________________
पं० जिनदासविरचिता
[पृ०१६शाक्येति-शाक्यः सुगतस्तस्य वाक्यम् उपदेशः तदेव वारिधिः समुद्रः तस्मिन् क्रान्तिः प्रवेशः यस्य तथाभूतेन नक्रेणेव शक्रेण । चार्वाकलोकानां नास्तिकानां दिवस्पतिना इन्द्रेण बहस्पतिना मन्त्रिणा। रुद्रस्य महादेवस्य मुद्रा चिह्न तेन अनुद्रिक्तो अनष्टो विवेको यस्य तेन प्रह्लादकेन मन्त्रिणा, अनुगतेन अनुसृतेन । वेदविद्याबलिना सचिवेन चिन्त्यमानराज्यस्थितिः चिन्त्यमाना विचार्यमाणा राज्यस्थितिः राज्यपालनं यस्य । एकदा एकस्मिन् समये, समस्तेति-सकलशास्त्राभ्यास एव वर्षः वृष्टिः तेन विस्फारिता प्रवृद्धि गता सरस्वती शारदा.एव नदो तस्यास्तरङ्गाः वीचयः नानाश्रुतज्ञानविषयाः तेषां परम्परा तस्यां प्लावनेन स्नानेन पवित्रिता: पता ये विनेयजनाः शिष्यास्तेषां मनांस्येव नलिनानि कमलानि तेषां निकुरुम्बं समूहो येन तस्य । पुनः कंथभूतस्य । परमेतिपरमाणि निर्दोषाणि तानि तपश्चरणानि तेषां गणः समहः तस्य ग्रहणे अजिह्म जहाति परित्यजति सारल्यमिति । जिह्म न जिह्मम् अजिह्यं तच्च तद्ब्रह्म च स एव स्तम्बः भुवनत्रयं यस्य, निष्कपटं यथा स्यात्तथा कृतेन तपसा संप्राप्तात्मस्वरूपस्य, महामुनिसप्तशतीवर्यस्य महामुनीनां सप्तशती तस्यां वर्यस्य श्रेष्ठस्य, भगवतोऽकम्पनाचार्यस्य महद्धिजुषः महर्डीः जुषते सेवते धारयते इति महद्धिजुट् तस्य महद्धि जुषः महर्डीः धारयतः । सर्वजनानन्दनं नाम नगरोपवनम् अधितस्थुषः कृतनिवासस्य, तस्य चरणार्चनोपचाराय पादपूजनविधये राजमार्गेष महोत्सवस्य उत्साहः आनन्दः तस्य उत्सेक: अभिमानो यस्य स चासो परिजनः परिवारः यस्य तथाभूतं पौरजनं नागरिकलोकम्, अभ्रंलिहगेहाग्रभागावसरे अभ्रं मेघं लेढि इति अभ्रंलिहं तत् गेहम अभ्रंलिहगेहं मेघस्पशिगहमित्यर्थः तस्य अग्रभागः तस्य अवसरः प्रदेशः तत्र । दिग्विलोकानन्दमन्दिरे दिशां विलोकनस्य आनन्दो यत्र तथाभूते मन्दिरे स्थितः जयवर्मन्पः समवलोक्य, 'कोऽयमकाण्डे प्रचण्डः पौराणामुद्यावोद्योग नियोगः' 'कोऽयम् अनवसरे प्रचण्ड: महान् पौराणां नगरनिवासिनाम् उद्यावः उत्सवः तस्मिन् उद्योगः प्रवृत्तिः तस्मिन् नियोगः निश्चयः' इति वितर्कयन् [नमः वनपालेन आगत्य ससंघः अकम्पनसूरिः समायातः इति अकथ्यत] सकलसमयसंभविप्रसूनस्तिमितहस्तपल्लवान्तराद्वनपालात् सकलसमयाः सकलर्तवः तेषु संभवीनि च तानि प्रसूनानि