________________
४२६ पं० जिनदासविरचिता
[पृ० १६६ अवसानं तट यस्य समुद्रतटस्य समीपं गतवतः । अकाण्डेति-अकाण्डे अनवसरे प्रचण्डं घोरं बलं सामर्थ्य यस्य तथाभूतात अनिलात वायोः परिवर्तितपोतस्य भ्रामितनौकस्य, यद्भविष्यतया भाव्यधीनतया देवावलम्बनपरतया आयुषः शेषत्वात् तस्यैकस्य प्रमादफलकावलम्बनोद्यतस्य प्रमादेन अनवधानतया फलकस्य आश्रयार्थम् उद्युक्तस्य, कण्ठप्रदेशप्राप्तजीवितस्य कण्ठगतप्राणस्येत्यर्थः, कथं कथमपि क्षणदायाः निशायाः क्षपणचरमयामक्षणे व्ययीकृतावसानप्रहरसमये अब्धिरोधोपलब्धिरभवत् समुद्रतटप्राप्तिरभवत् । [ महता कष्टेन भद्रमित्र आगत्य श्रीभूति मणिसप्तकमयाचत ] ततस्तदनन्तरम्, सुखंधितशरोरत्वात् सुखेन वधितदेहत्वात । अपारेतिअपारश्चासौ अकूपारः समुद्रः तस्य क्षारवारि लवणजलं तस्य वशेन वशिक: अधीनः आशयः चित्तं यस्य शून्यचित्तस्येत्यर्थः। चिराय दीर्घकालानन्तरम् अपचितमूर्योदयः अपचितो नष्टः मूछोंदयो यस्य, स भद्रमित्रः श्रीभूति मणिसप्तकमयाचत । कदा मणिसप्तकमसौ अयाचत । विश्वकर्मणि सूर्ये लोचनगोचरे नेत्रविषये जाते सति, कथंभूते विश्वकर्मणि । करप्रचारेति-करा रश्मयः तेषां प्रचारः तेन चूणिताः चक्रवाका एव चिन्तामणयः येन सः तस्मिन् । पुनः कथंभूते । प्रागचलेति-प्रागचलः पूर्वाचल: तस्य चूलिकाः शिखराणि तेषां चक्रवालं समूहः तस्य चूडामणिरिव तस्मिन् । पुनः कथंभूते । कमलिनीति-कमलिनीनां कमललतानां कुलं समूहः तस्य विकासेन आहितम् उत्पादितं हंसवासितानां हंसस्त्रीणां शर्म येन तस्मिन् । पुनः कथंभूते विश्वकर्मणि । दरदिति-दरन्ति विकसन्ति च तानि नलिनानि कमलानि तेषाम् अन्तरालो मध्यप्रदेशस्तद्वद् रुचिरे मनोहरे आरक्तवर्णे विश्वकर्मणि नेत्रविषये जाते सति । कथंभून: भद्रमित्रः बान्धवमरणात्, द्रविणसंद्रवणात् द्रव्यविनाशनात्, अतीवार्तमनस्तया अतीवदुःखितचित्तत्वात् । छातच्छायकायः छाता क्षीणा छाया कान्तिः कायश्च यस्य सः क्षीणकान्तिशरीरः । पटच्चरचेलेति-पटच्चरं जीर्णं तच्च तच्चेलं
खण्डं तया निचिता आच्छादिता अङ्गशकटिः देहानो यस्य सः। कर्पटिः मलिनवस्त्रखण्डयुक्तः कटिमात्रवस्त्रः । परेति-परेषां पस्त्यानि गृहाणि तेषाम् उपास्तिः तत्र याचनार्थ गमनं तेन निरस्ता नष्टा अभिमानावनिः गर्वभूमिर्यस्य, अवर्तनिः उपजीविकारहितः, सन् क्रमेण सिंहपुरं नंगरम् आगत्य । गीर्मावेति-गीः वाणी सा एव गीत्रिं तेन अवसेयः ज्ञेयः पूर्वपर्यायो यस्य पूर्वा दशा यस्य स भद्रमित्रः । महेति-महामोहः महालोभः स एव रसः तेन उत्सारिता नाशिता प्रीतिः स्नेहो यस्य तं श्रीभूतिम् अभिज्ञानानि चिह्नानि अधिकानि वाक्येषु यस्य स भद्रमित्र: मणिसप्तकमयाचत । परति-परेषां प्रतारणाय अभ्यस्ता पुनः पुनराम्नाता श्रतिगीतिर्येन सः श्रीभूतिः-सुप्रयुक्तेनेति श्लोकाभिप्रायं परामृश्य सुप्रयुक्तनेतिसुष्ठु पूर्वापरालोचनं कृत्वा विहितेन दम्भन कपटेन स्वयंभूब्रह्मदेवोऽपि वञ्च्यते प्रतार्यते । संवृतिः दम्भः यदि परमा पूर्ण: स्यात् अन्यत्र अन्यजनविषये का नाम आलोचना को नाम परामर्शः । अन्यजनस्तु दम्भेन वञ्च्यते एव ॥३७४॥ इति परामृश्य विचार्य। महाघाघ्रातचंताः महाघडो महोपहासः महातृष्णा च तेन आघ्रातं स्पष्टं चेतो मनो यस्य सः। तम आयातशचम, संप्राप्तशोकम, अवोचत अवदत। "अहो दुर्दरूट किराट गुरूपदेशम् अमन्यमान वैश्य दुराग्रहिन्नित्यर्थः । किमिह खलु त्वं केनचित्पिशाचेन छलितः पीडितः किम मनोमहामोहावहानुरोधेन मनसः महामोहः अतीवधनविषयिणी तृष्णा तम् आवहति जनयति इति स चासो अनुरोधः आग्रहः तेन, मोहनौषधेन अतिलचितः चित्तव्यामोहं कुर्वता अगदेन परवशीभूतः, किं वा कितवव्यवहारेषु कितवाः द्यूतक्रीडारतास्तैः सह व्यवहारेषु कृतासु द्यूतक्रीडासु हारितसमस्तचित्तवृत्तिः विनाशित. सकलधनः, उत अथवा अहो परचित्तवञ्चनपिशाचिकया परेषां मनःप्रतारणे पिशाचीसदशया कयाचिल्लञ्जिकया कयाचिद्वेश्यया जनितदुष्प्रवृत्तिः उत्पादितदुर्व्यवहारः । अर्थात् तया प्रतार्य भवतो धनं सकलं गृहीत्वा भवानधनी कृतः । आहोस्वित् फलवतः पादपस्येव फलभरितस्य वृक्षस्येव श्रीमत: धनिकस्य क्रियमाणोऽभियोगः उपद्रवः न खलु किमपि फलम् असंपाद्य अनुत्पाद्य विश्राम्यतीति विरमतीति मनसि संप्रधार्य केनचिद् दुर्मेधसा कूधिया विप्रलब्धबुद्धिः प्रतारितमतिः त्वं जात इति मन्येऽहम् । येन एवं त्वम् अतिविरुद्धम् अभिधत्से ब्रवीषि । क्वाहम्, क्व भवान्, क्व मणयः, कश्चावयोः संबन्धः । तत्कूटकपटचेष्टिताकर पट्टनपाटच्चर तस्मात् कूटम् अनतं कपटं माया च ताभ्यां युक्तानां चेष्टितानाम् आचाराणाम् आकर खनिरूप पट्टनपाटच्चर नगरचौर । अणकपणिक कुत्सित वैश्य । सकलेति-सकले मण्डले देशे प्रतीतं प्रसिद्ध प्रत्ययिक सर्वेः अनुभूतं शीलं