________________
३८३
-पृ०८५]
उपासकाध्ययनटीका वारिषेण, पर्याप्तम् अत्रावस्थानेन, अत्रालम् उपवेशनेन । प्रकामम् अतिशयेन शकलितं खण्डितं कुसुमास्त्रस्य मदनस्य रहस्यं गूढस्वरूपं येन तत्सम्बोधनम्, हे वयस्य हे सखे, इदानीमधुना, यथार्थनिर्वेदावनिः यथार्थः वस्तुभूतः निर्वेदः विरक्तिभावः तस्य अवनिः स्थानम् अहं मनोमुनिरस्मीति सनसा मुनिः भावेन मुनिरस्मि इति च अवधाय विज्ञाय, विशद्धहृदयौ तौ द्वावपि चेलिनीमहादेवीम अभिनन्द्य, उपसद्य च गरुपादोपशल्य गुरुचरणसमीपम् उपसद्य स्थित्वा च निःशल्याशयो मायामिथ्यात्वनिदानशल्यरहिताभिप्रायो साधु तपश्चक्रतुः । भवति चात्र श्लोकः-सदतीति-कृतत्राणः कृतं त्राणं रक्षणं येन स वारिषेणः सदतीसंगमासक्तं । तपस्विनं पुष्पदन्तं संयमे स्थापयामास ॥२०२॥
इत्युपासकाध्ययने स्थितिकारकीर्तनो नाम चतुर्दशः कल्पः ॥१४॥
१५. वज्रकुमारस्य विद्याधरसमागमो नाम पञ्चदशः कल्पः [ पृष्ठ ८२ ] चैत्यैरिति-चैत्यः जिनबिम्वः, चैत्यालयः जिनमन्दिरः विविधात्मकः ज्ञानः व्याकरणकाव्यन्यायधर्मशास्त्राणां ज्ञानैः, विविधात्मकैः तपोभिः अनशनादिद्वादशविधस्तपोभिः, पूजामहाध्वजाद्यश्च नित्यपूजा, अष्टाह्निकपूजा, इन्द्रमहपूजा महामहपूजादिभिः मार्गप्रभावनां कुर्यात् जिनधर्म प्रभावयेत् ॥२०३॥
[पृष्ठ ८३ ] ज्ञाने, तपसि, पूजायाम् । केषां यतोनां यः असूयति मत्सरं करोति मुनीनां ज्ञानम्, तपः उपासनां च दृष्ट्वा यो दुर्धीः असूयति तेषां गुणेभ्यः द्रुह्यति नूनं सत्यमेव तस्यापि स्वर्गापवर्गभूलक्ष्मोः सुरेन्द्रलक्ष्मीः तथा अपवर्गभूलक्ष्मोः मोक्षभूमिलक्ष्मीः असूयति मत्सरं करोति उभे ते लक्ष्म्यो तस्मान्नराद् दूरं तिष्ठतः इति भावः ॥२०४॥ समर्थ इति-यो धार्मिको नरः चित्तेन धैर्यादिना ज्ञानेन वा, वित्तेन धनधान्यवस्त्रादिदानेन इह अस्मिन्देशे समर्थः सन्नपि अशासनभासक: शासनस्य जिनधर्मस्य भासकः प्रभावनाकारको न स्यात् स चित्तवित्ताभ्यां समर्थः सन्नपि अमुत्र परलोके न भासकः भासको न भवति । तस्य स्वर्गादिलक्ष्मीर्वशा न भवतीति भावः ॥ २०५ ॥ तद्दानेति-तस्मात् दानश्चतुर्विधः, ज्ञान: आध्यात्मिकैरागमजैश्च विज्ञानः, चतुःषष्टिकलानां ज्ञानः, महामहमहोत्सवैः महामहादिपूजाविशेष: धनिकै राजभिश्च क्रियमाणैः एहिकापेक्षयोज्झितः अहं देवः स्यामहं वसुमतीपतिः स्यामिति इहलोकसंबन्धिधनाद्यभिलाषया मुक्तः धार्मिकः दर्शनोद्योतनं कुर्यात् दर्शनस्य प्रकाशनप्रभावनां कुर्यात् ॥२०६॥ .
[पृष्ठ ८४-८५] श्रूयतामत्रोपाख्यानम्-अंत्र प्रभावनागुणे आख्यानं प्रसिद्धा कथा श्रृयताम् आकर्ण्यताम् व्रजकुमारस्य कथां शृण्वन्तु जना इति भावः । पञ्चालदेशेषु श्रीमदिति-श्रियानन्तचतुष्टयलक्ष्म्या युक्तस्य पार्श्वनाथपरमेश्वरस्य यशःप्रकाशनपात्रे अहिच्छत्रनामनगरे चन्द्राननाख्या या अङ्गना नारी सा एव रतिः तस्याः कुसुमचापस्य मदनस्य द्विषन्तपस्य तन्नामधेयस्यं भूपतेः सोमदत्तो नाम पुरोहितोऽभूत् । कथंभूतः सः उदितोदितकुलशीलः प्रति पुरुषम् अधिकाधिकतया प्राप्तोदये उन्नति प्राप्ते कुलशीले वंशसदाचारी यस्य सः षडगे वेदे शिक्षा-कल्प-व्याकरण-निरुक्त-ज्योतिष-च्छन्दांसि वेदस्य षडङ्गानि तदात्मके वेदे देवे देवविषये, निमित्त अष्टांगनिमित्ते, दण्डनोत्यां च अभिविनीतमतिः कुशलधीः । दैवीनां देवताप्रकोपजातानाम, मानुषीणां मनुष्यररिभिरुत्पादितानाम् आपदां प्रतिकर्ता निवारकः, यज्ञदत्ताभट्टिनोभर्ता तन्नामधेयाया ब्राह्मण्या भर्ता पतिः, सोमदत्तो नाम पुरोहितोऽभूत् । एकदा तु सा किल यज्ञदत्ता अन्तर्वत्नी अन्त: गर्भमध्यस्थम् अपत्यं विद्यतेऽस्या इति गर्भिणीत्यर्थः, सती माकन्दमञ्जरीकर्णपूरेषु माकन्द आम्रतरुः तस्य मर्याः कर्णपूरेषु तन्नामकालङ्कारेषु तत्परिणतफलाहारेषु च समासादितदोहला लब्धेच्छावती अभूत् । व्यतिक्रान्तरसालवल्लरीफलकालतया व्यतीताम्रमजरीफलसमयत्वात्, कामितम् अभिलषितं अनाप्तवती अलभमाना, शिफासु व्यथमाना प्रतानिनीव शिफासु मूलेषु पीडायुक्ता वल्लीव तनुतानवं देहकाश्य उपेयुषी जग्मुषी तेन पुरोहितेन ज्ञातिजनेन वन्धुगणेन च प्रबन्धेन आग्रहेण पृष्टा हृदयेष्टं मनोऽभिलाषम् अभाषिष्ट अब्रूत । भट्टस्तन्निशम्य श्रुत्वा "कथम् एतन्मनोरथम अयथार्थपथम् अस्मन्मनोमथं अव्यर्थ प्रार्थनं कथं करिष्यामि" एतन्मनोरथं अस्या यज्ञदत्तायाः