________________
-पृ० ८६]
उपासकाध्ययनटोका मन्मन इति-मम मनः मन्मनः तदेव वनम् अरण्यं तस्य दाहे दहने दावपावकः, दावोऽरण्यं तस्य पावकः अग्निरिव तत्संबोधनम्, निःस्निग्ध दुर्विदग्व नष्टप्रीते दुर्विदग्ध खलचतुर, यदि चेत् इमं पुरोऽवस्थितं दिगम्बरप्रतिच्छन्दं नग्नरूपम् अवच्छिध त्यक्त्वा, स्वच्छया निर्मलया इच्छया आगच्छ, नो चेत् गहाण स्वीकुरु एनम् इमम् आत्मनो नन्दनं पुत्रम् । इति व्याहृत्य भाषित्वा अस्य ऊर्वज्ञोः उत्थितकायोत्सर्गस्य भगवतः पुरतः शिलातले बालकम् उत्सृज्य मुक्त्वा विहार निजं निवासम् । जगाम स्वकीयमावासम् । भगवानपि तेन सुतेन पुत्रेण दृषदः शिलायाः प्लोषोत्कर्षकलुषत्वात् प्लोषस्य दाहस्य उत्कर्षः तीव्रता तेन कलुषत्वं श्यामीभूतता तस्मात्, विष्टरीकृतचरगवर्गः आसनोकृतपदयुगः सोपसर्गः सोपद्रवः तथैव पूर्ववदेव अवतस्थो तिष्ठति स्म ।
[पृष्ठ ८६ ] अत्रान्तरे अस्मिन् प्रसंगे ( त्रिशङ्कर्नाम खगपति: भास्करदेवाय राज्यं दत्त्वा संयमी अजायत ) कथंभूतः स त्रिशङ्कर्नपः । विजया/त्त रश्रेण्याममरावतीनगरीपतिः । कथंभूतस्य विजयार्धपर्वतस्य । सहेति-सहचरैः सखीजनैः, अनुचरैः दास्यादिभिः सह संचरन्त्यस्ताः खेचर्यः विद्याधराङ्गनास्तासा चरणानां पादानाम् अलक्तकेन यावकेन रक्तानि लोहितानि रन्ध्राणि यस्य, तथाभूतस्य विजया इति तटीध्रः पर्वतः तस्य विजयार्धतटीध्रस्य, उत्तरश्रेण्याम्, कथंभूतायाम् । दयितेति-दयितात् पत्युः अविदूरा समीपवर्तिनी या विद्यावरी खचराङ्गना तस्या विनोदेन नर्मभाषणेन विहारेण च परिमलिता सुगन्धोभूता कान्तारधरणी वनभूमिः यस्याः तस्याम् उत्तरश्रेण्याम अमरावतीनगरीपरमेश्वरः सुमङ्गलाभिधाना या अबला ललना तस्या वरः भर्ता । कथंभूतः त्रिशङ्कन पः । प्रकामेति-प्रकामं यथेप्सितं निखाता राज्याच्च्याविताश्च ते अरातयः शत्रवश्च तेषां कान्ताः सुन्दर्यः तासाम् आशयश्चित्तं तत्र यः शोकजनने शङ्करिव शल्य इव त्रिशङ्कर्नाम नृपतिः । समरेति-समरावसरे युद्धसमये अभिसरन्तोऽभिद्रवन्तः ये सपत्नाः शत्रवस्तेषां संतानो वंशस्तस्य अवसानं विनाशः तत्करणे साराः बलोयांसः ये शिलोमुखा बाणा: यस्य, तथाभूतः स नृपः राज्यसुखम् अनुभूय, जिनागमादवगतसंसारशरीरभोगवैराग्यस्थितिः यतिः साधुर्बुभूषुः, भूगोचरसंचाराय भूमि विषये संचारो भ्रमणं यस्य तस्मै हेमपुरेश्वराय हेमपुराधीशाय कथंभूताय । समस्तेति-समस्ताः सकलाश्च ते महीशाः राजानः तैः मान्यं शासनं यस्य तस्मै बलवाहननामधेयाय नपाय सुदेवी सुताम्, ज्येष्ठाय पुत्राय च भास्करदेवाय च राज्यं प्रदाय वितीर्य सुप्रभमूरिसमीपे संयमी यतिरजायत । ततो गतेषु कतिपयेषु चिद्दिवसेषु विहितः कृतः राज्यापहारो यस्य । केन राज्यापहारः कृतः पुरंदरदेवेन कथंभूतेन । समुत्साहितः धनादिदानेन उन्नति नीतः आत्मीयानां स्वसंबन्धिनां वीराणां समूहो येन तेन, पुनः कथंभूतेन । स्वदोरिति-निज भुजयोदर्पण विद्या सामर्थ्ययुतसैन्यवृन्देन, दुविनीताः दुःशिक्षिताः खलास्तेषु वरिष्ठेन ज्येष्ठेन लघिठेन भ्राता पुरंदरदेवेन विहितराज्यापहारः परिजनेन समं स भास्करदेवः तत्र बलवाहनपुरे अमरावतीपुरे शिबिरं स्वसैन्यं संस्थाप्य मणिमालया राज्या सह तं सोमदत्तं भगवन्तम् उपासितूं पूजयितुम आगतः। तत्पादमूले स्थलकमलमिव तं बालकमवलोक्य 'अहो महदाश्चर्य महदद्भुतम्, यतः कथमिदम् अरत्नाकरमपि रत्न रत्नाकरे समुद्रे अजातमपि रत्नमिव, अजलाशयमपि कुशेशयं जलाशये तडागे अजातमपि कुशेशयमिव कमलमिव, अनिन्धनमपि तेजःपुजम् इन्धनरहितमपि तेजःपुञ्जम् अङ्गकान्तिसहितम् , अचण्डकरमपि उग्रत्विषं न चण्डाः तीक्ष्णाः कराः किरणा यस्य तथाभूतमपि उप्रत्विषं तीव्रकान्तिम् । अनिलामातुलमपि कमनीयम् ( ? ) न इलामातुल: अनिलामातुलः इलामातुलश्चन्द्रः इला चन्द्रस्य स्नुषा । चन्द्रस्तस्या मातुल: इलामातुलश्चन्द्रः स वजकुमारोऽचन्द्रोऽपि चन्द्रवत् कमनीयः इति भावः । अपि च कयमयं बालपल्लव इव पाणिस्पर्शनापि म्लायमानलावण्यः बालकिसलय इव कराशेनापि म्लायमानं कान्तिहीनं लावण्यं सौन्दर्य यस्य तथाभूतः । कठोरोमणि तीव्रातपतप्ते पाषाणे वज्ररचित इव रिरंसमानमानसः क्रोडमानमनाः, मातुरुत्संगगत इव सुखेनास्ते जनन्या अङ्कगत इव आमोदेन वर्तते इति । एवं कृतमतिविहितविमर्शः स भास्करदेवः "प्रियतमे वल्लभे कामम् अतिशयेन स्तनंधयधतमनोरथायाः स्तनं धयति पिवतीति स्तनंधयो वालः तस्मिन्धनो मनोरथोऽभिलायो यया सा तस्यास्तव अयं भगवतः सोमदत्तमुनेः प्रसादात् कृपायाः सम्पन्नः लब्धः सर्वलक्षगोपपन्नः सकलसामुद्रिकशुभलक्षणलक्षितः वज्रकुमारो.नाम
४६