति हेतोः क्रियमाणा असत्यवचनतां प्राप्नोति परस्याहितचिन्तनात् । असभ्योक्ति च असभ्या निन्द्याः शिष्टजनबहिर्भूता नरास्तेषामुक्ति गालिवचनादिकं च वर्जयेत् त्यजेत् । कीदृशं वचनं वाच्यमित्यनुयुक्ते वदति - नित्यम् अभिजातं हितं मितं वचनं भाषेत । सदा अभिजातं कुलीनजनोचितम् हितं प्राणिनां हितकारकम् मितम् अल्पं वचनं भाषेत । एवंविधे भाषणे सत्यवचः पालनं भवेत् ॥ ३७६ ॥ तत् सत्यमपीति — यत्परविपत्तये अन्यस्य प्राणिनः विपत्तये पीडाये जीवितनाशाय वा स्यात्तत्सत्यमपि वचनं नो वाच्यं न ब्रूयात्, येन वा वचनेन स्वस्य आत्मनः दुरास्पदाः दुरुत्तरा व्यापदः संकटानि तदपि सत्यं नो वाच्यम् || ३७७ || प्रियशील इति — प्रियंवदः प्रियं वदतीति प्रियंवदः येन प्राणिनां तोषो जायेत न दुःखम् तादृग्भाषणं वदन् जनः प्रियंवद उच्यते । स जनः प्रियशीलः प्रियं कर्तुं शीलं स्वभावो यस्य, तथा प्रियाचारः प्रियः सर्वजनप्रीत्युत्पादक : आचारः सत्प्रवृत्तिर्यस्य । प्रियकारी प्रियं सकलजनहितकृत् कार्यं करोतीति प्रियकारी प्रियस्य करणात् । स जनः आनृशंसघीः नृशंसा निर्दया धीः बुद्धिः न नृशंसा धोर्बुद्धिर्यस्य स अनृशंसंधीः आसमन्तात् अनुशंसंधीः यस्य सः आनृशंसंधीः पराद्रोहबुद्धि: । नित्यं परहिते रतः भवति सत्यवादिनि नरे एवंविधा गुणा वसन्ति ॥ ३७८ ॥ अवर्णवादेन दर्शनमोहास्रवो भवति -- केवलीति - निरावरणज्ञानाः केवलिनः तदुपदिष्टं बुद्धयतिशर्योद्धयुक्तगणधरानुस्मृतं ग्रन्थरचनं श्रुतम् । रत्नत्रयोपेतश्रमणगणः संघः, एतेषु अवर्णवादवान् असद्भूतदोषोद्भावनम् अवर्णवाद: स अस्ति यस्य स अवर्णवादवान् जन्तुर्दर्शनमोहवान् भवेत् दर्शन मोहस्यास्रवयुक्तो भवेत् । देवधर्मतपःसु च देवेषु चणिकायेषु धर्मः अहिंसालक्षणः अर्हदागमदेशितो धर्मः । अर्हदुपदिष्टद्वादशविधेषु तपःसु च असद्भूतदोषोद्भावनम् अवर्णवादः तं यः करोति स दर्शनमोहास्रववान् भवेत् । कवलाभ्यवहारजीविनः केवलिनः इत्येव -
१. सर्वार्थसिद्धौ केवलिश्रुतसंघधर्मदेवावर्णवादी दर्शनमोहस्य इति सूत्रस्य टीकायाम् एतत् अवर्णवादवर्णनं विद्यते [ पृष्ठ २१५-२१६ ] ।