________________
पं० जिनदासविरचिता
[पृ०७७पृथ्वीभार्यस्य, पुत्रः सकलवैरिपुराभिषेणः समस्तशत्रुनगराणि प्रतिसेनया सहितोऽभिषेणो अभिद्रवः यस्य स वारिषेणो नाम । स किल कुमारकाल एव संसारसुखसमागमविमुखमानसः परमवैराग्योद्गुणः परमं वैराग्यं संसारभोतिजातविरक्तिभावः उद्गीर्णः प्रकटीभूतो यस्य, पुनः कथंभूतो वारिषेणः । पूर्णनिर्णयरसः पूर्णः अध्यात्मविषये निर्णयरस: निश्चयरसो यस्य, पुनः कथंभूतः । श्रावकधर्मस्याराधनेन धन्या समृद्धा या धिषणा बुद्धिस्तया, गुरूपासनसंवीणतया च गुरूणां निर्ग्रन्थाचार्याणाम् उपासनासु पूजासु संवीणतया तत्परतया च सम्धगवसितोपासकाध्ययनविधिः सम्यकतया अवसितः निश्चित: उपासकाध्ययनानां श्रावका चरणविषयभूतानाम् अध्ययनानां ज्ञानपाठानां विधिर्येन सः, पुनः कथंभूतः आश्चर्यशौर्यनिधिः विस्मयावहपराक्रमाणां निधानम्, स वारिषेण एकदा प्रेतभमिषु प्रेतानां शवानां भूमिषु भूतवासरविभावयाँ कृष्णचतुदशीनिशायां रात्रिप्रतिमास्थितो बभूव । रात्रिप्रतिमायोगेन श्मशाने अध्यात्मध्यानरतोऽभवत् । अत्रावसरे अस्मिन्प्रसंगे क्षपायाः निशायाः परिणतः आभोगः गाढान्धकारत्वादियंत्र खलु निशाया मध्यभागे मगधसुन्दरीनामया पण्याङ्गनया पण्या पणेन मूल्येन लभ्या या अङ्गना स्त्री पण्याङ्गना तया वेश्ययेत्यर्थः । आत्मनि स्वस्मिन् विषये अतीवासक्तचित्तवृत्तिप्रसरो अतीव सुतराम् आसक्ता लम्पटा या चित्तवृत्तिः मनोवृत्तिः तस्याः प्रसरो यस्य एवंभूतो मृगवेगनामा वीरः शयनतलम् आपन्नः आगतः सन् एवमुक्तः-राजधेष्ठिनो धनदत्तनामनिष्ठस्य कीतिमतीनामायाः प्रियतमाया: स्तनमण्डलोदारम् अलङ्कारसारं हारमिदानीमेव आनीय यदि विश्राणयसि तदा त्वं मे रतिरामः अन्यथा प्रणयविराम इति । प्रियतमायाः अत्यन्तवल्लभायाः, स्तनमण्डलयोः कुचमण्डलयोः उदारं शोभामापादयन्तम्, अलङ्कारेषु भूषणेषु सारं श्रेष्ठं विश्राणयसि ददासि, त्वं मे रतिरामः रतौ रतिसुखे रमयतीति रामः अन्यथा प्रणयविरामः प्रणयस्य प्रेम्णः विरामः अवसानम् इति । सोऽपि अवशानङ्गवेगो मगवेगः न वशो अधीनः अनङ्गवेगः कामस्य तीव्रता यस्य, कामवेगम असहमानः इति भावः । तद्वचनादेव तस्याः मगधसुन्दर्या भाषणादेव तदायतनात् तस्या गहात् निःसत्य निर्गत्य, धनदत्तस्यागारं धनदत्तश्रेष्ठिनो हर्म्यम् अभिसृत्य आगत्य च निजकलाबलात् स्वकलाचातुर्यात् आचरितहारापहारः आचरितो विहितं हारस्य अपहारः मोषणं येन, तदिति-तस्य हारस्य किरणानां रश्मीनां निकरः समूहः तेन निश्चितश्चरणयोश्चारः यः सः तलारानुचरैः आरक्षकपुरुषः अनुसृतः अनुगतः मृगायितुं मग इव आचरितुम् असमर्थ: पलायितुं अक्षमः व्युत्सर्गावेगं व्युत्सर्गस्य शरीरममत्वत्यागस्य आवेगम् उत्कटतां उपेयुषः जग्मुषः तस्य वारिषेणस्य पुरतः हारम् अपहाय त्यक्त्वा तिरोदधे अन्तहितोऽभवत् ।
[पृष्ठ ७७] तदनुचराः तलवरसेवकाः तत्प्रकाशविशेषवशात् तस्य हारस्य कान्तिविशेषवशात् “वारिषेणोऽयं नन राजकुमारः पलायितुम् अक्षमः पित्रोः चेलनाश्रेणिकयोः श्रावकत्वात उपासकत्वात इमां जिनेश्वरबिम्बसदशीम् आकृति स्वीकृत्य पुरोऽग्रतः स्थापितहारः समास सम्यक आस स्थितः इत्यवमश्य विचारं कृत्वा प्रविश्य च विश्वंभराधीशवेश्मनिवेशं विश्वंभरायाः पृथिव्याः अधीशः स्वामी श्रेणिकनपः तस्य वेश्मनः गहस्य निवेशम् अन्तःस्थानं एतत्पितुः एतस्य वारिषेणस्य पितुः श्रेणिकस्य प्रतिपादितवृत्तान्ताः कथितप्रवृत्तयःदण्ड इति-दण्डो हि अपराधिशासनोपायः स केवल: एक एव इमं लोकम् इहलोकम, परं च परलोकं च स्वर्गादिकं रक्षति इहलोके प्रजासु विनियुक्तो राज्ञा दण्डोपायोऽनीतेस्तां रक्षति ततश्च प्रजानाम् अनीते रक्षणात स्वर्गप्राप्तिर्जायते इति भावः । राज्ञा नृपेण शत्रो पुत्रे च यथादोषं दोषम् अनतिक्रम्य धृतः यस्य यादृग्दोषः तादगेव तस्य शासनं क्रियेत चेत् राज्ञा स दण्डः उभयोः समं धुत इति भवति । तथा समदण्डो राजा उभयलोकरक्षको भवतीति भावः ॥१९५।। इति वचनात्, न हि महीभुजां गुणदोषाभ्याम् अन्यत्र मित्रामित्रव्यवस्थितिः राज्ञां गुणदोषो मुक्त्वा मित्रशत्रुव्यवस्था न भवति । यत्र गुणाः सन्ति स एव नरो मित्रं यत्र च दोषाः स शत्रुरिति व्यवस्था राजकृता भवति । तत् तस्मात् अस्य वारिषेणस्य रत्नहारापहारोपहतचरित्रस्य रत्नहारस्य अपहारो मोषणं तेन उपहतं नष्टं चरित्रं सदाचारप्रवृत्तिर्यस्य पुत्रशत्रोः पुत्ररूपेण शत्रोः न प्राणप्रयाणादपरश्चण्डो दण्डः समस्ति । अस्य प्राणघात एव समुचितं शासनं विद्यते इति न्यायनिष्ठुरताया: आवेशो यस्मिन तथाभूतात्पितुरादेशात आज्ञायाः आगत्य तं सदाचारमहान्तं सदाचारेण समीचीनेन आचारेण श्रावकव्रतादि