________________
३८६ पं० जिनदासविरचिता
[पृ०८७अस्माकम् इति अस्मदीयः स चासो वंशश्च तस्य विशालतां विस्तृति विदवातीति विशालताविधायि तच्च तत्पात्रं च अस्मदीयान्वयस्य प्रसिद्धिविधाने पात्रं योग्योऽस्तीति अभिधायोक्त्वा, विधाय च यथावत्तस्य भगवतः पर्यपा. सनम्, पूजनम्, पुनरत एव अस्मादेव सोमदत्तगुरोः महतः माहात्म्यवतः अधिगतं लब्धं च एतदपत्यं बालोऽयमिति वृत्तान्तः येन स नभश्चरपतिः भावपुरं निजभगिनीपतिनगरम् अनुससार ययाविति भावः ।
[पृष्ठ ८७] भवति चात्र श्लोकः-अन्तःसारेति-अन्तः आत्मनि सारो बलम् उपसर्गसहनसामध्यं येषु तानि अन्तःसाराणि तादृशि शरीराणि येषां ते अन्तःसारशरीराः तेषु महापुरुषेषु । अहितेहितम् अहितानाम् अरीणाम् ईहितं चेष्टितम् उपसर्गादिकं दुष्कृत्यं हितायव भवति। महापुरुषाणां गुणप्रादुर्भावकारणं भवति । अग्निसंयोगः तदश्मनि स्वर्णपाषाणे स्वर्णत्वाय हेमप्रादुर्भूत्यै कि न स्यात् । अपि तु स्यादेव ॥२०७॥
इत्युपासकाध्ययने वज्रकुमारस्य विद्याधरसमागमो नाम पञ्चदशः कल्पः ॥१५॥
१६. वजकुमारस्य तपोग्रहणो नाम षोडशः कल्पः [पृष्ठ ८७-८८] वज्रकुमारो यौवनेनालंचक्रे इति संबन्धः । कथंभूतः सः । पुनरिति-पुनः बालभावात् शैशवात् शोणा ताम्रा छाया कान्तिः यस्य कायस्येति, क इव कङ्कल्लिपल्लव इव अशोकतरुकिसलय इव, धातकीति-मुभिक्षाभिषतरुपुष्पगुच्छ इव, अरुणमणिभिः पनरागमणिभिः निर्मित: कन्दुक इव गेन्दुक इव बन्धूनां संबन्धिजनानाम् । पुनः कथंभूतः । आनन्दितेति-आनन्दितम्, निरीक्षितम् इतस्ततो वीसां कुर्वत्, अमृतपोथम् अमृतं जलम्, दुग्धं घृतं च तत्पानं कुर्वाणम्, मन्थरं मन्दं मन्दं वलितं कुर्वाणं मुखं यस्य, सखेलं क्रीडया हस्तपरम्परया संचार्यमाणः नीयमानः, क्रमेण उत्तानशयः उन्मुखशयनम्, दरहसितम् ईषत्स्मितम्, जानुभ्यां चंक्रमणं रिवनम् ऊरुजङ्घयोर्मध्यभागाभ्याम, गद्गदालापः अस्पष्टभाषणम्, स्पष्टक्रिया च अस्खलितगमनभाषणादिकं च एतत्पञ्चकस्थाम् अवस्थां दशाम् अनुभूय, स वज्रकुमारः यौवनेनालंचक्रे । क इव केन । यथा मरुमार्गः म्रियते पिपासया यस्मिन्महः स चासो मार्गः निर्जल: पन्थाः छायावता पादपेन अलंक्रियते, छायापादपो यथा छायाप्रधानस्तय॑था जलाशयेन शोभते, स च जलाशयो यथा कमलाकरेण कमलवनेन, सच कलहंसनिवहेन मरालविहगवृन्देन, कलहंसनिवहो यथा रामासमागमेन, स च रामासमागमः युवतिजनसंगः स्मरलोलायितेन मदनक्रीडनेन, तरुणीजनो युवतिसमूहः तस्य मन एव मगो हरिणस्तस्य प्रमदवनेनेव आनन्ददेन उपवनेनेव यौवनेन तारुण्येन स वजकुमारः अलंचक्रे शशभे। ( तदनु वजकुमारः मामस्य दुहितरम् इन्दुमती परिणीय मायाविनम अजगरं पवनवेगां पीडयन्तं वित्रासयामास इति संबन्धोऽत्र ज्ञेयः ) तदनु यौवनप्राप्त्यनन्तरं कथंभूतो वज्रकुमारः । बाढमिति-बाढम् - अतिशयेन प्ररूढम् उद्भूतं तच्च तत् प्रौढं प्रवृद्धं यौवनं तारुण्यं तस्य अवतारसारो आगमनसामर्थ्य यस्मिन् सः पुनः कथंभूतः । पितु. मातुश्च वंशयोः निवेशः निवासो यासां तथाभूताभिः अनवद्याभिः निर्दोषाभिः विद्याभिः प्रबलितप्रतापगुप्तः प्रकृष्टसामर्थ्यविक्रमेण गुप्तः रक्षितः, ततश्च । प्राप्तति-प्राप्तं लब्धं खचरलोकात् नभोगाभिजनात् आधिक्यं श्रेष्ठत्वं येन सः, ( मामस्य कन्यां पर्यणयत् ) किं नामधेयस्य मामस्य । सुवाक्येति-वाक्यमूर्ति इति नाम्नः धामस्य गृहभूतस्य मामस्य जननीभ्रातुः। कथंभूतां दुहितरं पर्यणयत् । मदनेति-मदनस्य कामस्य यो मदः उद्रेकः तेन पण्यं स्तव्यं यत्तारुण्यं तस्य लावण्यमेव अरण्यं तत्र वनदेवतावतारस्य वसुमतीव भूमिरिव ताम् इन्दुमती दुहितरं सुतां परिणीय विकाह्य, मणिकुण्डलादयः पुरःसराः अग्रगा येषु तः नभश्चरकुमारैः खचरपुत्रः अनुगतः विजयाप्रमहीधरम् अध्यास्तेति संबन्धः । कथंभूतं विजयाधम् । पूर्वापरेति-पूर्वश्च अपरश्चामू पूर्वापरो तो च तो अवारपारी समुद्री पूर्वापरावारपारो तयोस्तरङ्गा वीचयः तैः दन्तुरा उन्नता व्याप्ता वा कन्दराः गुहाः ताः परतीति परः तं पुनः कथंभूतम् । क्रीडेति-क्रीडायाः रसः प्रीतिः तस्या वर्धनेन उदरम उत्कटम् । विजयामिहीधरम् अध्यास्य उपविश्य, तस्य विजयाधस्य नानास्थानानि निध्यायन मायाशय (वित्रासयामासेति संबन्धं दर्शयति ।) विहायश्चरीति-विहायः आकाशं तत्र चरो गमनं यासां ताः