________________
४०२ पं० जिनदासविरचिता
[पृ० १९८भवति । मिथ्यादृष्टेप्रतानि मुक्तये न भवन्ति ॥२४२॥ बहिःक्रियेति-बाह्या क्रिया बाह्यज्ञानचारित्रादिकम्, बहिःकर्म केवलं रत्नत्रयसमृद्धेः सदृष्टिज्ञानवृत्तानां समृद्धेः उन्नतेः केवलं कारणं निमित्तं शरीरेण क्रियमाणं गमनादिकं देवपूजनादिकं च भवेत् घटोत्पत्तो मृदादेः कुलालादिवत् । परम् आत्मा स्वयं रत्नत्रय. समृद्धिं कृत्वा रत्नत्रयात्मको भवति । रत्नत्रयम् आत्मानं मुक्त्वा अन्यद्रव्ये न वर्तते । अतः स एव रत्नत्रितयपरिणतावुपादानम् । तत्त्रिकमय आत्मा मोक्षस्य कारणं भवति ॥२४३॥ रत्नत्रयस्वरूपम भूतार्थनयवादिनां निश्चयनयवादिनाम् । वस्तुनः अनन्तरत्वेन कर्तृ कर्मकरणादीनाम् अभेदेन प्रतिपादनं कुर्वाणो नयो भूतार्थनयः तस्य वादिनः भूतार्थनयवादिनः तेषाम् । विशुद्धवस्तुधीः दृष्टि: विशुद्ध ज्ञानादिभ्योऽभिन्न वस्तु आत्मा इति धीः बुद्धिः सा एव दृष्टिः दर्शमम् । अभिन्नो ममात्मा ज्ञानादिभिः इति श्रद्धा दर्शनम् । साकारगोचरो बोधः । आकारः अर्थविकल्प: । अयं घटः अयं पटः इत्यादिवस्तुभेदः आकारः वस्तुनो वर्णसंस्थानादयोऽपि । आकारेण सहितः साकारः पदार्थः स गोचरो विषयो यस्य स गुणः बोध उच्यते । अप्रसंग: तयोः अप्रसंगः वृत्तम् । तयोः सम्यग्दर्शनसम्यग्ज्ञानयोः अप्रसंगः रागद्वेषमोहादिभिः अप्रसक्तत्वं रहितत्वं वृत्तं चारित्रम् इति निश्चयनयेन रत्नत्रयलक्षणम् उक्तम् ॥२४४॥
[पृष्ठ ११८-१२२ ] अक्षात् इति-यत् यस्मात् आत्मनि मोक्षं प्राप्ते सति अक्षात् षडिन्द्रियात् ज्ञानं न भवति मोहात् जीवे मोहनीयकर्मणः रुचिर्न किं तु आत्मरुचेरेव रुचिर्भवति । देहाच्छरीरात् चारित्रं न किं तु आरमन्येकलोलीभावश्चारित्रम् । अथवा अक्षात् इन्द्रियषट्कात् घटपटादेनिं नास्ति । मोहात् अदेवे देवताबुद्धिः, अगुरौ गुरुकल्पना, अतत्वे तत्वधी: मोहः दुरभिनिवेशः तस्मात् रुचिः यथार्थतत्त्वश्रद्धा नास्ति । यत् देहात् वृत्तं चारित्रं च नास्ति तस्मात् निश्चयनयेन शिवोभूते शुद्धस्वरूपधारिणि अस्मिन्नात्मनि तज्ज्ञानं रुचिः वृत्तं च विद्यते यतः तत् आत्मैव तत्त्रयं ज्ञेयः ॥२४५।। नात्मेति-आत्मा कर्म न, ज्ञानावरणादिरूपं न, कर्म आत्मरूपं न, यत् यस्मात् तयोर्महदन्तरं स्वरूपवलक्षण्यम् । तत् तस्मात् आत्मा आत्मैव, सत्ता, आत्मा केवलं व्योमेव आकाशमिव कर्मरहितः आत्मा निलेप व्योमेव, कर्मरहितत्वात् शुद्धत्वात् आत्मा सत्तेव महासत्तेव ॥