________________
- पृ० ८ ]
उपासकाभ्ययनटीका
३८७
विहायश्चर्य : विद्याधर स्त्रियः ताभिः परिमलनेन मर्दनेन म्लानानि ग्लानि प्राप्तानि मृणालानि बिसानि कमलनालानि जलजानि च यत्र, पुनः कथंभूतं स्थानम् । अशोकेति - अशोकतरोः पल्लवानां शय्यासु दयितेन त्या आसाद्यं प्राप्यं यद्विद्याधरीसुरतं तस्य परिमलेन सुगन्धेन बहलं विपुलम् इदं लताकुञ्जस्थानम् इति निध्यायन्, पुनश्च कन्दुकेति — कन्दुकविनोदः गेन्दुकक्रीडा तस्मिन् परिणतास्तत्परा या अम्बरचर्यः स्वग्यः तासां चरणालक्तकेन पादलिप्तयावकेन अङ्कितं चिह्नितम् अद: स्थानम् । तमालमलानाम् आवलयं मण्डलं यत्र तथाभूतमिदम् । इदं रमणीयम् मन्मनोहरमदः, अदश्च सुन्दरम् अटनीघ्रतटं मेखलाघरतटस्थानं मनोहरम् । इति निध्यायन् पश्यन् चिन्तयन् वा । समेति - समाचरितः विहितः स्वैरविहारो येन, पुनः प्राप्तो हिमवद्गिरेः प्राग्भारः अग्रभागो येन सः । वज्र कुमार: मायाजगरेण निगीर्णां विद्याधरकन्यां पवनवेगां संरक्षितवान् । [ कस्य विद्याधरपतेरियं पवनवेगेति वर्ण्यते ] खेचरीति - खेचरीलोचनानां चन्द्रवदाह्लादकस्य चन्द्रपुरेति नगरस्येन्द्रः स्वामी, यश्च अङ्गवती युवत्याः प्रीतेर्धाम गृहं तस्य गरुडवेगनाम्नः विद्याधरपतेः अतिशयरूपस्य पात्री भाजनभूतां प्रियपुत्र पवनवेगां नाम असंगां सख्यादिपरिवाररहिताम् । प्रालेयेति - प्रालेयं हिमं तेन उपलक्षितः अचलः पर्वतः हिमाभिधः शैलः तस्य मेखलायां नितम्बे यत्खलतिकं नाम वनं तस्य लतालये निलीनाङ्गां निलोनं स्थितम् अङ्गं यस्याः सा ताम् । पुनः कथंभूतां तां बहुरूपिणो इति नाम्नः निषद्या स्थापना यस्यां सा ताम् अनवद्यां निर्दोषां विद्यामाराधयन्तीम्, अनयैव विघ्ननिघ्नया विघ्नं कुर्वत्या जातं अजगररूपं यस्यां तथाभूतया विद्यया निगीर्णवदनां निगीर्ण गिलितं वदनं मुखं यस्यास्ताम् उपलक्ष्य दृष्ट्वा परोपकारचतुरः तार्क्ष्यविद्यया गरुडविद्यया एतस्याः लपनं मुखं तेन आविलं भूतं तालु यस्य तं मायाशयालुं मायाजगरं वित्रासयामास पीडयामास । पवनवेगा तत्प्रत्यूहाभोगापगमानन्तरमेव तस्य मायाजगरस्य प्रत्यूहो विघ्नस्तस्याभोगो विस्तारः तस्य अपगमो विनाशस्तस्य अनन्तरमेत्र विघ्ननाशक्षण एव विद्यायाः सिद्धि प्रपद्य प्राप्य 'अवश्यं इह जन्मनि अयमेव मे कृतप्राणत्राणावेशः कृतः विहितः प्राणत्राणस्य असुरक्षणस्य आवेशः प्रयत्नो येन स