________________
३८४ पं० जिनदासविरचिता
[पृ०.८५-- मनोरथं अयथार्थपथं पूरयितुं अशक्यौपायम् अस्माकं मनो दुन्वत् अव्यर्था सफला प्रार्थनस्य स्पृहायाः कथा यस्मिन् सः तं कथं करिष्यामि । अस्या दोहदपूर्तिः अकाले उद्भूतत्वात् कथं मया कर्तुं शक्येति भावः । इत्याकुलमनाः परिच्छदच्छात्रतन्त्रानुपदः परिच्छदः परिवाररूपः स चासौ छात्रः शिष्यः स एव तन्त्र अर्थसाधकः तम् अनुसत्य पदानि यस्य सः। पुनः कथंभूतः सातपत्रपदत्राणः, आतपत्रं छत्रं पदत्राणे उपानही तेषां समाहारः आतपत्रपदत्राणं तेन सहितः सातपत्रपदत्राणः, पुनः कथंभूतः। तदिति-तासां माकन्दमञ्जरीणां तत्फलानां च गवेषणे अन्वेषणे या धिषणा बुद्धिः तस्यां परायणः सन् इतस्ततः व्रजन् गच्छन् जलेति-जलवाहिनी नाम नद्यास्तटसमीपे निविष्टं स्थितं प्रतननं विस्तारो यस्य तस्मिन् महति कालिदासकानने ( सुमित्रेण मुनिना अध्यासितमूलतलश्चूतवृक्षः सोमदत्तेन विलोकितः प्रथमं तावत् सुमित्रं मुनि वर्णयति कविः ) कथंभूतेन सुमित्रेण । परमेति-परमतपश्चरणाचरणेन शुचि पवित्रं शरीरं यस्य तेन । पुनः कथंभूतेन । निशेषेति-निःशेषम् अखिलं तच्च तच्छ्र तं द्वादशांगम् श्रुतज्ञानं तस्य श्रवणेन । गुरुमुखात् प्रसृतः प्रकटीभूतः मनस्कारो निश्चयो यस्य तेन । पनः कथंभूतेन । समस्तेति-समस्तानि सकलानि तत्त्वानि जीवाजीव दीनि सप्त तेषां निरूपणं यस्मिन स चासो स्वाध्यायस्तस्य ध्वनिः स एव सिद्धौषधिः तस्याः सविधतया सामीप्येन साधितः वशीकृतः वनदेवतानां निकरः समूहो येन । मूर्तिमतेव शरीरवतेव धर्मेण, पुनः कथंभूतेन । विनेयेति-विनेयाः विनेतुं शिक्षितुं योग्याः विनेयाः उपासकाः त एव दैधिकेयानि दीधिकायां जातानि दैधिकेयानि कमलानि तेषां मित्रेण सर्येण उपासककमलसूर्येणेत्यर्थः । सुमित्रेण मुनिना 'सुमित्र' नामवता यतिना अलंकृतालवालवलयम् अलंकृतं शोभितं आलवालवलयं वृक्षमूले जलधारणार्थ यन्मृद्वेष्टनं तस्य वलयं मण्डलं यस्य तम् एकं चूतम् आम्रतरुम् अवलोक्य दष्टवा, कथंभूतम् । एतद् ब्रह्मवर्चसमाहात्म्यात् ब्रह्मणः ब्रह्मचर्यपूर्वकतपसो वर्चसं तेजस्तन्माहात्म्यात् आमूलचूलं वृक्षतलमारम्याग्रावधियावत् उल्लसल्लवलीफलगुलुच्छस्फीतम् उल्लसन्ती विकसन्ती या लवली लताविशेषस्तस्याः फलानां गुलुच्छानि गुच्छाः तद्वत् स्फीतं समृद्धं आम्रफलगुच्छसमृद्धं विलोक्य, च्छेकच्छात्रहस्ते च्छेको विदग्धः चतुरः स चासौ छात्रश्च शिष्यस्तस्य हस्ते कलत्रस्य