________________
३६४
पं० जिनदासविरचिता
[ पृ० ३८
भगवान् कथं तर्हि भवतः पित्रोविवाहाद्यस्तित्वतन्त्रम् । यदि त्वम् एकमेव प्रमाणं मन्यसे तर्हि तव पित्रोः मातुः पितुश्च विवाहादे: अस्तित्वे च तन्त्रं कारणं किं नु स्यात् । कथं वा तवादृश्यानां वंश्यानाम् अवस्थिति: । तव ये पूर्वजाः ये तु अधुना न दृश्यन्ते ते पुरा आसन् इति कथं निर्णयः स्यात् । स्वयमप्रत्यक्षप्रमेयत्वादाप्तपुरुषोपदेशाश्रितौ स्वपक्षपरिक्षतिः परमतोत्सवकृतिश्च । हे बले, तव पूर्वजादयः अप्रत्यक्षप्रमेयाः प्रत्यक्षेण प्रमेयाः ज्ञेया नैव भवन्ति । ततः आप्तपुरुषोपदेशाश्रयः कर्तव्यः स्यात् । ये विश्वस्ताः पुरुषास्तेषां पूर्वजादिवार्ताकथने प्रामाण्यम् अङ्गीकर्तव्यं स्यात् । ततश्च स्वपक्षस्य हानिर्भवेत् परस्य च आस्तिकानां मतोत्सव विधानं भवेत् । बलिभट्टो भट्ट इव इतस्तटमितो मदोत्कटः करटीति संकटकप्रघटकमापतितः । बलिमन्त्री भट्ट इव वेदज्ञ इव, पण्डित इव इतस्तटं गिरि-भित्तिरितो मदोत्कटः दानोदकेन क्लिन्नगण्डस्थलो गजः इति संकटप्रघटकं दुःखप्रकर्ष मायातः । परं सभाजनकरम् उत्तरं आनन्दप्रदमुत्तरम् अपश्यन् अश्लीलं ग्राम्यम् असभ्यसगं खलजनोचितं निरर्गलमार्गम् उच्छृंखलपथं किमपि भाषणं तं भगवन्तं प्रत्युवाच । क्षितिपतिः जयवर्मनृपः अतीव मन्दाक्षविक्षिप्तवीक्षणो अतिशयेन लज्जानम्रलोचन: मुमुक्षुसमक्षम् आत्मानं कर्मबन्धनान्मोक्तुम् इच्छावतां प्रत्यक्षम् आसन्नाशिवताशनिसंघट्टं समीपीभूता कल्याणप्रपातं बलिभट्टं प्रतिष्ठाभङ्गभयात् किमप्यनभिलप्य किमपि अनुक्त्वा । भगवन्, संपन्नतस्त्व संबन्धस्य लब्धतत्त्वसंपर्कस्य निजस्खलितप्रवृत्तचित्त महामोहान्धस्य स्वापराधसन्निविष्टमनस्त्वान्महामोहान्धस्य सद्धर्मध्वंस हेतोः जिनधर्मविनाशकारणस्य जन्तोः प्राणिनः निसर्गस्थैर्य मेरुषु गुणगुरुषु प्रकृत्यैव धीरतायां मेरुतुल्येषु, गुणैर्महापुरुषतां प्राप्तेषु सत्पुरुषेषु न खलु दुरपवादकरणात्परं दोषारोपकरणादन्यत् अवसाने परिणामे प्रहरणमस्ति शस्त्रं भवति । इति वचनपुरःसरं कथान्तरम् अनुबध्य अन्या कथा कथान्तरम् अन्यविषयिणीं कथाम् अनुबध्य प्रसंगेन संचाल्य साधु निष्कपटं समाराध्य भक्त्या संपूज्य प्रशान्ति हैमवतीप्रभवगिरिम् अकम्पनसूरि प्रकर्षेण या शान्तिः स्वस्वरूपचिन्तनाज्जातः परमाह्लादः सा एव हैमवतो हिमवतः प्रभवति प्रकाशते प्रथमं दृश्यते इति हैमवती गङ्गानदी तस्याः प्रभवगिरि हिमवन्तमिव अकम्पनसूरिम् विनेयजन संभावनौचित्यज्ञया तदनुज्ञया विनेयजनाः शिष्याः तेषां संभावना आदर: तस्याः औचित्यं योग्यता तज्जानातीति तथा शिष्यादरयोग्यतां विदन्त्या तदनुज्ञया सूरिसम्मत्या आत्मसदनं स्वयम् आसाद्य, अपरेद्युः अन्यस्मिन् दिवसे अपरदोषमिषेण अन्यापराधनिमित्तेन सनिकारकरणं निकारो धिक्कारः तस्य करणं विधानं तेन सहितं सनिकारकरणम् अनुजैः शुक्रप्रह्लाद बृहस्पतिभिः सह कर्मस्कन्धबन्ध"बाद्धलिम् बलि निजदेशान्निर्वासयामास स्वमण्डलान्निर्घाटयामास । भवतश्चात्र श्लोको – सन्नेति – यदि चित्तं मलीमसम् अशुभविमर्शदूषितं स्यात् तर्हि स सन् सज्जनो असन्नसज्जनः समावेव न तयोः किमप्यन्तरम् । पूर्वः सज्जनः अक्षान्तेः पराभ्युदयासहनात् क्षयं विनाशं याति । परश्च अशुभचेष्टितात् परः दुर्जनः अशुभकार्यकरणात् क्षयं लभते ॥२२० ॥ स्वमेवेति - सज्जनं द्विषन् दुर्जनः स्वमेव आत्मानमेव हन्तुं ईहेत इच्छेत् । यः एकातुलां तुलायाः एकं पार्श्वम् आरोहेत् । असो अधः न व्रजेत् किम् । अवश्यमधः व्रजेदेव ॥ २२१ ॥
इस्युपासकाध्ययने बलिनिर्वासनो नामैकोनविंशः कहाः ||१९||
२०. वात्सल्यरचनो नाम विंशः कल्पः
[पृष्ठ ६८-१६] बलिमन्त्री लघुभिर्भ्रातृभिः सह हस्तिनापुरे पद्मराजानमाश्रयत् । बलिद्विजः सानुजः सकलजनसमक्षं सर्व जनप्रत्यक्षम् असूक्ष्म सूक्ष्मणपूर्वकम् असूक्ष्मं महान् सूक्ष्मणं पराभवः तत्पूर्वकं निर्वासितः निर्धाटितः सन् मुनि विषय रोषोन्मेष कलुषितः अकम्पनसूरिमुद्दिश्य यो रोषस्तस्य उन्मेषः उदयः तेन कलुषितः संतप्तचित्तः भूत्वा । कुरुजाङ्गलमण्डलेषु तद्विलासिनीति - तेषां कुरुजाङ्गलानां तन्नामकदेशानाम् विलासिन्यः ललनाः तासां जलकेलयः नीरक्रीडाः ताभिः विगलितं कालेयकं कुङ्कुम् सुगन्धिद्रव्यपङ्कं तेन पाटलाः श्वेतरक्ताः ये कल्लोलास्तरङ्गाः तान् धरति वहतीति धरा सा चासो सुरसरित् गङ्गानदी सा एव सीमन्तिनी कामिनी तया
१. बाद्धलिर्गजागमाचार्यः इति, टिप्पण्याम् ।