________________
-पृ० ७६ ] -उपासकाध्ययनटीका
३७७ क्षणे तदगारं तद्गृहम् आकुलपरिवारं स्वस्वकार्यकरणतत्परपरिजनम् अवबुध्य ज्ञात्वा अविशिष्टायां रात्री विहितमणिचौर्यः तन्मरीचिप्रचारात् तद्रत्नकिरणप्रसरणात्, आरक्षकैः तलवरैः अनुद्रुतशरीरः तोग्रेण जवेन अनुगतदेहः, पलायितुमशक्तः तस्यैव धर्महर्म्यनिर्माणपरमेष्ठिनः धर्म एव हम्यं गृहं तस्य निर्माणे रचनायां परमेष्ठिनः ब्रह्मणः इव वर्तमानस्य श्रेष्ठिनः प्रस्थानावासनिवेशम् आविवेश प्रयाणगृहप्रवेशम् अकरोत् । श्रेष्ठयपि दुरालापबहलात् गालिप्रदानादि-दुर्भाषणप्रचुरात् तत्तलवरादिकलकलात्, द्रागविद्राणनिद्रः शीघ्रम् अपगतस्वापः, तदैव मृषामुनिमुद्रम् अवसाय धृतमायायतिरूपं निश्चित्य, स्वभावतः शुद्धाप्तागमपदार्थसमाचारनयस्य निर्दोषपरमजिनशासनजीवादिवस्तुसार्थसम्यगाचारनयव्यवहारस्य निःशेषान्यदर्शनव्यतिरिक्तान्वयस्य सकलान्यमतभिन्नसम्प्रदायस्य जिनशासनस्य, अविदितपरमार्थजनापेक्षया अज्ञातयथार्थलोकापेक्षया दुरपवादो जिनमतनिन्दा माभूत मा जायताम इति विचिन्त्य समस्तमपि आरक्षकलोकम् एवमभणीतसकलमपि तलवरवृन्दम् इत्थमभाषत । अहो दुर्वाणीका अहो दुर्वाचाटाः, किमित्येनं संयमिनम् अभल्लेन अभडभाषणेन संभावयन्ति तिरस्कुर्वन्ति भवन्तः । यतः एष खलु महातपस्विनामपि महातपस्वी, परमनिःस्पृहाणामपि परमनि:स्पृहः, प्रकृत्यैव स्वभावत एव महापुरुषः मायामोहरहितचित्तवृत्तिः, अस्मदभिमतेन अस्माकं संमतिं लब्ध्वा मणिमेनम् आनयन् कथं नाम तेन भावेन मायामोहादिदिग्धचित्तेन संभावनीयः संकल्प्यः । तस्मात् प्रतूर्ण शीघ्रम् अभ्यर्णीभूय समोपं गत्वा प्रसन्नवपुषः प्रशान्तशरीराः प्रणमद्देहाः भवन्तः सदाचारकरवार्जनज्योतिषं सम्यगाचारकुमुदविकसने चन्द्रम् एनं क्षमयत, स्तुत प्रशंसत, नमस्यत नमत, वरिवस्यत च पूजयत च । भवति चात्र श्लोक:-भक्तवापरः भक्त इति-वाकशब्दः परः अग्रे यस्य स जिनेन्द्रः जिनेन्द्रभक्तश्रेष्ठी इत्यर्थः । मायासंयमनोत्सूर्फे कपटसहितसंयमस्य वृद्धि कुर्वाणे सूर्ये सूर्पचौरे रत्नापहारिणि वैडूर्यमणेश्चौर्यं कुर्वाणे, दोषम् अपवादम् अयं चौर इति निन्दां निषूदयामास निरस्तां चक्रे ॥१८९॥
इत्युपासकाध्ययने धर्मोपबृंहणाहणो नाम द्वादशः कल्पः ॥१२॥
१३. वारिषेणकुमारप्रवज्याव्रजनो नाम त्रयोदशः कल्पः .. परीषहेति-परीषहात् क्षुदादिद्वाविंशतिपरोषहेषु एकस्मात्कस्मादपि परीषहात् पीडायाः उद्विग्नं भीतम्, व्रतात् अहिंसादिमहाव्रतपालनाच्च उद्विग्नं खिन्नम, अजातागमसंगमम् आगमस्य जिनशास्त्रस्य संगमो. ऽध्ययनम् अजात: आगमसंगमो यस्य स अनधीतजिनागमः एवंरूपं समयस्थितं कथंभूतं भ्रश्यदात्मानं भ्रश्यन जिनधर्मत्यागं कुर्वन् आत्मा यस्य तं समयी धार्मिकः स्थापयेत् ॥१९०॥
[पृष्ठ ७५] तपस इति-तपसः प्रत्यवस्यन्तं भ्रश्यन्तं संयतं संयमिनं यः समयी न रक्षति । नूनं सत्यमेव स समयस्थितिलधनात् जिनमतस्थितेः लंघनात् । सद्दर्शनबाह्यः सम्यग्दर्शनाद्वाह्यः मिथ्यात्विजनतुल्यः ज्ञेयः ॥१९१॥ नवैरिति-नवैः सन्दिग्धनिर्वाहैः सन्दिग्धः संशययुक्तः निर्वाहः जिनधर्मप्रतिपालनं येषां ते सन्दिग्धनिर्वाहास्तैः जनः गणवर्धनं नवैः जनः गणवर्धनं स्वसङ्घजनसंख्यावदि कुर्यात् । एकदोषकृते एकस्मिन्दोषे जाते सति प्राप्ततत्त्वः ज्ञाततत्त्वार्थो नरः कथं त्याज्यः । दोपे जातेऽपि तस्य उपगृहनं कार्यमिति भावः ॥१९२॥ यस्मात् समयकार्यार्थः शासनसाध्यार्थ: नानापञ्चजनाश्रयः बहुजनसन्दोहाधारः अतः उपदिश्य यो यस्मिन् कार्येधर्मप्रभावनादिकार्ये योग्यः तं जनं तत्र योजयेत् ॥१९३॥ उपेक्षायामिति-सधर्मणो जनस्य उपेक्षायां कृतायां स समयी तत्त्वात् जिनशासनात् अधिकं दूरं गच्छेत् तं त्यजेत् तथा तद्विनाशं कर्तुमिच्छेत् । एवम् अनिष्टमाचरतस्तस्य संसारो दीर्धो भवेत् समयश्च जिनशासनं हीयते क्षीणो भवति ॥१९४॥
[पृष्ठ ७६ ] ( स्थितिकरणे वारिषेणस्य कथा) श्रूयतामत्रोपाख्यानम्-अत्र स्थितिकरणगुणे कथां शृण्वन्तु । वारिषेणराजसूनोः कथा-मगधाभिधेषु देशेषु राजगृहेति अपरनाम्नः अन्याभिधाया अवसरः प्रसंगो यस्य एवंभूते पञ्चशैलपुरे चेलिनी महादेव्याः प्रणयं स्नेहं क्रीणातीति क्रेणिकः तस्य श्रेणिकस्य कथंभूतस्य । गोत्राकलत्रस्य गोत्रा पृथ्वी एव कलत्रं भार्या यस्य 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः