________________
-पृ० १६९ ]
उपासकाध्ययनटीका
४२५
प्रशान्तशुल्कभाटकभागहारव्यवहारम् अचीकरत् । वणिजां वैश्यानां प्रशान्तशुल्कं घट्टादिदेयद्रव्यम्, भाटकं गृहादिस्वामिने निवासार्थं व्यवहारार्थं वा देयद्रव्यं भाटकम्, भागहारव्यवहारम् उत्तमर्णाधमर्णयोः यो धनदानादिव्यवहारो भवति तत्रोत्तमर्णेन यत् अंशव्यवहारेण अधमर्णतः धनग्रहणं क्रियते स भागव्यवहारः उच्यते । एवंविधं व्यवहारं स पुरोहितोऽकरोत् । किं कृत्वा स व्यवहारमकरोत् । पेष्ठास्थानं क्रयाणपत्तनं पीठस्थानं ( ? ) विनिर्माय । कथंभूतं तत् । विभक्तेति - विभक्ताः पृथक्पृथक् स्थिता ये अनेके अपवरकाः अन्तर्गृहाणि तेषां या रचना तया शालिनीभिः शोभमानाभिः महाभाण्डवाहिनीभिः महावणिङ्मूलघनधारिणीभिः, गोशालोपशल्याभिः गवां शाला गोशाला तस्याः उपशल्याभिः समीपस्थिताभि: कुल्याभिः पटशालाभिः समन्वितम् । पुनः कथंभूतम् । अतिसुलभेति - अतिसुलभानां जलानां यवसानां तृणानाम् इन्धनानां काष्ठानां च प्रचारो यत्र तत् । पुनः कथंभूतं तत् । भाण्डनारम्भेति - भाण्डनं कलहः तस्यारम्भे उद्भटाः शूराः ये भरीरा योधास्तेषां पेटकपक्षः समूहपक्ष: तेन रक्षासारं कृतरक्षणत्वात् सारभूतम् पुनः कथंभूतम् । गोरुतेति — गोः धेनोः रुतं ध्वनिः यावद्दूरं श्रूयते तावत्प्रमाणं यद्वप्रं सस्यक्षेत्रम्, प्राकारः साल:. प्रतोलिः रथ्या, परिखा खातिका इत्यादिभिः सूत्रितं कृतं त्राणं रक्षणं यस्य तत् । पुनः कथंभूतम् । प्रपेति - पानीयशाला । सत्रम् अन्नदानशाला । सभा व्यवहारनिर्णयपरिषत् । एभिः सनाथाः युक्ता: या: वोथयः गृहपङ्क्तयः तासां निवेशनं रचना यत्र तत् पण्यपुटभेदनं विक्रेयद्रव्यपरिपूर्णं पुटभेदनं नगरम् । पुनः कथंभूतम् । विदूरितेति - विदूरितं निवारितं कितवा: द्यूतक्रीडारताः । विटा : षिङ्गाः । विदूषका: चाटुबटुका: । पीठमर्दाः नर्मभाषणकारिणः । एतेषाम् अवस्थानं यत्र तत् तथाभूतं पेण्ठास्थानं विनिर्माय विरव्य नानादिग्देशगमनकारिणां वणिजां वैश्यानां प्रशान्तशुल्क भाटकभागहारव्यवहारमचीकरत् पुरोहितः श्रीभूतिरिति संबन्धोऽत्र ज्ञेयः । [ अस्मिन्प्रस्तावे भद्रमित्रो नाम वणिक् श्रीभूतेर्हस्ते तत्पत्नीसमक्षं सप्तरत्नानि दत्वा सुवर्णद्वीपम् अगच्छत् ] अत्रान्तरे अस्मिन् प्रसंगे भद्रमित्रः सुवर्णद्वीपम् अनुससारेति संबन्धः । स कस्य सूनुरिति विवृणोति कविः - पद्मिनीखेटेति – पद्मिनीखेटपट्टने विनिविष्टः संनिवेशविशिष्टो य आवासः मन्दिरम् आलयः तस्मिन् तन्त्रस्य तदधीनस्य तत्र निवसत इत्यर्थः । सुमित्रस्य वणिक्पतेः सूनुः भद्रमित्रः । कथंभूतस्य सुमित्रस्य । सुदत्तेति - सुदत्ता कलत्रं सुदत्ता भार्या तस्याः चरित्रेण सदाचारेण पवित्रितं गोत्रं यस्य, तस्य वणिक्पते: ( सुमित्रस्य ) सूनुः । कथंभूतः । निजेति — निजा ये सनाभयः अन्वयजाः जनाः त एव अम्भोजानि कमलानि तेषां विकासने भानुरिव सूनुः । कथंभूतः । समानेति - समानं धनं चारित्रं येषां तैः वणिक्पुत्रः वैश्यसुतैः सत्रं सह वहित्रयात्रायां नौकागमने यियासुः यातुमिच्छुः यियासुः जिगमिषुः । इति विचार्य सुवर्णद्वीपमनुससार । किं विचार्य । पादेति - यत् उद्यमात् धनं लभ्यते तस्य चत्वारो विभागाः कर्तव्याः । तत्र मायात् जाताद्धनलाभात् पादं चतुर्थाशं निधि कुर्यात् मूलधनत्वेन रक्षेत् पादं वित्ताय कल्पयेत् चतुर्थांशं वित्ताय उद्यमे भाण्डमिति योजयेत् । चतुर्थांशं धर्मे च उपभोगे च योजयेत् अवशिष्टं पादं भर्तव्यपोषणे कुटुम्बभरणार्थे तद्विनियोगं कुर्यात् ॥ ३७३ ॥ इति श्लोकार्थम् अवधार्य, अतिचिरम् उपनिषिन्यासयोग्यम् आवासं विचार्य च दीर्घकालं रत्नादिनिधिस्थापनयोग्यम् आवासः स्थानं किं स्यात् कुत्र स्यात् इति विमृश्य, उदिताचारसेव्यः उदितः विज्ञः कथितः आचारः व्यवहारः सेव्यो यस्य । अवधारितेतिकर्तव्यः निश्चितकार्यपद्धतिः सन् स भद्रमित्रः | अखिलेति – अखिलाः सकलाः ते च ते जनाश्च तेषां श्लाघ्यः प्रशस्यः यो विश्वासः विस्रम्भः तस्य प्रसूतिः उत्पत्तिः यस्मात् । तथाभूतस्य श्रीभूतेः हस्ते तत्पस्नीसमक्षम् अनर्घकक्षम् अनर्घाः उत्तमाः कक्षाः पार्श्वभागा यस्य तत्, अनुगताप्तकम्, आप्तेभ्यो अनुगतं हितकारिभ्यः पूर्वजेभ्यः अनुयातं रत्नसप्तकं निधाय स्थापयित्वा । विधाय व जलयात्रासमर्थं जलयात्रासंपादकम् अर्थं धनम् । एकवर्णप्रजाप्रलापम् एकवर्णा एव प्रजा वर्तते इति प्रलापः किंवदन्ती यत्र तथाभूतं सुवर्णद्वीपम् अनुससार ।
[ पृष्ठ १६९ - १७० ] पुनरिति - पुनः अगण्यपण्यविनिमयेन असंख्यक्रयविक्रयवस्तूनां प्रतिदानेन तत्रत्यं सुवर्णद्वीपसंबन्धि अचिन्त्यम् असंकल्प्यम् आत्माभिमतवस्तुस्कन्धं स्वष्टपदार्थसमूहम् आदाय गृहीत्वा, प्रत्यावर्त्तमानस्य स्वदेशं प्रतिनिवर्तमानस्य व्याघुटितस्य अदूरसागरावसानस्य अदूरं समीपं सागरस्य समुद्रस्य
५४