________________
४२८ पं० जिनदासविरचिता
[पृ० १७२तस्या रसः तस्य प्रचारे प्रवृत्ती पदव्या मार्गभूतया, महादेव्या आणितानुक्रोशाभिनिवेशात् श्रुताक्रोशात् करुणाभिप्रायात् निर्वणितश्च उपलक्षितः । तदनु तदनन्तरम्, अस्मन्मनःसंधात्रि धात्रि, न खल्वेष मनुष्यः पिशाचपरिप्लुतः अस्माकं मनः अस्मन्मनः तत् सं सम्यक् दधाति धारयति संतोपयतीति संघात्री तत्संबोधनम्, हे धात्रि हे उपमातः, एष नरः खलु न पिशाचेन परिप्लुत आविष्ट: नाप्युन्मताचरित: मदिरादिपानेन विक्षिप्त
मनस्कत्वात निरगलाचरणः न । यतस्तं दिवसम आद्यं कृत्वा सकलमपि परिवत्सरदलं यस्मिन्दिनेऽयं नरः चिञ्चिणीवृक्षमारुह्य श्रीभूतिना मदीयरत्नसप्तकं गृहीतम् इति वचो वक्तुमारम्भं कृतवान् तम् आद्यं दिवसम् अवधिं कृत्वा सकलमपि वर्षस्य दलं षण्मासान् यावत् एकवाक्यव्याहारपाठाकुण्ठकठोरकण्ठनाल: एकमेव वाक्यं भाषणं तस्य व्याहार उच्चारणं तस्य पाठेन अकूण्ठः अस्खलितः कठोरः कण्ठस्य ग्रीवायाः नाल: नलिका यस्य सः। तद्विचारयेयं तत्तस्मात् विचारयेयं विमर्श कूर्याम, अचिरकालं दीर्घकालं यावत् । शारेति-शाराः द्यूतक्रीडापाशाः तेषु विशारदं चतुरं हृदयं मन एव अम्बुजं कमलं यस्य एतत्क्रोडाव्याजेन मन्त्रः सचिवस्य पुरोहितस्य अन्तःकरणं चित्तं विचारयेयं परीक्षेयम् । अम्बिके मातः त्वयापि तदेवनावसरे द्यूतक्रीडासमये । यद्यहम् एनम् अनेककुचराचारनिचितचित्तं नानाविधाकुत्सिताचारभूतमनसम् अतिबहकुक्रुटिचेष्टितम्, अतिशयनानाविधमायाचारम् । बकोटवृत्तं बकोटो बकः तस्येव वृत्तम् आचरणं यस्य एनम् उदन्तजातं वार्तासमूहं पृच्छामि । यद्यच्च अस्य कटकोमिकांशुकादिकं जयामि, कटको हस्तभूषणे, ऊमिका अंगुलीयकम्, अंशुकादिकं वस्त्रादिकं जयामि द्यूतक्रीडनेन तत्तदेव अभिज्ञानीकृत्य चिह्नीकृत्य मृगीमुखव्याघ्रीसमाचारकुट्टिनी श्रीदत्ता भट्टिनी मृग्या हरिण्या इव मुखं व्याघ्या इव समाचारः तेन कुट्टिनी दुष्टा श्रीदत्ता भट्रिनी अस्ति। तिन्तिणीतरुभाजो अम्लिकावृक्षाश्रितस्य वणिजः वैश्यस्य विपमरुचिमरीचिसंख्यासंपन्नानि रत्नानि याचयितव्या विषमा खरास्तीक्ष्णा रुचिः कान्तिर्यस्य स अग्निः तस्य मरीचयः सप्तज्वालाः तत्संख्यासंपन्नानि सप्तसंख्यायुतानि रत्नानि याचयितव्या। इति निपुणिकायाः कृतसंगीतिः कृतसंकेता। श्वस्त्येऽहनि अद्यदिनादनन्तरदिने आगामि दिने सदैव