वज्रकुमार एव प्राणेशः प्राणनाथ:' इति चेतसि अभिनिविश्य निश्चयं कृत्वा पुनः अस्यैव नीहारमहीधरस्य नीहारो हिमं तस्य महीधरः पर्वतः हिमाचल: तस्य नितान्तम् अतिशयेन तीरिणीपर्यन्ते नद्यास्तटे सूर्यप्रतिमाम् आतापनयोगं श्रितवतः धृतवतः भगवतः पूज्यस्य । तप इति -पोमाहात्म्येन कृतसकलप्राणिव्यसननाशस्य संयतस्य संयमिनो मुनेः पादपोठोपकण्ठे चरणासनसमोपे पठतः तव सेत्स्यति सिद्धि यास्यति इत्युपदेशवशेन अभिनवमाराय अभिनवो नूतनः स चासो मारो मदनः तस्मै वज्रकुमाराय गगनेति-गगने गमनं येषां तेषां विद्याधराणां या अङ्गनाः स्त्रियः तासां विद्याधरस्त्रीणां जीवितभूताम् अभिमतेति-अभिमतः अभिलषितः स चासो अर्थश्च तस्य साधने पर्याप्तिः पूर्णता यस्यास्तां प्रज्ञप्ति विद्यां वितीर्य दत्त्वा निजनगर्यां पर्यटन् वज्रकुमारः तथैव तत्सूरिसमक्षं फेनमालिनीनदीतटे विद्यां प्रसाध्य असाध्यसाधनेन प्रवृद्धविक्रमः अक्रमेति - अक्रमेण अन्याय्येन विक्रमेण शौर्येण अल्पी - भूतदैवं पुरंदरदेवं पितृव्यं पितुर्भ्रातरम् अव्याजम् अनिमित्तम् उच्छिद्य सद्यस्तत्क्षण एव तां विजयोत्सवपरम्परावतीम् अमरावतीं पुरं नगरीम् आत्मपितरं स्वतातम् अखिलगगनचरैः विहितपादसेवं भास्करदेवं स्थापयित्वा वश्येन्द्रियः स्वयंवर निमित्तेन कृताभिलषितवल्लभसमागमाम्, मदनसमागमसंजातशृङ्गारसुन्दरां पवनवेगाम् अन्याश्च खेचरपतिकन्याः परिणोय भाग्यवतां धुर्यः नभोगामिनः संकल्पमात्र लब्धस्तैस्तैः अलब्धपूर्वै विलासः समयं
गमयामास ।
[ पृष्ठ ८६ ] अन्यदा पुनः इष्टा अभिप्रेता सुहृदादयस्तेषाम् प्रज्ञया तया दुष्टा मत्सरिणः ये ज्ञातय गोत्रिणो जनाः तेषां अवज्ञया अवहेलनेन आत्मनः स्त्रस्य परैधित्वं परेण एधित्वं वर्द्धनं पोषणं च अवबुध्य ज्ञात्वा निजाम्यनिश्चये स्ववंशनिर्णये सति शारीरेषु उपचारेषु स्नानान्नपानादिव्यवहारेषु प्रवृत्तिरन्यथा निवृत्तिः इति विहितप्रतिज्ञः । ताभ्यां मातापितृभ्यां महेति — महान्तश्च ते मुनयः महामुनयः सप्तर्षयः तेषां माहात्म्ययुक्तः प्रभाव संपन्नः यो मन्त्रः तेन वित्रासिताः भयं प्रापिताः दुष्टा ईतयः रोगादिबाधाः ता एव निशाचरा राक्षसा यत्र तथाभूतायां मथुरायां तपस्यतः सोमदत्तस्य भगवतः सनीडे समीपे नोतः । तदङ्गमुद्राप्रायं मुनिशरीराकृतितुल्यम् आत्मकार्य स्वदेहम् अवसाय निश्चित्य संजातानन्दनिकायः उद्भूतप्रमोदवृन्दः तौ