________________
पं० जिनदासविरचिता
[ पृ० १०६
बुद्धिपूर्वापेक्षा पायात् तत्र पुरुषकारस्य प्रयत्नस्य अप्राधान्यात् । तद्विपरीतं पौरुषापादितं तत्र दैवस्य गुणभावात् पौरुषस्य प्रधानभावात् । अधिगमजसम्यग्दर्शनं पौरुषात् भवति । निसर्गजसम्यग्दर्शनं दैवाज्जायते
इत्यर्थः ॥ २२५ ॥
४००
[ पृ० १०६ - १०६ ] सम्यक्त्वभेदानाहुः सूरयः - द्विविधमिति - आत्महितमतयः आत्महिते मतिर्येषां ते आत्महितमतयः सम्यग्ज्ञानिनः । सम्यक्त्वं द्विविधम् आहुः, निसर्गजमधिगमजं चेति । त्रिविधम्औपशमितकम्, क्षायोपशमिकम्, क्षायिकं चेति । दशविधं च तत् पुरस्ताद्वक्ष्यते - तत्त्वश्रद्धानविधिः सम्यक्त्वम् । सर्वत्र च जीवादिषु समवृत्तिः रागद्वेषाभावः उपेक्षावृत्तिः ॥ २२६ ॥ पुनरपि सम्यक्त्वस्य द्वैविध्यमन्येन प्रकारेण निगदति — सरागेति — सरागः आत्मा विषयो यस्य तत् सरागसम्यक्त्वं स्मृतम् । वीतराग आत्मा विषयो यस्म तत् वीतरागसम्यक्त्वं मतम् । सरागसम्यक्त्वं प्रशमादिगुणं प्रशमादयो गुणा यस्य तत् प्रशम- संवेग- अनुकम्पा - आस्तिक्यगुणचतुष्टययुतम् ! तत् पूर्वं प्रथमं कथ्यते । आत्मविशुद्धिमात्रत्वं द्वितीयं वीतरागसम्यक्त्वं भवति । तत्तु उपशान्तकषायादिगुणस्थानवति भवति तत्र हि चारित्रमोहस्य सहकारिणोऽपायान्न प्रशमाद्यभिव्यक्ति: स्यात्केवलं स्वसंवेदनेनैव तद्वेद्येत ॥ २२७॥ यथा हि पुरुषस्य पुरुषशक्तिरियम् अतीन्द्रियापि अनाजनाङ्गसभोगेन अपत्योत्पादनेन च । विपदि धैर्यावलम्बनेन वा । प्रारब्धवस्तुनिर्वहणेन वा । यत्कार्यम् आरब्धं तस्यान्तगमनेन वा निश्चेतुं शक्यते, तथा आत्मस्वभावतया अतिसूक्ष्मयत्नमपि सम्यक्त्वरत्नं प्रसमसंवेगानुकम्पास्तिक्यैरेव वाक्यै कलयितुं शक्यम् । नरस्य पौरुषं यथा नेत्रादिभिर्द्रष्टुं नालं तथापि नारीसंभोगादिकार्यैः निश्चेयं भवति तथा सम्यक्त्वमिदम् आत्मस्वभावत्वात् अतीन्द्रियमपि प्रशामदिभिरेव ज्ञातुं सुशकं भवति ।
[ पृष्ठ ११०-१११] १. प्रशमलक्षणम् - यद्रागादिष्विति – रागद्वेषादिदोषेषु मनोवृत्तेः निबर्हणं निवर्तनं तेभ्यः दूरतः स्थापनम् प्राज्ञाः तं प्रशमं ब्रुवन्ति । एनं प्रशमं विना सकलव्रतानां पालनम् अशक्यम् । अत एनेन सर्वव्रतानि भूष्यन्ते ॥ २२७ ॥ २. संवेगलक्षणम् - शारीरेति - शारीरदुःखं ज्वरादिकम् । मानसं दुःखम् अपमानादिकम् । आगन्तुकं च दुःखं विद्युदादिना जायते । एतद्दुःखत्रयं वंदनाशब्देनात्र ज्ञेयम् । एतासां वेदनानां प्रभवात् उत्पादकात् भवति संसारात् भीतिः संवेगः कथ्यते । अयं च भवः संसार: स्वप्नेन इन्द्रजालेन च संकल्पः सदृशो वर्तते ॥ २२९ ॥। ३. अनुकम्पालक्षणम् - सत्त्वे इति — सर्वस्मिन् सत्वे प्राणिनि चित्तस्य दयार्द्रत्वं दयालवः कृपावन्तो नराः धर्मस्य परमं मूलं वृक्षस्य मूलमिव अनुकम्पां करुणाम् दयाम् कृपां च प्रचक्षते आख्यान्ति ॥ २३० ॥ ४. आस्तिक्यमाह - आप्ते इति — सर्वज्ञे भगवति जिने । श्रुते द्वादशाङ्गेषु । व्रते अहिंसादिषु । यस्य चित्तं मनः अस्तित्वपरिचितं भवति तत् आस्तिक्यम् । उक्तिः वचनं युक्ति: प्रमाणनयात्मिका ते धरतीति उक्तिमुक्तिधरः तस्मिन्नरे उक्तम् । अथत्रा मोक्षसंयोगधरे मुक्तिगामिनि नरे आस्तिक्यम् उक्तम् ॥ २३१ ।। ५. निर्दयस्य संसारदीर्घता - रागेति - रागद्वेषवति नित्यं निर्व्रते सततम् अहिंसादितरहिते । निर्दयात्मनि निर्दय आत्मा यस्य तादृशे निष्कृपे नास्तिक नीतियुक्ते नरे संसारो दीर्घसारः स्यात् दीर्घभ्रमणरूपः भवेत् । नास्तिको निर्दयश्च नरः दीर्घकालं संसारे परिभ्रमेत् इति भावः ॥ २३२ ॥
[ पृष्ठ ११२ - ११५ ] ६. सम्यक्त्वस्य उत्पत्तिः प्रकाराश्च - अनन्तानुबन्धिचतुष्टयस्म, मम्यक्त्व प्रकृतेः सम्यङ् मिध्यात्वस्य, मिथ्यात्वस्य च समूलात्क्षयात् जीवादिवस्तुनि यच्छ्रद्धानं भवति तत्क्षायिकं सम्यक्त्वम् । एतासां सप्तप्रकृतीनां शान्तेः उपशमात् औपशमिकम् । एतासु सप्तसु सम्यक्त्वस्य उदयेन अन्यासाम् उपशमनेन क्षयेण च जायमानं श्रद्धानं क्षायोपशमिकं ज्ञेयम्, एतत्त्रिविधं सम्यक्त्वं सर्वत्र गतिषु नारकतिर्यङ्नरदेवगतिषु संज्ञि-पञ्चेन्द्रियजन्तुषु बोध्यं ज्ञेयम् ।। २३३ ।। दशविधं सम्यक्त्वम् - आज्ञेति – अस्थायमर्थः ॥ २३४ ॥ १. आज्ञा सम्यक्त्वम् - भगवता अर्हता सर्वज्ञेन रचितागमे जीवादिपदार्थवर्णने यथार्थम् अनुज्ञायाः आदेशस्य स्वीकरणात् जायमाना संज्ञा सम्यग्ज्ञानम् आज्ञासम्यक्त्वम् । २. मार्गसम्यक्त्वम् - रत्नत्रयं मोक्षमार्गः तस्य विचारात् सम्यग्दर्शनस्य विमर्शात् सर्ग उत्पत्तिर्यस्य तन्मार्गसम्यक्त्वम् । ३. उपदेशसम्यक्त्वम् - तीर्थंकर-चक्रवर्त-नारायण-प्रतिनारायण - बलभद्राः पुराणपुरुषास्त्रिषष्टिः, तेषां चरितानां श्रवणाज्जायमानः अभिनिवेशः श्रद्धाविशेषः उपदेशसम्यक्त्वम् । ४. सूत्रसम्यक्त्वम् — यतिजनानां महाव्रतादिचारित्रनिरूपणभाजनप्रायं सूत्र