________________
३७६ पं० जिनदासविरचिता
[पृ०७३सप्ततलानि भूमयो यस्य स चासौ अगारः गहं तस्य अग्रिमा सप्तमा या भूमिः सप्तमं यत्तलं तां भजतीति भाक् तस्मिन् भागिनि, ( अगारे गत्वा यः वैडूर्यमणि आनयति, स पारितोषिकं लभेत) तत्र स्थितं वैडूर्यमणि आनयति, कथम्भूतं । छत्रेति-छत्राणां त्रयं छत्रत्रयं तस्य शिखाडं शिखाग्रं तस्य मण्डनीभूतम् अलंकाररूपम अद्धतम विस्मयावहम् अद्धतश्चासो उद्योतश्च प्रकाशः तेन सनीडं सहितं वैडर्यमणिम इन्द्रनीलमणिम , आनयति तदानेतुः तम् आनयतः पुनः अभिलाषविषयस्य स्वेप्सितवस्तुनः निषेक: दानं तदेव पारितोषिकम् परितोषस्य संतोषस्य मूल्यमिव। तत्र च सदर्पः साहङ्कारः सूर्यो नाम समस्तमलिम्लुचानाम् सकलचोराणाम अग्रेसरः पुरोगामी वीरः किलैवम् अलापीत् अब्रवीत् । 'देव कियद्गह्नमेतत् यतः योऽहं देवप्रासादात् प्रभोः प्रसादमुपलभ्य वियदवसाने नभसः अवसाने अन्ते इतोऽतिदूरे विरचितामरावतीपुरपरमेश्वरस्य नभसोऽन्ते निर्मितामरावतोनगरस्वामिनः पुरन्दरस्य इन्द्रस्यापि चूडालङ्ककारनूतनं शिखाभूषणनवं मणिम्, पातालस्य अधोभुवनस्य मूले निलोनभोगवतीनगरस्य स्थितभोगवतीपुरस्य उरगेश्वरस्यापि उरगाणां नागदेवानाम् ईश्वरस्य स्वामिनः फगगुम्फनाधिक्यं फणानां स्फटानां गुम्फनाधिक्यं ग्रथनात् आधिक्यं यस्य, फणानामुपरि अधिकतया भासमानं माणिक्यं शोणरत्नम् अपहरामि तस्य मे मनुष्यमात्रपरित्राणं मनुजैरेव रक्ष्यमाणधरण्याः मणि रत्नम् । कथंभूतं लोचनेति-लोचनयोः गोचरं विषयं अगारविहारं अगारे गहे विहारो यस्य गहे वर्तमानं तं वैडूर्यमणि अबहरतश्चोरयतः कियन्मात्रं महासाहसम् एतत्साहसं लीलयाहं करिष्यामोति भावः सूर्यचोरस्य । इति शौर्य गजित्वा प्रधष्य निर्गत्यागत्य च गोडमण्डलं गोडदेशम् । अपरमपायं अपश्यन मणिमोषाय रत्नापहरणाय, गृहीतक्षल्लकवेषश्चान्द्रायणवताचरणक्रमः पक्षपारणाकरणः पक्षोपवासानन्तरं पारणाचरणः, मासोपवासप्रारम्भैः अपरैरपि अन्यैरपि तपःसंरम्भैः तपसां उद्यमैः क्षोभिताः नगाः पर्वताः नगराणि पुराणि, ग्रामाः प्राकारपरिखादिरहिताः हट्टादिशून्या वसतयः ग्रामाः, तेषु निवासशीला ये ग्रामणीगणाः अग्रेसरजनास्ते येन क्षोभं नीताः स सूर्यचोरः क्रमेण जिनेन्द्रभक्तभावस्य आधारस्थानमभवत् । जिनेन्द्रभक्तः श्रेष्ठी तद्गुणेष्वनुरक्तमतिरभवत् ।
[पृष्ठ ७३-७४ ] एकान्तभक्तिसक्तः एकान्ता चासौ भक्तिस्तस्यां सक्तः अविचलभक्तियुक्त इति भावः, स जिनेन्द्रभक्तः तं मायेति-मायया कपटेन आत्मसात्कृतः स्वायत्तोकृतः प्रियतमाकारः क्षुल्लकवेषो येन एवंभूतं तम् अपरमार्थाचारम् अपरमार्थोऽसत्यो मायापरिप्लुतः आचारो यस्य तम् अजानन्, तं चोरं श्रेष्ठी एवमवदत्-आर्यवर्य आर्येषु प्रतिषु वर्यः श्रेष्ठः तत्सम्बोधनं हे आर्यवर्य, अवश्यम् अनेकेति-अनेकानि च तानि अनाणि अमूल्यानि रत्नानि तै: रचितो जिनदेहानां संदोहः समूहो यत्र एवंविधे अस्महे वगहे त्वया तावत्कालम आसितव्यम उषितव्यं निवासः कार्यः यावत्कालम् अहं बहित्र अन्येषु देशेषु यात्रां विधाय. समायामि, इत्थं याचतः याचनां कुर्वतः श्रोजिनभक्तस्य स क्षुल्लक एवम् अवदत् अप्रकटकूटकपटक्रम अप्रकट: अज्ञातः कट: दाहकः कपटक्रमः येन तत्सम्बोधनं हे अप्रकटकूटकपटक्रम प्रियतम श्रेष्ठिन, मैवं भाषिष्ठाः मैवं वादोः । यस्मात्कारणात् अङ्गनाजनसंकीर्णेषु स्त्रीजनव्याप्तेषु द्रविणोदीर्णेषु द्रविणं धनम् उदीर्ण प्रकटं दश्यते येष धनसमृद्धेषु देशेषु विहितोकसां कृतवसतीनाम् उषितानां इति भावः प्रायेण अमलिनमनसामपि बहुशः स्वच्छमतीनामपि निर्मोहानामपीत्यर्थः, सुलभोदाहाराः सुलभजल्पाः खल खललोकावज्ञाः। श्रेष्ठी-देशयतीश, न सत्यमेतत्, अपरिज्ञातपरलोकव्यवहारस्य, स्वर्गनरकादिः परलोकः तत्प्राप्तिः सदाचारेण असदाचारेण च क्रमशो भवतीति व्यवहाराभिज्ञस्य, अवशेन्द्रियव्यापारस्य अजितेन्द्रियस्य इन्द्रियव्यापारा यत्र नयन्ति तत्र तदधीनो भूत्वा गच्छतः पुरुषस्य बहिः संगे बाह्यपरिग्रहे कनककामिन्यादौ स्वान्तं मनो विकुरुताम् नाम विकारं प्राप्नोतु नाम न पुनर्यथार्थदृशां परमार्थावलोकिनाम् अनन्यसामान्यसंयमस्पृशाम् अनितरसाधारणसंयम पालयताम्, भवादृशां युष्मादृशां पूज्यानां मुनिवर्याणाम् । इति बह्वाग्रहं देवगृहपरिग्रहाय देवगृहे भवानिवसत्विति तम् अयथार्थ मुनि कपटिनं मुनिवेषं संप्रार्थ्य प्रार्थयित्वा, कलत्रपुत्रमित्रबान्धवेषु पत्नीतनयसुहृज्ज्ञातिषु अकृतविश्वासः अविहितविस्रम्भः, मनःपरिजनदिनशकुनपवनानुकूलतया नगरबाहिरिकायां पुरबाह्यप्रदेशे प्रस्थानम् अकार्षीत् प्रस्थानं प्रयाणम् अकरोत् । मायामुनिस्तस्मिन्नेव अवसरे तस्मिन्नेव