________________
-पृष्ठ ११७]
उपासकाध्ययनटोका
श्रद्धानं सूत्रसम्यक्त्वम् । बोजसम्यक्त्वम्-सकलसमयाः सकलसंकेताः तेषां दला विभागाः समूहाः तेषां सूचनाया व्याजं निमित्तं यस्य तत् बीजसम्यक्त्वम् । संक्षेपसम्यक्त्वम्-आप्तश्रुतव्रतपदार्थानां संक्षेपेण आलापो वर्णनं तच्छ्रुत्वा आक्षेपः रुचिग्रहणं श्रद्धानम् । विस्तारसम्यक्त्वम्-द्वादशाङ्गानाम् आचारादीनाम् चतुर्दशपूर्वाणाम् उत्पादादीनाम्, प्रकीर्णकानां सामायिकादीनाम्, अङ्गबाह्यानां विस्तीर्णश्रुतानाम् अर्थस्य समर्थनं श्रुत्वा प्रस्तारः हृदि रुचेः विस्तारो जायते । अर्थसम्यक्त्वम्-प्रवचनविषये आगमविषये स्वप्रत्ययसमर्थः स्वप्रत्ययः अर्थानुभवः तद्वितरणसमर्थ: जीवादिरर्थः तच्छद्धानम् अर्थसम्यक्त्वम् । अवगाढसम्यक्त्वम्-द्वादशाङ्गागमः, चतुर्दशपूर्वागमः, चतुर्दशप्रकीर्णकागमः एते त्रय आगमत्रयं कथ्यन्ते । एतेषां निःशेषतया साकल्येन अन्यतमदेशेन वा अवगाहनं कृत्वा आलीढम् उत्पन्नं यच्छ्रद्धानं तदवगाढम् । परमावगाढसम्यक्त्वम्-अवधिमनःपर्ययकेवलज्ञानिमहापुरुषाणां प्रत्ययेन उपदेशेन जातं सम्यक्त्वं परमावगाढम् इति सम्यग्दष्टिदशविधा ज्ञेया। अधना गृहस्थमन्यो पाद्यन्ते-गृहस्थ इति-सम्यक्त्वस्य आधारभूतो गृहस्थो वा यतिरपि वा । पूर्व गृहस्थः एकादविधःमूलवती ( दर्शनिकः ), व्रतिकः, अर्चा ( सामयिकी ), पर्वकर्मा, (प्रोषधोपवासी), अकुषिक्रियाः (आरम्भत्यागी ), दिवाब्रह्मा ( दिवाब्रह्मचारी), नवविधब्रह्मा ( ब्रह्मचारी ), सचित्तत्यागी, परिग्रहपरित्यागी, भुक्तिमात्रानुमान्यता भुक्तिमापन्ने चतुविधाहारे अनुमान्यता संमतिदानम् । अन्यत्र आरम्भादिषु अनुज्ञाया अदानम् ( अनुमतित्यागी ), उद्दिष्टाहारत्यागो । यतिश्च चतुर्विधः-मुनिः, ऋषिः, जिनयतिः, अनगारश्चेति येषां धर्म: चरमः मुनिधर्म इत्यर्थः ॥२३५॥ मायेति-माया वञ्चना, निकृतिः, निदानं विषयभोगाकाक्षा, मिथ्यात्वम् अतत्त्वश्रद्धानम् एतानि श्रोणि शारीरमानसबाधाहेतुत्वात् कर्मोदयविकारः शल्यमित्युपचर्यन्ते । एतच्छल्यत्रयम् आर्जवम् अवञ्चकत्वम् अकाङ्क्षणाभावः निःस्पृहत्वम्, तत्त्वभावनं च जीवादितत्त्वेषु परमार्थरूपा श्रद्धा । एतैरेव कोलकैः शङ्कभिः कृत्वा उपर्युक्तं शल्यत्रयम् उद्धरेत् हृदयादपसारयेत् ॥२३६॥
[पृष्ठ ११६-११७ ] दृष्टिहीन इति-यथा दृष्टिहीनः नेत्रान्धः पुमान् ईप्सितं स्वष्टं स्थानं न एति न प्राप्नोति तथा दृष्टिहीनः पुमान् सम्यक्त्वरहितो नरः ईप्सितं स्वाभिलषितं कर्मक्षयादिकं न एति न प्राप्नोति.॥२३७।। सम्यक्त्वमिति-अङ्गहीनं निःशङ्कादिगुणरहितं सम्यग्दर्शनम् अङ्गहीनं दण्डकोशस्वामिसुहृदादिसप्ताङ्गरहितं राज्यमिव प्राज्यभूतये विपुलवैभवप्राप्तये न भवति ततः सम्यग्दर्शनस्याङ्गानां नि:शङ्कितादीनाम् अष्टानां संगत्याम् एकीभूतायाम् अङ्गो जीवः नि:संग निरपेक्षम् अष्टाङ्गपूर्णसम्यक्त्वोपेतं चारित्रं वाञ्छतु भव्यः ईहताम् ॥२३८॥ विद्येति-विद्या सम्यग्ज्ञानम्, विभूतिः ऐश्वर्यम्, रूपाद्याः सौन्दर्यम्, सज्जातिः सत्कुलादिकं सम्यग्दर्शनहीने अङ्गिनि जीवे कुतः भवन्ति बोजव्यपाये बोजाभावे सस्यसंपत्तिः धान्यानां निष्पत्तिन हि भवति ॥२३९।। यस्य नरस्य दर्शनं निर्दोषं तस्य चक्रिश्रीः त्रिखण्डाधिपतेः षट्खण्डाधिपतेश्च राज्यविभूतिः, संश्रयोत्कण्ठा तम् अवलम्बितुमभिलष्यति । नाकिश्रोः नाकिनां स्वर्गिणां श्रीलक्ष्मीः तं द्रष्टुमुत्सुकीभवति । तस्य मुक्तिश्रीः निर्वाणलक्ष्मीः सकलकर्मक्षयरूपा अनन्तज्ञानाद्यनन्तगुणरूपा च दूरे नैव ।।२४०।। मूढत्रयमिति-दृग्दोषाः दृश: सम्यग्दृष्टेः दोषाः दूषणानि मला: पञ्चविंशतिः तान् कथयति-मूढत्रयं लोकदेवपाण्डिमूढतास्तिस्रः, मदा: गर्वा अष्टौ ज्ञान-पूजा-कुल-जाति-बल-ऋद्धि-तपो-वपूंषि अष्टौ आश्रित्य मानवहनम् अष्टो मदाः। तथा अनायतनानि षट्-सम्यग्दर्शनस्य आश्रयभूतानि निवासतुल्यानि आयतनानि यानि न भवन्ति तानि अनायतनानि, तानि चैवम् - मिथ्यादर्शनज्ञानचारित्राणि त्रीणि, त्रयश्च तद्वन्तः पुरुषा इति षडनायतनानि । अथवा असर्वज्ञः, ' असर्वज्ञायतनम्, असर्वज्ञज्ञानम, असर्वज्ञज्ञानसमवेतः पुरुषः, असर्वज्ञानुष्ठानम्, असर्वज्ञज्ञानानुष्ठानसमवेतपुरुषश्चेति । अष्टौ शङ्कादयश्च ‘शको काङ्क्षा विचिकित्सा मूढदृष्टिता अनुपगृहनम् अस्थितीकरणम् अवात्सल्यम् अप्रभावना चेति सम्यग्दर्शनस्य पञ्चविशतिर्दोषाः ॥२४१॥ निश्चयोचितेति-सुदृष्टिः सम्यग्दृष्टिः तत्त्वकोविदः तत्त्वानां जीवाजीवादिसप्तपदार्थानां कोविदः ज्ञाता । निश्चयोचितचारित्रः निश्चयः आत्मनः शुद्धस्वरूपं तत्प्राप्तये उचितं योग्यं चारित्रम् भात्मनि स्थितिरूपं तद्यस्यास्ति स निश्चयोचितचारित्रः भवति । सम्यग्दृष्टिर्जनः सम्यग्ज्ञानं चारित्रं च लभते इत्यर्थः । स सम्यग्दृष्टिः अव्रतस्थोऽपि मुक्तिस्थो भवति । परं व्रतस्थोऽपि अदर्शनः मिथ्यावृष्टिः मुक्तिस्थः न