________________
-पृ०६६] उपासकाध्ययनटीका
३६५ चुम्बितः संश्लिष्टः पर्यन्तप्रसर बासमन्तप्रदेशो यस्य तस्मिन् हस्तिनापुरे । साम्राज्यलक्ष्मीमिव लक्ष्मीमती महादेवीम् अवहाय कृताभिषेकां लक्ष्मीमती महिषों त्यक्त्वा । सरस्वतीरसावगाहसागरस्य सरस्वत्याः वाचां देव्याः रसः आस्वाद्यमानः प्रीतिविशेषः तस्य अवगाहे स्थानदाने सागरस्य समुद्रस्येव श्रुतसागरस्य भगवतः अभ्यर्णे समीपे पितृविनयविष्णुना पितुर्जनकस्य संबन्धिनं विनयं वेवेष्टि व्याप्नोतीति विष्णुः तेन विष्णुना निजजनके विनयातिशयं धारयता, विष्णुना तन्नामधारकेण लघुभूतं जन्म यस्य तेन तथाभूतेन सूनुना पुत्रेण साधं सह प्रवधितदोक्षापद्मस्य प्रवधित विकासं नीतं दीक्षा एव पद्मं कमलं येन तस्य महापद्ममहीपतेः महापद्मति नामवतो भूपतेः पद्मनामनिलयं तनयम् अशिश्रयत् आश्रयदित्यर्थः बलिमन्त्री निजानुजः सह पद्मनामानं राजानम् आश्रयदित्यर्थः । पद्मोऽपि चारसञ्चारात चाराणां गढपुरुषाणां सञ्चारात् भ्रमणात् विदितवंशविद्याप्रभावाय ज्ञातान्वयज्ञानमाहात्म्याय तस्मै बलिसचिवाय सर्वाधिकारिक स्थानमदात् । सर्वे अधिकारिणः यस्मिन् वशा भवन्ति तत् महास्थानम् अयच्छत् । बलिः-देव, गृहीतोऽयं स्वीकृतोऽयम् अनन्यसामान्यसंभावनालादः प्रसादः इतरजनासाधारणादरप्रमोदः प्रसादः । कि तु कर्णेजपवृत्तीनां कर्णे लगित्वा परापकारजपनरूपा वृत्तिर्येषां ते कर्णेजपवृत्तयः परापकारोक्तिस्वभावानां खलानामित्यर्थः । पुनः कथंभूतानां लञ्चलुञ्चेति-लञ्चस्य उत्कोचस्य लुञ्चनं ग्रहणं तस्य उचिता योग्या चेतसः मनसः प्रवृत्तिर्येषां तेषां पुरुषाणां प्रायेण नियोगिपदम् अधिकारिपदं हृदयास्पदं तेषां हृदयानुरूपं न प्रतिभाति । परं शौर्येण अजितम् उन्नतं चित्तं यस्य, उदारं दानशीलं चित्तं यस्य तस्य च इदं नियोगिपदं नोचितम् अपि तु उचितमेव तत् तस्मात् असाध्यसाधनेन यत्कार्य साधयितुं दुःशकं तस्य साधनेन साधनभूतेन ननु अयं जनः निदेशदानेन आज्ञाप्रदानेन अनुगृहीतव्यः उपकार्य इत्यर्थः । पद्म:-सत्यमिदम् । किं तु स्वामिसमोहितसुमनःसंवीणेषु स्वामिनो नृपस्य समीहितम् इष्ट कार्य तस्मिन् सुमनसा संवीणेषु तत्परेषु भवद्विधेषु भवादृशेषु सचिवेषु सहायकमन्त्रिषु विद्यमानेषु किं नामासाध्यम् अस्ति । अन्यदा तु अन्यस्मिन्काले तु कुम्भपुराधिकृतमूर्तिः कुम्भपुरनामनगरे अधिकृतमूर्तिः स्वामित्वेन अधिष्ठिता मूर्तिः देहो यस्य कुम्भपुरस्य यो राजा अस्ति स तथाभूतः