________________
-पृ० १७४]
उपासकाध्ययनटीका
४२९
श्लाघयामास न प्रशंसां चक्रे अर्थात् अनेकधा राजा तं तुष्टुवे । [श्रीभूतिः दण्डत्रयेण दण्डितः मृत्वा शयुः अजायत ] पुनः अदूराशिवतातिम् अदूरा समीपा अशिवतातिः असुखविस्तारो यस्य तं श्रीभूति पुरोहितं निखिलेति-सकलजनवदनान्येव आलवालमलं तत्र कोलीनतालता निन्दा एव लता अयशोवल्ल अवलम्बवृक्षं न्यब्जाननम् अधःकृतवदनम, निसर्गेण प्रकृत्या हरिणीसमच्छायमपि सूवर्णप्रतिमासमकान्तिमपि महासाहसानुष्ठानात् सूमीसमानकायं सूम्या लोहप्रतिमया समानः कायः शरीरं यस्य तम् । अनल्पेतिअनल्पं विपुलं वैलक्ष्यं खेदः तेन स्फुटत द्विधाभावं गतम् आस्वनितं मनो यस्य तम् । अतीव भयेति-अतिशयभयात् आविर्भूतः प्रकटीभूतः उत्पथवेपथुः कुमार्गाचरणात् यः शरीरकम्पः तेन तिमितं प्रस्विन्नम्, बह्वाक्षेप बहवः आक्षेपाः अपराधाः यस्य तं श्रीभूतिम् । [ सिंहसेनः प्रभः परुषाक्षरैः वाक्यः तीव्र तर्जयति ] आ:सोमपायिनाम् अपाङ्क्तेय वैधेय यज्ञे सोमलतारसपानं कुर्वतां द्विजानां पंक्तेबहिर्भूत, वैधेय मूर्ख, युक्तायुक्तशून्यत्वात् । विश्वासघातपातकप्रसवश्रोत्रिय, यो जनो विश्रब्धः तस्य घातो नाशः तदेव पातकं तस्य प्रसवस श्रीभूतिना बहूनां विश्वासघातः कृतः अत: स विश्वसितवञ्चको जातः । श्रोत्रियकितव श्रोत्रियधुर्त । दुराचारप्रवर्तितनूत्नरत्नापहार दुराचारेण प्रवर्तितः निष्पादितः नत्नानां नवानां रत्नानाम् अपहारः चौर्य येन तत्संबोधनम् । कुशिकपासन कुशिको नाम नपः स तु विश्वामित्रस्य पितामहः तस्य कुलं वंशः तत्पांसयति नाशयतीति पांसनः तत्संबोधनम् । बकानुष्ठानसदन यथा बकः एकेन पादेन उद्भीभूय नेत्रे नासाग्रे विधाय मत्स्यं गिलति तथा साधत्वं प्रदर्य तत्सदशं प्रवर्तमानस्य कार्यमपि वकानष्ठानमच्यते तस्य सदनम आ भूतः तत्संबोधनम् । साधुजनमनः शकुनिबन्धनाय अतनुतन्त्रीजालमिव तवेदं यज्ञोपवीतम् । हे श्रीभूते तवेदं यज्ञोपवीतं साधुजनानां मनः एव शकुनिः शुकादिपक्षी तस्य बन्धनाय अतनूनां विपुलानां तन्त्रीणां तन्तूनां जालमिव पाश इव वर्तते । असदाचारावधिक असदाचारो दुराचारः तस्य अवधिमर्यादाभूतः तस्य संबोधनम् हे वेदवैवधिक वेदभारवाहक सद्धर्मधामध्यामलताविधानाय विश्वभुजः समेधन, सद्धर्मोऽहिंसासत्यादिरूपः स एव धाम गृहं तस्य ध्यामलताविधानाय श्यामलतोत्पादनाय विश्वभुजः विश्वं सकलं वस्तु भुङ्क्ते इति विश्वभुक् अग्निः तस्य समेधन वृद्धिविधायिन्, अकृत्यचत्यवात्यामात्य(?) अकृत्यं विश्वसितवञ्चनादिकम् अकार्यमेव चैत्यं गृहम् तत्संबोधनम् । अकार्याधारभूत इति भावः । वात्यामात्य निकृष्टमन्त्रिन्, जरायमदूतिकोपपतिक जरा एव यमस्य दूतिका तस्याः उपपत्तो आदरे परायणः तत्संबोधनम्, दुर्गतिक दु.