________________
-पृ० १७२] उपासकाध्ययनटीका
४२७ सत्प्रवृत्तिः यस्य एतादृशं माम् अतिवेलम् एव वेलां मर्यादाम् अतिक्रम्यैव अकाण्डे अनवसरे चण्डकर्मन् पर्यनुयुजानः प्रश्नान् कुर्वन्, कथं न लज्जसे । पुनश्चैनम् अर्थप्रार्थनपथमनोरथविशालम् अर्थानां सप्तमणीनां प्रार्थनं याचना तस्य पथि मार्गे यो मनोरथस्तेन विशालं शब्दालं पहिलवत् शब्दान् ब्रुवन्तं भद्रमित्रं पालिन्दमन्दिरं राजगहम् अनुचरैः निकिकरैः आनाय्य नीत्वा अनार्यमतिः अनार्या पापयुक्ता मतिर्यस्य स श्रीभूतिः, तं भद्रमित्रं पृथिवीनाथेनापि राज्ञापि निराकारयत् निरघाटयत । उत्तेजितराजहृदयः उत्तेजितं क्रोधक्षोभं नीतं राज्ञो हृदयं येन स श्रीभूति: कैः उदितैः वचनैः । तान्येव वर्णयति-'देव, अयं वणिक निष्कारणम् अस्माकं दुरपवादमृदङ्गवत् दुरपवादो निन्दा अयशश्च तयो?षणं कुर्वाणो मृदङ्ग इव मुखरमुखः वाचालवदनः नाथरहितवृषभवत् सुखेन आसितुं आरोहणं कर्तुं न ददाति । अनस्तितस्नानक इव सुखेन असितुं न ददाति।' इत्यादिभिः उदितैषिणः अवाप्तप्रसरतया लब्धावकाशत्वात उत्तेजितराजहृदयः । तथैव स्ववत राज्ञापि निरघाटयत् ।
[पृष्ठ १७१-१७२ ] भद्रमित्र:-चित्रमेतत्, ननु यन्मामपि परविप्रलम्भाय कुलक्रमायाताखिलकमलानिलयम् अनन्यसामान्यसाहसालयम् एष मोषधिषणानिधिः अपर इव् अपायजलनिधिः नगरमध्येऽपि मोषितुमभिलषति । आश्चर्यमेतत्, ननु यत् यस्मात् मामपि परविप्रलम्भाय अन्यप्रतारणाय । कुलेतिवंशपरम्परायातसकललक्ष्मीगृहम् अनन्यसदृशसाहसगृहम् । एष मोषधिषणानिधिः एष सत्यघोषः मोषः स्तेयं तत्र या धिषणा बुद्धिः तस्या निधिनिधानम् अपर इव अपायजलनिधिः अन्य इव अपायो विनाशः तस्य जलनिधिः समुद्रः। स एष श्रीभूतिः नगरमध्येऽपि मोषितुं स्तेनितुं चोरितुम् अभिलषति इच्छति । इति जातामर्षोत्कर्षः जातः उत्पन्नः अमर्षस्य क्रोधस्य उत्कर्षः तीव्रता यस्य स भद्रमित्रः तं न्यासार्पणे न्यासस्य निक्षिप्तस्य धनादेः अर्पणे तत्स्वामिने दाने अतिचिक्कणचित्तम् अतिकठिनमनसं निश्चित्य । स्वाध्यायिपरिषदि स्वाध्यायिनाम अध्ययनशीलानां मठवासिनाम परिषदि सभायां महापरिषदि च महान्तः राजपुरुषाः मान्यनागरिका वा धर्माधिकारिणः तेषां परिषदि सभायां च तस्य अन्यायस्य विश्वसितद्रोहस्य विन्यासेन स्थापनेन साध्यसिद्धि मणिसप्तकप्राप्तिम् अनवबुध्य अनधीनधीः न परवशबुद्धिः अशकसुकमतिः निःसंशयबुद्धिः महादेवोधामनेमनिवेशं महादेव्याः रामदत्तायाः धाम प्रासादः तस्य नेमे समीपे निवेशः स्थितिर्यस्य तम् अम्लिकानोकहशिखादेशम् अम्लिकानोकहः तिन्त्रिणीतरुस्तस्य शिखादेशम् अग्रप्रदेशम् आरुह्य आपद्गृह्यः आपद्धिः संकटग ह्यः विवशः संकटपीडितः, कूररीविरहावसरः क्रौञ्चीवियोगसमयं प्राप्तः कुरर इव तमस्विनीप्रथमपश्चिमयामसमये तमस्विन्याः तम्याः आद्यन्त्यप्रहरवेलायां "सुहृच्चराहूतिः श्रीभूतिः भूतपूर्वः सुहृत् सुहृच्चरः भूतपूर्वमित्रम् इति आहूतिः आख्या यस्येति श्रीभूतिः एवंविधकरण्डविन्यस्तम् एवंविधसमुद्गकस्थापितम् इयत्संस्थान सदनम्, इयदाकारसहितम्, एतद्वर्णम् अद:संख्याम्यणं च मदीयं मणिगणम् उपनिधिनिधेयं न्यासरूपेण रक्षणाय दत्तम्, न प्रतिददातीति । अत्र च अस्यैव धर्मरमणी धर्मपत्नी साक्षिणी च यदि यद्वदतयैतदन्यथा मनागपि भवति चेत् एतदुचनं असंबद्धप्रलापतया सर्वेषां ऋतूनां परिवर्तस्य निर्गमनस्य अधं यावत षण्मासान यावदिति भावः। मिथ्या भवति ईषदपि तदा मे चित्रवधो विधातव्यः" इति दीर्घघोषपूणितमूर्धमध्यम् ऊर्ध्वबाहुः दीर्घस्तारो घोषः स्वरः तेन घूर्णितः कम्पितः स चासो मूर्धा तस्य मध्यो यथा स्यात्तथा ।। ऊध्वं कृतो बाहू हस्ती येन सः उद्भुजः, सर्वत्परिवर्ता पूत्कुर्वन् आमोशं कुर्वन् एकदा रामदत्तया निर्वर्णितः अवलोकितः इति संबन्धो द्रष्टव्यः । कथंभूतया रामदत्तया कौमुदीमहोत्सवसमयं चन्द्रज्योत्स्नायां शुक्लाष्टमीमारभ्य पौर्णिमातिथि यावत् रात्री नारीनरैः विहारनृत्यगायनादिक्रीडा क्रियते तस्याः कौमुदीमहोत्सवेति नाम, तत्समयम् अवलोकमानया। तत्समयं विष्णोति नगराङ्गनाजनस्य चन्द्रामृतपात्रयन्त्रधारागृहावगाहगोरितजगत्त्रयं चन्द्रस्य अमृतं सुधा तत्पात्रमिव यानि यन्त्रधारागृहाणि तेषु अवगाहेन प्रवेशेन गौरितजगत्त्रयं धवलितत्रिभुवनम् । पुनः कथंभूतया रामदत्तया । तमङ्गेति-प्रासादोपरितनभूम्यग्रे समासीनया उपविष्टया, निपुणिकेति-निपुणिकानाम्या उपसविण्या धाच्या समेतया सहितया, अनाथेति-अनाथाः अनाश्रयाः ते च ते लोकास्तेषां लोचनानि नयनान्येव चकोरपक्षिणः तेषां कौमुदीकल्पं ज्योत्स्नासदृशं वृत्तम् आचरणं यस्याः सा तया। करुणेति-करुणा दया