________________
-पृ०६८]
उपासकाध्ययनटीका
३६३
न देवः शंकरात्परः अन्यः । शिवेन प्रणीतं शैवं तच्च तच्छास्त्रं शेवशास्त्रं तस्मात्परम् अन्यत् भक्तिमक्तिप्रदं वचः नास्ति । शिवशास्त्रादेव भोगादिकं लब्ध्वा अवसाने मुक्ति च लभते जीवः ॥२१९॥ तथा नास्तिक्याधिक्यवाचस्पती नास्तिक्यं नास्ति जीवः न परलोकवार्ता. न पापं पण्यं च इत्यादिमानसिको विमर्शः नास्तिक्यम् तस्याधिक्ये वाचस्पती इव देवगुरू इव शुक्रबृहस्पती अपि राजे जयवर्मणे स्वप्रज्ञां स्वबुद्धि विज्ञापयामासतुः प्रकटयांचक्रतुः । मनागन्तःक्षुभितमतिः क्षितिपतिः ईषत् चित्ते कोपकलुषितबुद्धिः भूपतिः-अहो दुर्जनतालतालम्बनकुजद्विजाः दुर्जनता खलता सा एव लता वल्लो तस्या आलम्बने आधारदाने कुजा वृक्षा इव द्विजाः हे ब्राह्मणाः । किं ममैव पुरतो भवतां भारती वाणी प्रवर्तते प्रगल्भते मत्ता भवति समर्था भवति । किं वा बुधवेकस्य लोकस्यापि । बुधेषु विद्वत्सु प्रवेक: श्रेष्ठः महाविद्वान् तस्यापि महाविदुषोऽपि लोकस्यापि पुरतः भवतां वाणी प्रगल्भते । सन्नीतिवसुमतीविदारणहलिबलिः-सती प्रशस्ता नीतिः सदाचारः सा एव वसुमती भूमिः तस्या विदारणे हल इव लाङ्गल इव बलिमन्त्री अभाषत-इलापाल, इलां पृथ्वों पालयतीति इलापालस्ततसंबोधनं हे इलापाल, यदि तव अस्मन्मनीषोत्कर्षविषये सेयं मनः अस्माक मनीषा मतिः तस्याः प्रकर्षविषये तव चित्तं यदि असयापरं विद्यते। तदास्ताम् तावदभ्यस्तशास्त्रप्रवीणप्रज्ञः परं प्राज्ञः, अभ्यस्तानि वाचनापुच्छनाम्नायानुप्रेक्षादिभिः मलितानि यानि शास्त्राणि तेषु प्रवीणा प्रज्ञा यस्य स प्राज्ञः परं तावदास्ताम्, किं तु सर्वज्ञस्यापि वादिनः पुरस्ताद्वादे परिगृहीतविधानवद्या एव, अभ्यस्तविद्यासु अनवद्या एव पराजयदोषरहिता एव भवेम । स्थिरप्रकृतिः क्षोणीपतिः स्थिरा धर्यवती प्रकृतिः स्वभावनिमितिर्यस्य क्षोण्याः भूमेः पतिः स्वामी जयवर्मनृपः 'यद्येवं शूराणां कातराणां च रणे व्यक्तिर्भविष्यति ।' इत्याद्यभिधाय आनन्ददुन्दुभिरवोपार्जितपरिजनपूजोपकरणो मानन्दपटहध्वनिना आनायितपरिच्छदजनपूजा. द्रव्यसाधनः विजयशेखरं नाम करिणं गजम् आरुह्य, अन्तःपुरानुगमग्राह्यः अन्तःपुरस्त्रीणाम् अनुगमः अनुयानं तेन ग्राह्यः अङ्गीकार्यः सन् । अतिवास नगरमार्गम् उल्लाध्य । उपगतारामसीमसंसर्गः संप्राप्तोपवनमर्यादासंबन्धः। ततः