खदा गतिर्यस्य तत्संबोधनम्, किमात्मनः अङ्गच्छवि न पश्यसोति संबन्धः न पश्यसि, चमितरुत्वचमिव चमितरुभूजवृक्षः तस्य त्वचमिव वल्कलमिव अतिप्रवृद्धविथः अतिशयेन प्रवृद्धा विश्रा जरा यस्य, वात्योन्माथशिथिलितां प्रभातप्रदीपिकामिव वातानां समूहो वात्या तस्या उन्माथः तीव्रत्वं तेन शिथिलावस्थां नीतां प्रभातप्रदीपिकामिव उषःकालीनप्रदीपिका यथा तत्सदशीमिव, अस्तासन्नजीवितरविम अङ्गच्छविम अस्तपर्वतसमीपं गच्छन रविमिव अस्तः मृत्युः आसन्नः समीपो यस्य स चासो जीवितरविः तम् अङ्गच्छविम् अङ्गकान्ति न पश्यसि, येन अद्यापि वयोधसि यौवने वयसि वर्तमान इव चेष्टसे। तदिदानी तस्मादधुना यदि चेत् घनाभिघातघोरतेजसि विश्ववेदसि निक्षिप्यसे घनानाम् अयोधनानाम् अभिघातःप्रहारः तेन घोरं तेजः प्रज्वलनं यस्य तस्मिन् विश्ववेदसि अग्नी प्रक्षिप्यसे तदा चिरोपचितदुराचारग्रहस्य दीर्घकालसंचितदुनिवारमोहस्य स तव अचिरदुःखदायिपरिहानुग्रहः अनुग्रह इव शीघ्रकष्टदायकधनादिपरिग्रहस्य अनुग्रहः अनुग्रह इव, पिशाचवत् पीडाकर इव । ततो द्विजापसद द्विजेषु विप्रेषु आसीदति अपकृष्टत्वं प्राप्नोति यः तत्संबोधनं हे द्विजापसद, हे द्विजनीच, कदाचित्त्वया इदम् अतिदुर्गन्धगोर्वरोद्गवितमध्याशयं शालाजिरत्रयम् अशितव्यम् । इदम् अतिदुर्गन्धगोमयेन उद्गवितः भूतः मध्याशयो मध्यप्रदेशो यस्य तच्छालाजिरत्रयं तत्सरावत्रितयम् अशितव्यं भक्षितव्यम् । नो चेत् गोमयभक्षणं न क्रियेत चेत् असरालबलोत्फुल्लगल्लानां मल्लानां त्रयस्त्रिंशदपहस्तप्रहतानि सहितव्यानि । असरालं विपुलं च तदलं च तेन उत्फल्ला: पीवराः गल्लाः कपोला येषां तथाभूतानां मल्लानां बाहेयोधिनां त्रयस्त्रिशदपहस्तप्रहतानि व्युत्तरत्रयस्त्रिशा हस्तमष्टयाघाताः सोढव्या ध्रवम्। अन्यथा तव सर्वस्वापहार: सर्वस्वस्य धनादेरपहरणं क्रियेत । प्राणाशा प्रणाशावकाशविभूतिः श्रीभूतिः जीविताभिलाषायाः प्रणाशस्य मृत्योः अवकाशदाने विभूतिरिति मन्यमानः श्रीभूतिः आद्यनयं दण्डद्वयं क्रमेण अतितिक्षमाणः असहमानः । पर्याप्त