________________
-पृ०८१]
उपासकाध्ययनटीका
३८१
सह तस्याः कदा संगम: स्यात् ननु वित॥१९९॥ किंच-चित्रति-कानने उत्कण्ठितः वेषमुनिः इत्थं दिनानि गमयति । दिनगमनव्यापारान वर्णयति-चित्रालेखनकर्मभिः निजमनसि निखाताया इव प्रियाया वस्त्र चित्रलेखनकार्यः, मनसिजेति-मनसिजो मदनः तस्य व्यापाराः मधुरप्रवृत्तयः तेषां साराणां स्मरणः, गाढेतिसन्ततं मनसा दृढभावनया अग्रस्थितायाः प्रियतमायाः पादयोः असकृत मर्ना प्रणामकरणक्रमः स्वप्न इति सहवासवियोगविषये स्नेहदुःखागमः वेषमुनिः दिनानि कानने समुत्कण्ठितः यापयति स्म ॥२००।। इति निर्बन्धेन अनवरतं ध्यायन् चिन्तयन् द्वादशवर्षाणि समानपीत यापयति स्म । शूरदेवभट्टारकोऽप्याभ्यां सह तेषु विषयेषु शूरदेवाचार्योऽपि वारिषेणपुष्पदन्तमुनियुगलेन सह तेषु तेषु विषयेषु विविधदेशेषु तीर्थकृताम् ऋषभादिवर्धमानान्तानां चतुविशतेजिनवराणां पञ्चकल्याणर्मङगलानि मङ्ग पुण्यं लान्तोति यच्छन्ति भक्तेभ्य इति मंगलानि मं पापं गालयन्तीति वा मंगलानि पुण्योत्पादीनि पापविनाशोनि च स्थानानि जन्मादिनिर्वाणपर्यन्तानि स्थानानि तीर्थभूमीवन्दित्वा पुनविहारवशात्तत्रैव जिनायतनोत्तंसितोपान्तशैलचूले पञ्चशैलपुरे जिनानाम् आयतनानि गहाणि तैः उत्तंसिता भूषिता उपान्ता समीपस्था शैलस्य पर्वतसंबन्धिनी चला शिखरं यस्य तस्मिन् पञ्चशलपुरे राजगृहे, समागत्य आत्मनः ( शूरदेवमुनेः ) वारिषेणऋषेश्च तद्दिवसे पर्युपासितोपवासत्वात् स्वीकृतचतुविधाहारत्यागात्, तं पुष्पदन्तम् एकाकिनम् एव प्रत्यवसानाय
राय आदिदेश आज्ञां ददाविति भावः । 'भक्षित-चवित-लोढ-प्रत्यवसित-गिलित-खादितरसातम्' इत्यमरः । तदर्थम् आदिष्टेन तेन च चिन्तितम् । “चिरात् कालात् खल्वेकस्मादपमृत्योर्जीवन्नुद्धरितोऽस्मि । दीर्घः कालोऽतीतः खलु अद्य एकस्मादपमरणात् जीवन् उत्तीर्णोऽभवम् (संप्रति हि मेऽन्यूनानि विपुलानि पुण्यानि अवेक्ष्य दृष्ट्वा दीक्षां मुमुक्षुणा दीक्षां त्यक्तुम् इच्छा यस्य तथाभूतेन तेन मञ्जु शीघ्रं पाशपरिक्षेपक्षरितेनेव, पाशस्य जालस्य परि सर्वतः क्षेपः आवरणं तस्मात क्षरितेन च्यतेन पक्षिणा विहगेन इव पलायितुम् आरब्धम् । वारिषेणः तथाप्रस्थानात कृतोदक वितर्य ज्ञातोत्तरफलं यथा स्यात्तथा तस्य शीघ्रं गमनमवलोक्य । दीक्षाया अनेन जलाञ्जलिर्दत्तेति ऊहं कृत्वा 'अवश्यमयं जिनरूपं जिहासुरिव सौत्सुक्यं विक्रमते जिनरूपं जिनदीक्षां जिहारिव त्यक्तूमिच्छन्निव उत्कण्ठित: विक्रमते अश्ववद्वेगेन याति । 'तदेष कपायमुष्यमाणधिषणः समयप्रतिपालनाधिकरणनं भवत्युपेक्षणीयः' तस्मात् एष पुष्पदन्तमुनिः कपायः क्रोधादिभिः मुष्यमाणा अपहियमाणा धिषणा बुद्धिः यस्य सः समयस्य जिनशासनप्रतिपालने रक्षणे अधिकरणैः आधारभूतैः जिनशासनरक्षणभारवाहिभिः न भवत्युपेक्षणीयः न त्याज्यः इति अद्धा यथार्थम् अजसा अनुध्याय विचिन्त्य तमनुरुध्य तं पुष्पदन्तम् अनुसृत्य एतत्स्थापनाय जनकनिकेतं पितुः श्रेणिकभूपस्य निकेतं गृहं जगाम । चेलिनी महादेवी पुत्र मित्रेण सत्त्रं सह उपढौकमानम् आगच्छन्तम् अवक्ष्य तदभिप्रायपरीक्षार्थ सरागं वीतरागं चासनमयच्छत् । वारिषेणस्तेन समं चरमोपचारं चरमः अन्तिमः उपचारः शमः अस्मिन् तत् चरमोपचारं वीतरागोपशमयुक्तं .. विष्टरं सिंहासनम् अलंकृत्य भूषयित्वा अम्ब, समाहूयतां समस्ता अपि आत्मीयाः स्नुषाः ।।
[पृष्ठ ८१] ( तदनु वारिषेणजायाः श्वश्वा आज्ञया तत्रागताः ) कथंभूतास्ताः वनदेवता इव यथा वनदेवताः प्रसूनोत्तंसोत्तरङ्गित कुन्तलारामाः भवन्ति । पुष्पभूषितोत्तरङ्गितकुन्तलै: केशः आसमन्तात् रामा रमणीया भवन्ति । तथा ता वध्वोऽपि कल्पलता: इव मणिभषणरमणीयाङ्गनिर्गमाः यथा कल्पलताः कल्पवल्लयः रत्नालङ्कारमनोहरावयवोत्पत्तयः तथा वध्वोऽपि । प्रावृष इव समुन्नद्धपयोधराबिद्धमध्यभागाः यथा वर्षाः समुन्नतजलधरावृतनभोमध्यभागास्तथा समुन्नतस्तनावजितावलग्नभागाः। सकलजगल्लावण्यलबलिपिलिखिता इव समस्तलोकसौन्दयांशरूपलिपिना लिखिता इव सुभगभोगायतनाभोगाः सुभगानि रमणीयानि तानि तानि भोगायतनानि शरीराणि तेषाम् आभोगः विस्तारो यासां ताः। पुनः कथंभूताः। कडूलिकाननक्षितय इव पादपल्लवोल्लासितविहारविषयाः अशोकवनभमयो यथा पादा मूलानि तानारभ्य पल्लवैः किसलयः उल्लासिताः शोभिता: विहारविषया: उद्यानप्रान्ता याभिस्ताः तथा इमा वध्वोऽपि पादपल्लवाः चरण किसलया: तैः उल्लसिता: शोभिताः विहारविषयाः लीलाप्रदेशा याभिस्ताः। कमलिन्य इव मणिमजोरमणितोन्मदमरालमण्डलस्खलितचलनजलेशया: यथा कमलिन्यः कमललता रत्नजडितनपुररमिव शब्दं कुर्वाणा उन्मदा उन्मत्ता