२४६॥ क्लेशायेति-आत्मनि जीवे स्वयं विशुद्धे सति तन्निर्मलीकरणाय क्रियमाणं तपश्चरणादिकं कर्म क्लेशाय कारणं स्यात् । किचित् अम्बु जलं स्वतः स्वभावेन उष्णं न किं तु वह्निसंश्रयं अग्निसांनिध्येन तत् उष्णं भवति ॥२४७॥ कर्मण आत्मनश्च कर्तृ त्वं स्वस्वविषय एवेति दर्शयति-आत्मेतिआत्मा स्वपर्याये ज्ञानदर्शनादिगुणानाम् अवस्थानिवहे कर्ता भवति तथा कर्म च स्वपर्यये कर्त ज्ञानावरणादिपर्याये, परं मिथः अन्योन्यम् अनयोः कर्तृत्वम् उपचारात्, अपरत्र कर्मणः आत्मनि, आत्मनश्च कर्मणि ज्ञेयम् । जातु उपचार विमुच्य अन्योऽन्ययोः कर्तृत्वं नास्ति । आत्मनः पर्याये कर्म निमित्तकारणम्, कर्मणः पर्यायपरिणती आत्मा निमित्तं परम् उभे अपि आत्मकर्मणी स्वस्वपर्याय उपादानकारण भवत इति ज्ञेयम् ॥२४८।। स्वत इति-इदं षड्द्रव्यमयं जगत् सचराचरं विद्यते तत्र जीवपुद्गलो चरी शेषं द्रव्यचतुष्कम् अचरम् सर्व जगत स्वभावेषु सक्रियम् । क्रिया द्विविधा-रिस्पन्दात्मिका अपरिस्पन्दात्मिका च । उभयनिमित्तवशात्पद्यमानः पर्यायो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया सा क्रिया जीवपुद्गलयोर्वर्तते तयोरेकस्मात् स्थानादन्यत्र गमनावलोकनात् । अपरा क्रिया अपरिस्पन्दात्मिका वर्तते । द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः अपरिस्पन्दात्मकः परिणामाभिधानो यथा जीवस्य क्रोधादिः । पुद्गलस्य वर्णादिः । धर्माधर्माकाशानाम् अगुरुलघु. गणवदिहानिकृतः । यथा सरिणि मत्स्ये वाः जलं गतेनिमित्तं भवति मत्स्यः स्वयं गच्छति जलं तद्गते: बलाधाननिमित्तं भवति । तथा सर्व सचराचरं स्वतः स्वभावेषु सक्रियं भवति परम् अन्यद्रव्यं तत्क्रियायां निमित्तं भवति ॥२४९।। जीवस्य हिंसकत्वं निगदति प्राणिनः स्वकर्मतः जीवन्तु जीवनं प्राणधारणं कुर्वन्तु म्रियन्तां वा मरणं वा प्राप्नुवन्तु । परं स्वं विशुद्धं निर्मलं मनः हिंसन् रागद्वेषवशीभूतं कुर्वन् जन्तुः हिंसकः पापभाग भवेत् । यदा मनो रागद्वेषवशं जायते तदा मलिनं पापयुक्तं संपद्यते ॥२५०॥ कीदृश आस्मा हिंसकोऽपि न हिंसक इत्यनुयुक्ते. उत्तरं ददाति-शुद्धमार्गेति-शुद्धमार्गे गुप्तिसमितिधर्मादिषु मतः उद्योगः प्रवृत्तिर्यस्य स शुद्धमार्गमतोद्योगः, शुढचेतोवचोवपुः शुद्धं चेतो मनः, वचो वाणी, वपुः शरीरं यस्य यो मासा वचसा शरीरेण च आत्मस्वरूपे स्थिरो भवति । परपदार्थेषु त्रिविधेन मनोवचोवपुषा रागद्वेषवशो न भवतीत्यर्थः ।