करिण: गजात् अवरुह्य अवतीर्य गहोतार्यवेषपरिकरः राजवेषं परित्यज्य स्वीकृतविनीतजनवेपव्यतिकरः, कतिपयाप्तपरिवारपुरःसरः कतिचनविश्वस्तपरिच्छदाग्रगतः । तं व्रतविद्यानवयं भगवन्तं प्रतानि अहिंसादीनि पञ्चमहावतानि, विद्याश्च मतिश्रुतावधिज्ञानानि तै: अनवद्यः निर्दोषः परिपूर्ण इत्यर्थः तम् । भगवन्तं यथावत् अष्टाङ्गसहितं नमस्कारं कृत्वा, समाचरितनोचासनपरिग्रहः समाचरितो विहितः नीचासनस्य परिग्रहः स्वीकारो येन, गुरोः पुरतः शिष्येण विनयेन उपवेष्टव्यम्, उच्चस्थाने गुरौ तिष्ठति शिष्येण नीचैः स्याने स्थातव्यम् इति नियमात, सविनयाग्रहं विनयाग्रहेण सहितो भूत्वा स्वर्गापवर्गस्वरूपनिरूपणपरायणः सदमसनाथां कथां प्रथयामास । स्वर्गमोक्षयोः स्वरूपस्य निरूपणे परायणः तत्परः समीचीनहिंसाधर्मोपेतां कथाम् आख्यातवान् ।।
[पृष्ठ १७-१८] सत्कर्मवंशप्रभिदलिर्बलिः-सन्ति च तानि कर्माणि अहिंसासत्याचोर्यादीनि तान्येव वंशो वेणुः तं प्रभिनत्ति इति प्रभित् स चासो अलिभ्रमरः स इव बलिरवदत्-स्वामिन, कोऽयं स्वर्गापवर्गास्तित्वसङग्रहे देवस्य दुराग्रहः । आचार्य, देवस्य नपस्य स्वर्गमोक्षयोः अस्तित्वकल्पनायां कोऽयं दुरभिनिवेशः । अयं विफलाग्रहोऽस्ति । यतो द्वादशवर्षा स्त्री, षोडशवर्षः पुरुषः तयोरन्योऽन्यम् अनन्यसामान्यस्नेहरसोत्सेकप्रादुर्भूतिः प्रीतिः । तयोः उक्तवयसो रीपुरुषयोः अन्यजनासाधारणस्नेहप्रकर्षोत्पत्ति: प्रीतिरुच्यते। सा एवं प्रत्यक्षसमधिसर्गः स्वर्गः न पुनः न अदृष्टः कोऽपोष्टः स्वर्गः समस्ति । सा प्रीतिरेव प्रत्यक्षेण सम्यक् निकायो यस्य स स्वर्गो ज्ञातव्यः, न पुनः अदृष्टः केनापि मतः स्वर्ग: विद्यते । गुणभूरिः सूरिः-सकले प्रमाणवले बले, कि प्रत्यक्षताधिकरणम् एकमेव प्रमाणं समस्ति । सह कलिना वर्तते इति सकलिस्तत् संबोधनं हे सकले, बखिले प्रमाणसमूहे विद्यमानेऽपि हे बलिमन्त्रिन, प्रत्यक्षताश्रयं किमेकमेव प्रमाणं विद्यते । नास्तिकेन्द्रमनोरषरषमातकिर्यलि:अखिलश्रुतधरोदारादिपुरुषविदुष, एकमेव । नास्तिक एव इन्द्रः तस्य मनोरथः मनोऽभिलाषः मास्ति परलोकः, नास्ति पुण्यं पापं चेत्यादिरूपः स एव रथः तस्य मातलि: तन्नामा शक्रसारथिः तद्रपः बलिरवदत् 'अखिलं श्रुतं सकलम् आगमज्ञानमेव परा पृथ्वी तस्या उद्धारे आदिपुरुषविदुष प्रथमपुरुषः विद्वान् तत्संबोधनम् ।