सिंहकोतिर्नाम नृपतिः । अनेकयोधनेषु नानायुद्धेषु लब्धम् आप्तं यशःप्रसाधनं कीर्तिभूषणं येन । सन्नद्धं युद्धोद्यतं सारसाधनं बलवत्सैन्यं यस्य । हस्तिनागपुरावस्कन्दप्रदानाय हस्तिनागनगराक्रमणप्रदानाय आगच्छन् एतन्नगरच्छन्नावसर्पनिवेदितागमनः अस्य नपस्य कुम्भपुरे छन्ना: गढतयावस्थिता ये अवसः चारास्तैनिवेदितम् आगमनं यस्य, स बलिसचिवः पद्मनिदेशात् पद्मनपादेशमनुरुध्य अभ्यमित्रीणप्रयाणपरायणेन विद्विषन्तं प्रति जेतं गमनं यत्ततदभ्यमित्रीणप्रयाणमच्यते तस्मिन परायणेन तत्परेण कटं वञ्चनापणं प्रकामं कदनम अतिशयेन रोषेण कदनं युद्धं तस्मिन् कोविदा निपुणा धिषणा बुद्धिः यस्य तेन बलिना सचिवेन । अध्वमध्ये मार्गम् अवरुध्य युध्यमानः, नामनिर्गमविधानः स्वकोयनामविरुदावलीसहितःप्रधान: यद्धसिद्धान्तोपान्तै: सामन्तश्च नम्रोभूय ततो निर्गमोपायवद्भिः मुख्यैः युद्धस्य समरस्य सिद्धान्तानाम् उपान्तं समीपं गतः सामन्तः स्वविषयानन्तरराजभिः सं संलग्नोऽन्तः एकदेशो यस्याः सा समन्ता स्वविषयानन्तरा भूमिः तस्या अधिपतयः सामन्ताः । तैश्च साधं प्रवध्य तस्मै हृदयशल्योन्मलनप्रमदमतये क्षितिपतये प्राभतीकृतः । हृदयस्य मनसः शल्यस्य पीडायाः उन्मूलनात् निःशेषतया नाशात् प्रमदयुक्ता सानन्दा मतिर्यस्य तस्मै क्षितिपतये भूमिपतये पद्मनपाय प्राभतीकृतः उपायनीकृतः । क्षितिपतिः-शस्त्रशास्त्रेति-शस्त्राणि च शास्त्राणि च तेषां विद्यानाम् अधिकरणम् आश्रयरूपं व्याकरणं तस्य व्याकर्ता पतञ्जलिरिव तत्संबोधनं हे बले, निखिलेऽपि बले सकलेऽपि सैन्ये चिरकाल. मनेकशः कृतकृष्णवदनच्छायस्यास्य कृता कृष्णा श्यामा वदनच्छाया मुखकान्तिर्येन तस्य अस्य द्विष्टस्य शत्रोः विजयात् नितान्तम् अत्यन्तं तुष्टोऽस्मि प्रोतोऽस्मि । तद्याच्या मनोऽभिलाषवरो वरः, तस्मात्कारणात् यं वरं ते मनोऽभिलष्यति स याच्यतां प्रियताम् । बलि:-यदाह याचे तदार्य प्रसादीकर्तव्यः । इत्युदारम् उदीर्य निःस्पृहतां प्रदर्शयन्निव उदीर्य उक्त्वा, पुनश्चतुरङ्गबलप्रबल: चत्वारि अङ्गानि हस्त्यश्वरथपादातरूपाणि यस्य तेन बलेन सैन्येन प्रबल: महाशक्तिमान् बलिः प्रतिकूठभूगालविनयाय प्रतिकूलाः विरुद्धा ये भूपाला राजानः तेषां विनयाय आनुकूल्योत्पादनाय । पद्मम् अवनीपतिम् अवन्याः पति पृथ्वीशम् आदेशम् आज्ञां याचित्वा गृहीत्वा सत्त्वरं शोघ्रम् अशेषेति-अशेपाः सकलाः ताश्च ता आशा दिशः ताम वशाः निजाधीनाः कृताः निवेशाः स्थानानि प्राम