________________
३८८ पं० जिनदासविरचिता
[पृ० ८६उभी अपि उसनेतारी मुनिसमोपं प्रापको मातापितरौ सादरं सस्नेहम उक्तियुक्तिभ्यां प्रतिबोध्य उपदिश्य अव. धीरितोभयग्रन्थस्त्यक्तबाह्याभ्यन्तरग्रन्थः, निर्ग्रन्थः चारविद्धिः समपादि चारद्धिधारक: समजायत । भवति चात्रार्या-कामविदूरे कामात मदनात् विदूरे विशेषेण दूरे रहिते नरे जाते सति, नरे कामेभ्यः सकलपरिग्रहाभिलाषाभ्यो वा दूरे जाते सति, श्रीकल्पः लक्ष्मीसदशः सुन्दरः कान्तालोकः स्त्रीणां समूहः तृणकल्पः तृणवदुपेक्षणीयः त्यक्तुं योग्यो भवति । चितः मंचितः मित्रगणः चितालोकः शवलोकवत् जायते । स्वजन: बन्धुवर्गः पुण्यजनश्च राक्षसजनो जायते ॥२०८॥
इत्युपासकाध्ययने वज्रकुमारस्य तपोग्रहणो नाम षोडशः कल्पः ॥ १६ ॥
१७. बुद्धदास्याः पूतिकवाहनवरणो नाम सप्तदशः कल्पः [ पृष्ठ ८६-६० ] पुनश्च एतस्यामेव किल मथुरायाम्, कथंभूतायां महामहोत्सवेति-महामहोत्सवे भक्त्या मुकुटबद्धः क्रियमाणा या जिनपूजा सा महामहोत्सव उच्यते तस्मिन उत्साहितानां नराणां आतोद्यानां वाद्यानां नादा ध्वनय: तैः मेदुराः प्रतिध्वनियुक्ता ये प्रासादास्ते एव कन्दरा यस्याः तस्याम्, गोचराय आहाराय चारद्धिगलं तद्वद्धिसहितं मुनिद्वयं नगरमार्गे संगतगतिसर्ग संगतो गते: गमनस्य सर्गो निश्चयो यस्य तत, एकस्मिन्नेव समये समान गत्या आहाराय निर्गतमित्यर्थः। तत्र मथुरायां द्वित्रिपरिवत्सर एव द्वौ वा त्रयो वा परि अधिका हीना वा वत्सग यस्मिन् तथाभूते अवस्थावसरे बालिकामेकां चिल्लचिकिनलोचनसनाथां चिल्लेन नेत्रमलेन चिकिने क्लिन्ने च ते लोचने नयने ताभ्यां सनाथां सहिताम् अनाथां पितृभ्यां रहिताम् आपणाङ्गणचारिणोम् आणानाम् अङ्गणं तत्र चारिणीं भ्रमन्ती पण्यवीथिकायां भ्रमणं कुर्वतीम् स्खलद्गमनविहारिणों स्खलता गमनेन विहरन्तीम निरीक्ष्य विलोक्य प्रतीक्ष्य विमर्श कृत्वा। पश्चाच्चरः पृष्ठतो गच्छन् सुनन्दनाभिधानगोचरः सुनन्दन इति नामविषयो यस्य स भगवान् पूज्यो मुनिः एवमवदत् । 'अहो दुरालोकः खलु प्राणिनां कर्मविपाकः, यदस्यामेव दशायां प्रभवति ।' अहो प्राणिनां जीवानां खलु कर्मविपाकः कृतकर्मणः पापस्य पुण्यस्य वा फलानुभव: दुरालोकः, महता कप्टेन आलोको दर्शनं ज्ञानं यस्य तत् । यत् अस्यामेव दशायां शैशवावस्थायां प्रभवति स्वफलम् आस्वादयति । इति । पुरश्चारी भगवान् अभिनन्दननामधारी--अग्रे गच्छन् भगवान् पूज्यः अभिनन्दननामा मनि:--तपःकल्पद्मोत्पादनन्दन सुनन्दनमुने मैवं वादी:--तपः एव कल्पवृक्षस्तस्य उत्पादे उद्भावने नन्दनवनमिव, सुनन्दनमुने मैवं वादी: मा एवं ब्रवीः । यद्यपीयं गर्भसम्भूता सती राजश्रेष्ठिपदप्रवृत्तं समुद्रदत्तं पितरम् अकाण्ड एव दशमी दशाम् आनीय इदमवस्थान्तरम् अनुभवन्ती तिष्ठति । गर्भे समायाता सती राजश्रेष्ठिपदम् अधिष्ठितं समद्रदत्तं जनकम अनवसर एव दशमी दशां मरणावस्थां नीत्वा इदं दुःखदं दशान्तरम् अनुभवन्ती तिष्ठति । जातमात्रतद्वियोगदुःखोपसदां धनदां मातरम् जननसमय एव तस्य पत्युविरहदुःखप्राप्तां धनदाख्यां जननीम् अनवसर एव मरणावस्थां नीत्वा इदं दशान्तरम् अनुभवन्ती तिष्ठति । प्रवर्धमाना च बन्धुजनम् अनवसर एवं मृत्युमनयत् इति पूर्वोवतः संबन्धोऽत्र ज्ञेयः। तथाप्यनया प्रोढयौवनया प्रौढं विशालं लोभनीयं यौवनं तारुण्यं यस्याः, सा तया । अस्य मथुरानाथस्य ओविलादेवी विनोदावसथस्य औविलादेव्याः कृताभिषेकाया महिप्या विनोदावसथस्य क्रोडागृहभूतम्य पूतिकवाहनस्य महीनस्य पृथ्वीपतेः अग्रमहिप्या प्रधान राज्या भवितव्यम् । इत्यवोचत् । एतच्च तत्रैव प्रस्तावे पिण्डपाताय तत्रैव मथुरानगर्यां प्रस्तावे अवसरे समय पिण्डपाताय आहारग्रहणाय भिक्षाय हिण्डमान: भ्रमन् शाक्यभिक्षुः बुद्धसाधुः उपश्रुत्य आकण्यं 'नान्यथा मुनिभाषितम्' न भवेत् यतिवचनम् अन्नम् इति निर्विकल्पं निःसंशयं संकल्प्य विमश्य । स्वीकृत्य चैनाम् अभिका बालिकाम् । आहितविहारवसतिकाम आहिता स्थापिता विहारवसतिकायां बौद्धमठस्थाने या ताम बौढमठे ता संस्थाप्येति भावः, अभिलषितेति-अभिलषितानाम् अभिप्रेतानाम् अनुहार: आनयनं येषां तैः आहारैः अवीवधत् तां बालिकां समवर्धयत् पोषयति स्म। परिजनपरिहासापेक्षेण गोत्रेण नाम्ना बुद्धदासीति आजुहाव व्याजहार । (ततः गतेषु के.पुचिद्वर्षेषु यौवने प्राप्ते तां राजा अपश्यत् इति वर्णयति ) कथंभूते योवने । भ्रमरकेति-भ्रमरको नाम नृत्यविशेषः तस्य भङ्गः पद्धतिः तस्य अभिनयप्रदर्शने भरते नाट्याचार्ये । पुनः कथंभूते ।