________________
- पृ० ६५ ]
उपासकाध्ययनटीका
रमण्यः ललनास्तासां निकशे येषु तैः । पुनः कथंभूतः । अपरंश्च तैस्तैः विधूतपूजापर्यायपरिवारैविहायोविहारः विधृतः संवारितः पूजापर्यायाणां नित्यमहादिपूजानां परिवारो यैस्ते विहायोविहाराः नभश्चरजनाः तैः सह तं वज्रकुमारं तं भगवन्तम् अम्बरात् आकाशात् अवतरन्तम् उत्प्रेक्ष्य दृष्ट्वा भिक्षुदीक्षापटीयसी भिक्षूणां बौद्धसाधूनां दीक्षादाने पूजने पटीयसी चतुरा खलु बुद्धदासी पुण्यभूयसी पुण्यं भूयः प्रचुरं यस्याः सा प्रचुरपुण्यवतीति भावः । यस्याः सुगतसपर्यासमये बुद्धपूजावेलायां समायातं समागतं सकलमेतत्सुरसैन्यम् । इति घृतधिषणे धृता धिषणा मतियॆन तस्मिन् पौरजनान्तःकरणे नागरिकमनसि सति स भगवान्गगनगमनानीकैः साकं गगने नभसि गमनं येषां तानि अनोकानि सैन्यानि नभश्चराणां सैन्यैरित्यर्थः । औविलानिलये निलोय औविलाया महादेव्याः प्रसादे निलोय उषित्वा सावष्टम्भं सगर्वम् अष्टाह्नि नन्दीश्वरपर्वणि मथुरायां चक्रचरणं चक्राणि चरणा यस्य तं परिभ्रम अर्हत्प्रतिबिम्बा कितं जिनप्रतिमासनाथम् एकं स्तूपं तत्रातिष्ठिपत् स्थापितवान् । अत एवाद्यापि तत्तोर्थं देवनिर्मिताख्यया पप्रथे प्रसिद्धम् अभवत् । बुद्धदासी दासोवासीद्भग्नमनोरथा । किङ्करीव बुद्धदासी भग्नमनोरथा नष्टमनोऽभिलाषा बभूव । भवति चात्र श्लोक :- पूतिकस्य महीभुजः नृपस्य औविलाया महादेव्याः स्यन्दनं रथं वज्रकुमारको मुनिभ्रमयामास ।। २११ ॥
इत्युपालकाध्ययने प्रभावनविभावनो नामाष्टादशः कल्पः ।। १८ ।।
३६१
१६. बलिनिर्वासनो नामैकोनविंशः कल्पः
[ पृष्ठ ६३-६४ ] अर्थित्वम् इति - अथित्वं प्रयोजनवत्वम् । भक्तिसंपत्तिः गुणानुरागसंपत् । प्रयुक्तिः जीव दिवेषु आत्मनो योजनं श्रद्धानम् इति भावः । सत्क्रिया सम्मानः । सघर्मणां सुविधेयता दासत्वम् । सधर्मसु समानधर्मषु जनेषु सौचित्यकृतिः दानप्रियवचनाभ्यां तेषां संतोषोत्पादनम् । वत्सलता मता वात्सल्यगुणोऽभिहितः ।। २१२ ।। स्वाध्याये इति – स्वाध्याये अध्यात्मादिविद्याविषये । संयमे प्राणिसंयमे इन्द्रियसंयमे च । सङ्घे श्रावकश्राविकार्यिकामुनिषु । गुरौ दीक्षाचायें शिक्षाचार्ये च । सब्रह्मचारिणि सहाध्यायिनि । यथौचित्यं दानमानाभ्यां यथा संतोषोत्पादनं भवेत्तथा । विनयम् आदरं प्राहुः ब्रुवन्ति स्म । के कृतात्मानः कृतः ज्ञातः आत्मा जीवस्त्ररूपं यैः ते ।। २१३ || आधीति - आधिर्मानसी व्यथा । व्याधयो ज्वरादयो रोगाः तैः निरुद्धस्य पीडितस्य निरवद्येन कर्मणा पापरहितेन वैयावृत्येन औषधधनादिना सौचित्यकरणं संतोषोत्पादनम्, वैयावृत्त्यं शुश्रूषा प्रोक्तम् । किमर्थम् । विमुक्तये कर्म राहित्याय अनन्तचतुष्टयप्राप्तये || २१४ ॥ जिने इति – दुर्जयकर्मठकर्मातीन् जयतीति जिनः, अर्हन् तस्मिन् वीतरागसर्वज्ञे । जिनागमे अर्हत्प्रोक्ते द्वादशाङ्गप्रवचने । सूरौ आचार्ये । तपः श्रुतपरायणे तपः परायणे साधी, श्रुतपरायणे उपाध्याये । सद्भावशुद्धिसंपन्नः अनुरागः निष्कपटमनःशुद्धया तेषां गुणेषु अनुरागः प्रीतिः भक्तिरुच्यते ॥ २१५।। चातुर्वर्ण्यस्येति – चातुर्वर्ण्यस्य सङ्घस्य मुनिऋषि-यति-अनगारेति चतुर्भेदात्मक सङ्घस्य । यथायोग्यं तत्सद्गुणानतिवृत्त्या । प्रमोदवान् हृष्टेन मनसा वात्सल्यं प्रीतिं न कुर्यात् स समयी सधर्मा कथं स्यात् ॥ २१६ ॥ तद्द्व्रतैरिति तद्व्रतैः तत् तस्मात्कारणात् अहिंसादिभिः व्रतैः । विद्यया सम्यग्ज्ञानेन शास्त्रादिपाठनेन । वित्तैः धनैः । श्रीमदाश्रयैः, श्रीमतां धनिनाम् आश्रयैः आधारैः । शारीरैश्च शरीरसेवया च हस्तपादादिमर्दनेन मलमूत्राद्यपनयनेन च त्रिविधातङ्कसंप्राप्तान् आधिव्याधिवार्धक्यादिवाधाभिः क्लिष्टान् शारीरमानसागन्तुकाभिः पीडाभिर्दुःखितान् संयतान् मुनीन् उपकुर्वन्तु ॥ २१७॥
[ पृष्ठ ९५ ] श्रूयतामत्रोपाख्यानम् — अस्मिन् वात्सल्यगुणे उपाख्यानं कथा श्रूयताम् । [ जयवर्मनामा नृपः शुक्रादिभिश्चतुभिर्मन्त्रिभिः सह सर्वजनानन्दनं वनं गत्वा अकम्पनाचार्यमभिवन्द्य धर्मकथां शुश्रावेति कथासंक्षेपः ] अवन्तिविषयेषु अवन्तिदेशेषु । सुघेति - सुधा अमृतमेव अन्धः अन्नं येषां ते सुधान्धसः देवाः, तेषां सोवाः विमानानि तानि स्पर्द्धन्ते शाला: गृहाणि यत्र तस्यां विशालायां पुरि उज्जयिनीनगरे । जयवर्मनामा काश्यपीश्वरः काश्यप्याः पृथिव्याः ईश्वरः अधिपतिः । कथंभूतः । प्रभावती महादेवीश्रितशर्मसीमा प्रभावती नाम महाराशी तां श्रिता शर्मणः सुखस्य सीमा मर्यादा यस्य । [ चतुभिर्मन्त्रिभिः सह राज्यं पालयन् प्रजाः अन्वशात् ]