________________
३१० पं० जिनदासविरचिता
[ पृ०६३पदार्थेषु साभिलाषं मनः इच्छायुक्तं मनः अन्यथा निरभिलाषं निरिच्छम्' इति प्रतिजिज्ञासमाना प्रतिज्ञा कर्तुम् इच्छन्ती तेन सोमदत्तेन भगवता पूज्येन मुनिना तन्मनोरथसमर्थनार्थ तच्चितेच्छासफलीकरणाय अवलोकितवस्त्रेण दृष्टमुखेन वज्रकुमारेण साधुना साधु संबोधिता आश्वासिता। 'मातः, सम्यग्दशां सद्दर्शनवतीनाम् एणीदृशां हरिणनयनानां स्त्रीणाम् अवाप्तप्रथमकथे अवाप्ता लब्धा प्रथमकथा आद्यवर्णनं यया तत्संबोधनम्, हे मातः, अलम् अलम आवेगेन खेदेन पर्यतां मा स्म खेदिनी भरित्यर्थः । यतः न खल मयि समयसवित्र्याः जनजनमातः चिन्ताबहे पुत्रके सति, अर्हतां जिनेश्वराणाम् अर्हणायाः पूजायाः प्रत्यवायः विघ्नः न खलु नैव भवेदित्यर्थः । तत् तस्मात् पूर्वस्थित्या यथापूर्वम् आत्मस्थाने स्वप्रासादे स्थातव्यम् । चिन्ता न कर्तव्येति । इति हृद्यं मनोहरम्, अनवद्यं निर्दोषम्, अमृषोद्यं न मृषा असत्यं तत् च तत् उद्यं वचनं सत्यं भाषणमिति भावः ; निगद्य उक्त्वा द्युगतिधुगत्या आकाशगमनेन विद्याधरपुरम् आसाद्य प्राप्य गस्वा । महामुनितया, बान्धवधिषणतया च भ्रातृभावेन च, भास्करदेवो मुख्यो यस्मिन् तेन निखिलेन अम्बरचरचक्रेण विद्याधरसमूहेन क्रमशः कृताभ्युत्थानाादा सप्रश्रयं सविनयम् कृता अभ्युत्थानं ससंभ्रमम् आसनात् उत्थानम् अञ्जलिपुटं कृत्वा शिरसि संस्थापनम्, आदि. क्रियाः यस्य, स वज्रकुमारमुनिः आगमनस्य आयतनम् आधारं पृष्टः स्पष्टम् आचष्ट अब्रूत। [विद्याधरसमूहै: सह वज्रकुमारो मुनिः औविलाया रथं नगरे संचार्य महती प्रभावनां चकार ] कथंभूतैविहायोविहारैः विहायः आकाशं तत्र विहारः अस्ति येषां ते विहायोविहारास्तैः विद्याधररित्यर्थः। तानेव सविशेषं वर्णयति कविःतदनन्तरम् आनकाः पटहाः, दुन्दुभयः 'दुं दुम्' इति अव्यक्तशब्दं कुर्वाणा वाद्य विशेषाः तेषां नादाः रवाः, उत्तालानि उत्कटानि च तानि श्वेलितानि सिंहनादाः, तैः मखराणि वाचालानि मखमण्डलानि येषां ते तैः । पुनः कथंभूतः सामयिकेति-समयः संकेतः अस्ति येषां ते सामयिकाः अयम् अलंकारो गजस्य अयं अश्वस्य, अयं बलीवर्दस्य इत्यादि संकेतयुताः सामयिकालंकारा उच्यन्ते । तेषु सारैः उत्तमैः अलंकारैः सज्जिता ये गजवाजयः विमानानि च तेषां गमनेन प्रचलन्ति कम्पमानानि कर्णकूण्डलानि येषां ते तेः, अनेकेति-अनेके बहवः अनणुमणयः महारत्नानि तैः निमिताः किंकिण्यः क्षघण्टिकाः तासां जालैः जटिलानि ग्रथितानि च यानि दुकुलानि क्षोमवस्त्राणि तैः कल्पिता ये पालिध्वजा महाध्वजास्तेषां राजिः पक्तिः तया विराजितानि शोभितानि भुजपञ्जराणि येषां तैः, पुनः कथंभूतः । करीति-करी गजः, मकरः नक्रः, सिंहः, शार्दूलः व्याघ्रः, शरभः अष्टापदः, कुम्भीरः जलचरविशेषः, शफरः मत्स्यः, शकुन्तानां पक्षिणाम् ईश्वरः गरुड इति, एतेषां पुरःसरा मुख्या आकारा येषां ताश्च ताः पताकाः क्षुद्रध्वजाः तासां संतानाः समूहाः तैः स्तिमिताः स्तब्धाः करा येषां ते, तैः, मानस्तम्भेति-मानस्तम्भः, स्तूपः तोरणम, मणिवितानं रत्नजटितं चन्द्रोपकः, दर्पणः, सितातपत्रं श्वेतच्छत्रम्, चामराः, विरोचनः सूर्यः, चन्द्रः भद्रकुम्भः मंगलकुम्भः एतैः पदार्थः संभूताः शयाः हस्ता येषां तैः । करेषु एतान् पदार्थान् गृहीत्वाऽऽयातः इति भावः । पुनः कथंभूतः। अतुच्छेति-अतुच्छो महान् स चासो देवच्छन्दश्च हारविशेषः शतयष्टिक: तेन आच्छन्नः सर्वतो भूषितः स चासो कर्णीरथः पुरुषस्कन्धनीयमान रथः, स्यन्दनः चक्रयुक्तयुद्धप्रयोजनवान् रथविशेषः । द्विपः करी, तुरगः अश्वः, नरा मनुष्यास्तैनिकीर्णानि व्याप्तानि च तानि सैन्यानि तैः, इति । पुनः कथंभूतैः । जयघण्टया सहिताश्च ते पटुपटहाः महाभेर्यः करटा वाद्यविशेषाः मृदङ्गाः, शङ्खाः, काहलाः, त्रिविलाः, तालाः, झल्लयः भेर्यः भम्भाश्च एते आदौ येषां तानि वाद्यानि अनुगतानि यानि गीतानि तैः संगताश्च याः अङ्गनास्तासाम् आभोगः विस्तारः तेन सुभगः सुन्दरः संचारो येषां ते तैः । पुनः कथंभूतैः । कुब्जाः गडुलाः उन्नतपृष्ठाश्च, वामनाः ह्रस्वाः, किराताः घोटकरक्षकाः, कितवाः वञ्चकाः, नटाः नृपादिवेषधारिणः, नर्तका नृत्यशिक्षकाः, बन्दिनः वैतालिकाः, वाग्जीवनाः स्तुतिपाठकाः, तेषां विनोदेन आनन्दितः दिविजानां मनस्कारः यस्ते तैः, पुनः कथंभूतः । सखेलेति-सखेला: क्रीडया सहिताः ये खेचरा विद्याधरास्तेषां सहचर्यः भार्याः ताभिः हस्तेषु विन्यस्ताः गृहीताः ते च ते स्वस्तिकाश्च, प्रदीपाश्च, धूपानां निपाः घटाश्च, प्रभृतीनि विचित्राणि अर्चनानां पूजनानाम् उपकरणानि साधनानि तेषां रमणीयः प्रसारो येषां तैः । पुनः कथंभूतः । पिष्टातकेति-पिष्टातक: वस्त्रसुगन्धीकरणचूर्ण पटवासाय वस्त्रसुगन्धीकरणानि प्रसूनानि पुष्पाणि तेषाम् उपहारः बलि: तेन अभिरःमाः