भार्यायाः पिकप्रियप्रसवफलप्रतोली पिकानां कोकिलानां प्रियाः पिकप्रियाः प्रसवाः पुष्पाणि यस्य स आम्रतरुः तस्य फलानि तेषां प्रतोली गुच्छं प्रहृत्य आदाय, ततो भगवतः पूज्यस्य सुमित्रमुनेः धर्मश्रवणावसरप्रयत्नात् कथंभूतात्प्रयत्नात् । अवधीति-अवधिः अवधिज्ञानं स एव पयोधिः समुद्रः तस्य मध्ये संनिधोयमानाः निधिरूपेण भासमानाः सकलाश्च ते कलापाः समूहाः तैयुक्तानि रत्नानि सम्यग्दर्शनादीनि यत्र तस्मात् धर्मश्रवणावसरप्रयत्नात् धर्माकर्णनसमयप्रयत्नात् ( जातजातिस्मरणः सोमदत्तो मुनिर्बभूव ) भवान्तरं पूर्वजन्म आकर्ण्य । कथंभूतम् धर्मश्रवणसमये प्रसंगात् समायातं प्राप्तम्, पुनः कथेभूतं । सहस्रारकल्पे द्वादशस्वर्गे सूर्यविमानसंभूतं सूर्यास्यविमाने जातं सूर्यचराभिधानानुगतं सूर्यचरदेव इति नामानुसृतम् अत्यल्पविभवपरिप्लुतम् अतिस्तोकसंपद्युतम् आत्मगोचरं स्वविषयं भवान्तरं जन्मान्तरं श्रुत्वा उदीर्णजातिस्मरभावः उद्भूतपूर्वभवस्मरणः स्वप्नसमासादितसाम्राज्यसमानसारात् संसाराद्विरज्य स्वप्ने समासादितं लब्धं यत्साम्राज्यं तेन समान: सारः बलं यस्य तस्मात् संसाराद्विरज्य विरक्तो भत्वा, मनोजविजयप्राज्यां मनोजो मदनः तस्य विजयः तेन प्राज्याम उत्कृष्ट प्रव्रज्यां जिनदीक्षाम् आसज्य संप्राप्य, प्रबुद्धसिद्धान्तहृदयः ज्ञातसिद्धान्तरहस्यः मगधविषये सोपारपुरस्य पर्यन्ते समीपे धाम निवासो यस्य तस्मिन् नाभिगिरिनाम्नि महीधरे पर्वते सम्यग्योगो निर्दोषः योगो मनोवाक्कायैकाग्रयं यस्मिन् तथाभूतो य आतापनयोगः ग्रीष्मों रविकरसंतप्तशिलायां कायोत्सर्गेण स्थित्वा आत्मचिन्तनं तं धरतीति सम्यग्योगातापनयोगधरो बभूव । तदन सोमदत्तस्य दीक्षाग्रहणदिनमारम्य तद्वियोगातकोवृत्तचित्ता तस्य सोमदत्तस्य वियोगो विरहः स एव आतङ्को रोगो ज्वरो वा तस्मात् उदृत्तम् अनवस्थितं चित्तं यस्याः सा, यज्ञदत्ता तदन्तेवासिभ्यः तस्य सोमदत्तस्य अन्तेवासिभ्यः शिष्येभ्यः आत्मखेदकरं सोमदत्तवतव्यतिकरं सोमदत्तस्य व्रतग्रहणस्य व्यतिकरं वार्ताम् अनुभूय श्रुत्वा, प्रसूय च समये स्तनन्धयं बालकम्, पुनस्तमादाय गृहीत्वा प्रयाय च गत्वा च तं भूमिभृतं पर्वतं नाभिगिरिम्, [यज्ञदत्ता तं मुनि वचननिर्भत्स्यं तस्य पुरो देशे शिलातले बालकं मुक्त्वा गृहं जगाम] 'अहो कुटकपट कुटयति दग्धीकरोति कपटं यस्य तत्संबोधनं हे कूटकपट, कपिकट कपिवत् मर्कटवत् कटौ कपोलो यस्य तत्संबोधन हेक पिकट इति,