मदीयहृदयानन्ददुन्दुभे दुन्दुभे ममेदं मदीयं तच्च तहृदयं मनः तस्य आनन्ददुन्दुभे मोदानकतुल्यदुन्दुभे हे पाशक, त्वयापि भगवत्या पूज्यया साधु सम्यक् विजृम्भितव्यम्, मत्कार्ये साहाय्यं दातव्यमिति, यद्यस्य चिञ्चापुरुपस्य चिञ्चातरुमाश्रितस्य नरस्य सत्यता अस्ति चेत् । इत्यध्येष्य इति सत्कारं कृत्वा तत्कर्मणि द्युतकर्मणि नियोज्य, तथैवाचरिताचरणा तथैव यथा मनसि संकल्पः कृतः तमनुसत्य कृतकार्या, शतशः तत्तदभिज्ञानज्ञापनानुबन्धप्तन्त्रात्तत्कलत्रान्मणीनवप्रणीय राज्ञः समर्पयामास । तत्तच्चिह्नावबोधकसंबन्धवशीकृतायाः श्रीभूतिपुरोहितभार्यायाः सकाशात् मणीन् सप्तरत्नानि उपप्रणीय लब्ध्वा राज्ञः सिंहसेनस्य समर्पयामास ददौ। [ राज्ञा स्वमणिराशी तानि संमिश्य भद्रमित्र आकारितः एतेषु यानि तव रत्नानि तानि गहाणेत्युवतः स्वीयानेव मणीन सोऽगलात, तृप्टो राजा तं शश्लाघे] राज्ञा सिंहसेनेन अद्भुतांशी अद्भुता आश्चर्योत्यादका अंशाः किरणा यस्य तस्मिन् स्वकीयरत्नराशौ । नेजमणिवृन्दे तानि सप्तरत्नानि संकीर्य मेलयित्वा। आकार्य चैनम आसन्नलक्ष्मीलताविलासनन्दनं वैदेहकनन्दनम् अचिरादेव समीपागतश्रीवल्लीविलासनन्दनवनं वैश्यपुत्रम् 'अहो वणिक्तनय यान्यत्र रत्ननिचये मणिसमूहे तव रत्नानि सन्ति तानि त्वं विचिन्त्य गहाण' इत्यभाणीत अवोचत । भद्रमित्र:-चिररात्राय दीर्घकालेन ननु वितर्के दिष्टया सुदैवेन वर्धेऽहम् इति मनस्यभिनिविश्य । विमृश्य 'यथादिशति विशांपतिः भूपतिः ।' इत्युपादिश्य इति उक्त्वा विमृश्य च तस्यां माणिक्यपुजो रत्नराशी निजान्येवं मनाग्विलम्बितपरिचयानि, ईषत्कालमवलम्ब्य विज्ञातस्वरूपाणि रत्नानि समग्रहीत् ।
[पृष्ठ १७२-१७४ ] ततः स नरवरः सपरिवारः प्रकामम्. अतिशयेन विस्मितमतिः "वणिक्पते, त्वमेवात्र अन्वर्थतः अर्थम् अनुसत्य सत्यघोषः, त्वमेव च परमनिस्पृहमनीषः परमा निस्पृहा नितरां निर्लोभा मनीषा मतिर्यस्य, यस्य तव चेतसि वचसि च न मनागपि ईषदपि अन्यथाभावो धनलाम्पट्यादिकं समरित ।" इति प्रतीतिभिः प्रत्ययः पारितोपिकप्रदानपुरःसरप्रकृतिभिः परितोषजनकधनप्रदानमुख्यस्वभावः तत्तदोपयिकोपचितिवसतिभिश्च तत्तस्मात्तदाकाले उचितजाताभिः आदरवतीभिः उक्तिभिः । तमखिलब्रह्मस्तम्बस्तिभी(?) विजृम्भमाणगुणगणस्तोत्रम् सकल ब्रह्माण्डहृदयः वर्धमानगुणसमूहस्तोत्रं भद्र मित्रं कथङ्कारं न