________________
-पृ० ६३] उपासकाध्ययनटीका
३८६ भ्रविभ्रमेति-भ्रुवोविभ्रमो विलासः उत्क्षेपणादिकं तस्य आरम्भे शिक्षणे उपाध्यायस्थानिनि शिक्षागुरुतुल्ये । लोचनेति-लोचनयोर्नेत्रयोविचारो भ्रमणं तस्य चातुर्ये आचार्य इव तस्मिन् । चतुरोक्ति-चतुराणां दक्षाणाम् उक्तौ या चातुरी पटुता तस्याः प्रचार प्रसारे गुरुणि गुरुतुल्ये । बिम्बाधरेति-बिम्बवत् तुण्डिकाफलवत् रक्तो तावधरौ तयोविकारस्य सौन्दर्ये कादम्बर्या मदिरायाः योगे संबन्धे इव । निम्नोन्नतेतिनिम्नानि जवनादीनि उन्नतानि स्तनादीनि तेषां प्रदेशानां प्रकाशने व्यक्तीकरणे शिल्पिनि सूत्रधारे । मनसिजेति-मनसिजो मदनः स एव गजः करी तस्य मदस्य उद्दीपने पिण्डिराहारः तेन पिण्डिते पुष्टे । शृङ्गारेति-शृङगारस्य या गर्भगति: अन्तरात्मनि गतिः तस्या रहस्यस्य गूढस्वरूपस्य उपदेशके, समस्तेतिसमस्तं च तद्भवनं च तस्य मनश्चित्तं तस्य मोहने सिद्धौषधे प्रतिदिनं प्रादुर्भावस्य सामीप्यं प्राप्ते सति यौवने । सा रूपसंपन्महीयसी रूपसंपदा सौन्दर्यविभवेन महीयसी प्रवद्धा गुर्वी बुद्धदासी सोत्तालं सोत्कण्ठम् उत्तुङ्गः उन्नतः तमङ्गः प्रासादः तस्य शृङ्गं शिखरं तस्य उत्संगो मध्यभागम्तं संगता। भ्रमणिकया भ्रमणहेतुना कृतं विहारस्य मठस्य उपान्ते समीपे गमनं येन तं पतिकवाहनं राजानं सा अदर्शत् अपश्यत् । राजा च तामपश्यत् । राजा-अलकेति-इह हि बुद्धदासीरूपायां सरिति नद्यां मम मतिः अलकाश्चूर्णकुन्तलाः कुटिलकेशा: तेषां वलयं मण्डलं तदेव आवतों जलभ्रमः तस्मिन् भ्रान्ता भ्रमणखिन्ना। विलो
ina भाता भमणखिना। विलोचनेति-विलोचने नेत्र एव वीचिकास्तरङ्गाः तेषां प्रसरात् विधुरा पोडिता। स्तनद्वयसकते कुचयुगलमेव सैकतं पुलिनं तस्मिन् । त्रिवलिवलने थान्ता त्रयाणां वलीनां समाहारस्त्रिवली तस्यां वलनेन भ्रमणेन श्रान्ता क्लान्ता पुनः नाभौ निमज्जनात् ब्रुडनात् अपि थान्ता एवं मम मतिः प्रायेण मन्दोद्योगा शिथिलप्रयत्ना भवति खिन्ना भवतीति भावः वर्तते ।
[पृष्ठ ६१ ] इति राजा विचिन्त्य, चेतोभुवः मदनस्य विजम्भप्रारम्भं वृद्धिप्रक्रम निवार्य निरुध्य च, किमियं विहितविवाहोपचारा कृतपरिणयविधिः अथवा अद्यापि पतिवरा वरीतुं योग्येति भिक्षूनापृच्छ्य, तत्र द्वितीयपक्षे यदि पतिवरा तर्हि अस्मत्पक्षे अस्माकम् अधीना कर्तव्या। तया सह विवाहम् अहं करोमीति । समर्पितोऽभिलाषो यस्य तथाभूतम् आप्तपुरुषं विश्वस्तं नरं प्रेष्य प्रहित्य । रणरणकजडान्तःकरणः उत्कण्ठाजडचित्तः शरणमगात् गृहमगच्छत् । 'शरणं गहरक्षित्रा'रित्यमरः । आप्तपुरुषोऽपि विश्वस्तनरोऽपि । अग्रमहिषोपदपणबन्धेन प्रधान राज्ञोपदप्रदानस्य व्यवहारं विनिश्चित्य साध्यसिद्धि विधाय स्वामिनं राजानं तत्समागमिनं तया समागमवन्तम् अकरोत् । भवति चात्रार्या-पुण्यं वेति-जन्तुना प्राणिना यत्काले यस्मिन्काले पुरा यत् पुण्यं वा पापं वा आचरितं तत्समये तस्य पुण्यस्य पापस्य उदयकाले समागते सति तस्य जीवस्य सुखं च दुःखं च यो जपति । तं जीवं तत्पुण्यं वा पापं वा सुखिनं दुःखिनं च करोति ॥२१०॥
इत्युपासकाध्ययने बुद्धदास्याः पूतिकवाहनवरणो नाम सप्तदशः कल्पः ॥१७॥
१८. प्रभावनविभावनो नामाष्टादशः कल्पः [पृष्ठ ९१-९३] अथ समायाते इति-भव्यजनानन्दस्य संपादकानि कर्माणि पूजाभिषेकादीनि यत्र तथाभूने नन्दीश्वरपर्वणि समायाने सति । तया प्रतिप्रणयप्रेयस्या प्रतिविरुद्धा या प्रणयप्रेयसी पतिवाहनस्य राज्ञः प्रोतियुक्ता वल्लभा बुद्धदाती तया प्रतिचातुर्मास्यम् औविलादेव्याः स्यन्दनविनिर्गमेण रथयात्रया भगवतः सकल भवनोद्धरणस्थितेः सकल जगदुद्धारं कुर्वतः जिनपतेमहामहोत्सवम् उच्छेत्तु विनाशयितुम् अभिलषन्त्या, शुद्धोदनतनयस्य शुद्धोदननुपपुत्रस्य सुगतस्य इष्टयर्थ पूजार्थम् अष्टाहा अष्टदिनपर्यन्तं सकलपरिवारानुगतम् एतदुचितम् एतस्या रथयात्राया उचितं योग्यम् उपकरणजातं रथ-छत्र-चामरादिकम् अवनिपतिः राजा पूतिकवाहनः याचितः प्रार्थितः, स तथैव प्रत्यपद्यत अङ्ग्यकरोत् । उविलादेव्यपि सुभगभावात् पतिप्रियत्वात् सपत्नीप्रभवं समन्याः प्रभवः उत्तिर्यस्य तत् दौर्जन्यं दुष्टत्वम् अनन्यसामान्यम असाधारणम् अप्रतोकारम् अनुपायं आकलय्य ज्ञात्वा सोमदताचार्यम् उपसद्य प्राप्य 'भदन्त, यदि एतस्मिन् द्वित्रिदिनभाविनि द्वित्रिदिवसानन्तरं भविष्यति अष्टदिनोत्सवे पूर्वक्रमेण जिनपूजार्थ मथुरायां मदीयो रथो भ्रमिष्यति तदा मे देहस्थितिहेतुषु अन्नजलादिषु