पुष्पाणि तैः स्तिमिती पूर्णो हस्ती तावेव पल्लवान्तरालं यस्य तस्मात् वनपालात् 'देव, भवदर्शनोत्सुकवनदेवतालोचने तवावलोकनोत्कण्ठितानि वनदेवतानयनानि यत्र तथाभूते । भगवत्तपःप्रभावप्रवृत्तसमस्तत मादितमेदिनीनन्दने भगवतो मुनेस्तपसां माहात्म्यादुद्भूतसकलतन्मादितपृथिवीनन्दने । निजलक्ष्मीविलक्ष्मीकृतगन्धमादने स्वस्य लक्ष्म्या शोभया विलक्ष्मीकृतो निःश्रीकृतो गन्धमादनो येन तस्मिन् पुरोपबने नगरोद्याने। सद्गुणश्रीसंपादितसमूहेन सदगुणानां सम्यक्त्वादिगुणानां श्रिया लक्ष्म्या संपादितः लब्धः सम्यक् ऊहः येन तथाभूतेन महता मुनिसमूहेन अकम्पमसूरिः समायातः । कथंभूतः । सर्वसत्त्वेति-सर्वे च ते सत्त्वा आत्मानः तेषाम् आनन्दस्य प्रदाने उदाराभिषा महोपदेशः सा एव सुधा अमतं तस्याः प्रबन्धेन अवधीरितं तिरस्कृतम् अमृतमरीचिमण्डलम् अमृतमया मरीचयः किरणा यस्य स अमतमरीचिरिन्दुः तस्य मण्डलं बिम्बं येन । निखिलेति-सकलदिपालमुकुटरत्ननायकदर्पणीभवच्चरणनखमण्डलः, पुण्येति-पुण्यान्येव द्विपाः गजाः तेषा यूथं समूहः तस्य बन्धनवारिः बन्धनरज्जुः अकम्पनसूरिः समायातः । तदुपासनाय चास्य तस्य सूरेः उपासनाय पूजनाय च अस्य उज्जयिनीजनस्य महामहावहः महांश्चासौ महः महोत्सवः तम् आवहति इति महामहावहः चित्तोत्साहः। इत्याकर्ण्य प्रतुणं शीघ्रम् एतत्पादवन्दनोद्यतहृदयः एतस्य अकम्पनसूरेः पादयोर्वन्दने उद्यतं हृदयं यस्य स नपः तत्र गमनाय मिथ्यात्वप्रबलतालताश्रयकलिं त बलिम् अपृच्छत् । मिथ्यात्वस्य प्रबलता प्राचुर्य स एव लता तस्याः आश्रयकलिम् आधारभूतं बिभीतकवृक्षं बलिम् अपृच्छत् पृष्टवान् ।
[पृष्ठ ६६] सद्धर्मधुरोद्धरणगलिबलिः, देव-सद्धर्मः अहिंसाधर्मस्तस्य धूयुगं तस्या उद्धरणं निराकरणं तत्र गलि: शक्तोऽप्यपूर्वहो बलीवर्दः । बलिः एवमवदत् । देव-नेति-न वेदादपरम् अन्यत्तत्त्वम् । न श्राद्धादपरो विधिः अन्यत् धर्मकार्य न विद्यते । यज्ञात् प्राणिहिंसनात्मकात् अपरः अन्यः धर्मो न विद्यते । तथा द्विजाद ब्राह्मणादपरोऽन्यः यतिन विद्यते ॥२१८॥ सन्मार्गसर्गोच्छेदक: प्रह्लादक:-रत्नत्रयात्मको मोक्षमार्ग एव सन्मार्गः तस्य सर्ग उत्पत्तिः तस्य उच्छेदकः प्रह्लादकः एवम् अवदत्-अद्वैतेति-अद्वैतात् न । परं तस्वम् । अद्वैतम् एकमेवाद्वितीयं ब्रह्म इत्येवं तत्त्वम् । परं द्वैतादिकं मायारूपत्वात् तत्त्वं न भवति ।