________________
३८२ पं० जिनदासविरचिता
[पृ०८२ये मराला हंसाः तेषाम् मण्डलं समहः तस्य स्खलितानि यानि प्रमादेन चलनानि पादाः त एव जलेशयानि कमलानि तथा मणिमजीराणि रत्ननपुराणि तेषां मणितं शब्दः पुनः कथंभूताः । स्वकीयरूपसंपत्तितिरस्कृतत्रिभुवनरामणीयकाः, स्वसौन्दर्यसम्पदा अवगणितत्रिलोकललनासौन्दर्याः सलीलं अहमहमिवोत्सुकाः अहम् अग्रे गच्छामि अहम् अग्रे गच्छामीति भावनोत्कण्ठिताः ता वध्वः समागत्य सर्वतः परिवत्रुः परिरुरुधुः पुण्यदेवता इव ताः सुवासिन्यः । पुष्पदन्तभार्या सुदत्याप्याकारिता अम्ब, मद्भातृजाया सुदती अपि आकार्यताम् । हे मातः मद्भातृजाया ( पुष्पदन्तभार्या ) मम भ्रातुः पुष्पदन्तस्य भार्या सुदती नामधे. यापि आकार्यताम् आहूयताम् । ततः संध्येव धातुरक्ताम्बरचराटोपा यथा संध्या रक्ताम्बरं लोहितवर्णाकाशं तत्र चरतीति रक्ताम्बरचरः स आटोपः आडम्बरो यस्याः तथा सा सुदती अपि धातुर्गेरिक तेन रक्तं यत् अम्बरं वस्त्रं तेन चरतीति चरा तस्या आटोपेन युक्ता, तपसः श्रीरिव विलुप्तकुन्तलकलापा, या तपसः श्रीः शोभा विलुप्ताः कुन्तलानां केशानां कलापाः समूहा यत्र लोचेन भूषिता भाति तथा इयं "सुदत्यपि विलुप्तकुन्तलकलापासीत् । भव्यजनमतिरिव विभ्रमभ्रंशिदर्शना, भव्यजनानां मतिबुद्धिः विभ्रमस्य विपरीतज्ञानस्य भ्रंशो नाशो यस्मिन् तादृग्दर्शनोपेता विपरीतज्ञानरहितदर्शनेन सम्यक्त्वेन युक्ता भवति तथा इयं सुदत्यपि भ्रमरहितदर्शना निर्मलसम्यक्त्वोपेता अथ च विभ्रमरहितनेत्रा कटाक्षक्षेपरहितनेत्रेत्यर्थः । हिमोन्मथिता कमलिनीव क्षामच्छायापधना हिमेन नीहारेण उन्मथिता पीडिता कमलिनी कमललता यथा क्षामच्छायापघना कृशकान्तिशरीरा भवति तथा सुदत्यपि क्षामच्छाया क्षीणकान्तिदेहाभवत् । शरदिव दीनपयोधरभरा यथा शरदतुस्थितिः दीना विरला ये पयोधरा मेघास्तेषां भारः समूहो यस्याम्, तथा सुदत्यपि दोनः कृशः पयोधरयोः स्तनयोः भारो यस्याः सा। खट्वाङ्गकरङ्काकृतिरिव यथा खट्वायाः मञ्चकस्य अङ्गानि अवयवाः तद्रूपा ये करङ्का अष्टौ चरणादयः तेषाम् आकृतिरिव प्रकटकीकसनिकरा इयं सुदती प्रकटा कोकसानाम् अस्थ्नां निकरो यस्याः सा। सकलसंसारसुखव्यावृत्तिनीतिमूर्तिमती वैराग्यस्थितिरिव विवेश । सकलसंसारसुखेभ्यः व्यावृत्तिः पराङ्मुखता तस्या: मूर्तिमतो सदेहा वैराग्यस्थितिरिव विवेश तत्र श्रेणिकनृपप्रासादे आजगाम । पुष्पदन्तेति-पुष्पदन्तस्य मुनेः हृदयम् एव कन्दलं अङ्कुरः तस्य उल्लासे विकसने वसुमतीव पृथ्वीव सा सुदतो ( पुष्पदन्तस्य जायाचरी) तां वारिषेणोऽवधार्य विमश्य ( अवदत् ) मित्र, सेयं तव प्रणयिनी सेयं तव वल्लभा यन्निमित्तम् अद्यापि न संपद्यसे मनोमुनिरिति । यस्या निमित्तेन अद्यापि द्वादशवर्षाण्यतीतानि मनित्वे तथापि मनसा मुनिरिति भावयतिनं जातस्त्वमिति । एताश्चवविधकायास्तव भ्रातृजायाः एताः पुरतो दृश्यमानाः तव भ्रातृजायाः ते भ्रातुः वारिषेणस्य पत्न्यः एवंविधकायाः उक्तवर्णना अनिन्द्यलावण्यशरीरति । तथैते च वयं तव समक्षोदयं समाचरिताभिजातजनोचितचरिताः । तव समक्षोदयं तव प्रत्यक्षे एव उदय (श्चारिप्रस्य ) यथा स्यात्तथा वयं समाचरितं निर्दोष पालितं अभिजातजनोचितं कुलीनपुरुषयोग्यं चरितं वृत्तं यस्त । ( मम भार्या अतीव रमणीयास्तथापि ताः परित्यज्याहं सम्यागाचरितमुनिचारित्रोऽभवम् । त्वं तु असुन्दरां जायामपि मनसा देवाङ्गनासदशी मत्वा होनचारित्रोऽभवः । इति तर्जनवचनः निर्भत्सितः पुष्पदन्तः ।
[पृ० ८२ ] स्नानानुलेपनेति-अङ्गनानां वपुः शरीरम् आधेयभावसुभगं आधेयभावः संसृज्यमानचन्दनमृगमदपङ्कादिभिः सुभगं दृश्यते । केन विधिना आधेयभावसुभगम् स्नानादिविधिना-स्नानं सुगन्धितैलेन देहं संमद्य सुगन्धिजलेनाभ्यङ्गस्नानम् अनुलेपनं चन्दनादिपङ्केन देहलेपनं कौशेयादिवस्त्रधारणम्, अवेयकादिभूषणधारणम्, पुष्पमालादिभिः कण्ठाद्यवयवानां शोभासमुत्पादनम्, ताम्बूलवाससेवनम् इत्यादिविधिना नारीदेहः सुन्दरः प्रतिभाति । तु परम् अस्य देहस्य नैसगिकी स्वाभाविको स्थितिः स्वाभाविक रूपं किमिव किम् उपमानमासाद्य वर्णनीयं भवेत् ॥२०१॥ इत्यसंशयम् आशय्य ज्ञात्वा विचिन्त्य वा स्त्रणेष स्त्रीसंबन्धिषुसुखकारणेषु विचिकित्सासज्जां जुगुप्सायुक्तां लज्जाम् अभिनीय सम्प्राप्य, हहो इति सम्बोधनार्थकम् अव्ययं 'भो' इत्यर्थे ज्ञेयम् । निकामेति-निकामम अतिशयेन निरुद्धः विनाशितः मकरध्वजस्य मदनस्य उद्धव उत्सवो येन तत्सम्बोधनम् । विधुराणां दुःखार्तानां बान्धव, साहाय्यकारिन् । संसारेति-संसारसुखमेव सरोज कमलं तस्य उत्साराय विनाशाय नीहारायमाणो हिमतुल्यौ चरणौ पादौ यस्य तस्य संबोधनम्, हे