________________
-पृ०७२] उपासकाध्ययनटोका
३७५ सा तदर्पितानि क्षुल्लकमुखेन श्रीमुनिगुप्तमुनिना दत्तानि आशीर्वचनान्यापादिता ग्राहितवती। भवति चात्र श्लोकः--एषा रेवती कादम्बतायगो-सिंहपीठाधिपतिषु कादम्बाः हंसाः, ताक्ष्यों गरुडः, गौः बलीवर्दः, सिंहः प्रतीतः तैर्युक्तानां पीठानाम् आसनानाम् अधिपतयः स्वामिनः क्रमेण ब्रह्माहरिहरजिनेन्द्राः तेषु आगतेबपि एषा रेवती मूढतावती मौढ्ययुक्ता नाभूत् न भवति स्म ॥१७३॥
इत्युपासकाध्ययने भमूढतापरिवृढो नामैकादशः कल्पः ॥११॥
१२. धर्मोपबृंहणाहणो नाम द्वादशः कल्पः [पृ० ७१ ] उपगूहेति-धार्मिकजनदोषझम्पनम् उपगूहः, दर्शनात् चरणाद्वा चलतां प्रत्यवस्थापनं तत्र स्थितीकारः उपगूहश्च स्थितोकारश्च उपगृहस्थितीकारौ। यथाशक्ति अज्ञानतिमिरम् अपसार्य जिनशासनमाहात्म्यप्रकटनं यथाशक्ति प्रभावनम् । वात्सल्यं च सार्मिकान् प्रति निष्कपटं यथायोग्यमादरकरणम् । एते गुणाः सम्यक्त्ववैभववृद्धय भवन्ति ॥१७४।। तत्र-क्षान्त्येति-क्षान्त्या क्षमया क्रोधाभावेन, सत्येन पाणिहितवचसा, शौचेन लोभाभावेन, मार्दवेन विनयेन मदाभावेन, आर्जवेन च अकपटभावेन, तपोभिः संयमः दानश्च समयबृहणं शासनवृद्धिं कुर्यात् ॥१७५॥ सवित्रीवेति-माता यथा तनूजानां पुत्राणाम् अपराधं निगृहेत् आच्छादयेत् तथा सधर्मसु समानधर्मवत्सु गृहिषु मुनिषु वा दैवात् प्रमादाचरणात् सम्पन्नं प्राप्त अपराधं दोषं गुणसंपदा निगृहेत् आच्छादयेत् ॥१७६॥ अशक्तस्येति-अशक्तस्य असमर्थस्य अपराधेन दोपेण धर्मः मलिनः दूषितः भवेत् किम् । भेके मण्डूके मृते सति पयोधिः समुद्रः पूतिगन्धितां दुर्गन्धितां न हि याति न गच्छतीति । यस्तु जनः जातं दोषं न गृहति, यस्तु धर्मम् न बृहयेत् न वर्धयेत् तत्र जिनागमवहिःस्थिते जिनशास्त्रबहिर्भूते जने । सम्यक्त्वं सम्यग्दर्शनं दुष्करं दुर्लभम् ॥१७७॥
[पृ०७२] ( उपगूहनाङ्गकथा') श्रूयतामत्रोपाख्यानम्-अत्र सम्यग्दर्शनस्य उपगूहनाङ्गे उपाख्यानं पूर्वमहापुरुषस्य प्रथितस्य चरितं श्रूयताम्-सुराष्ट्रदेशेषु पाटलिपुत्रे कथंभूते । मृगेक्षणेति-मृगस्येव ईक्षणे नयने यासां ता मृगेक्षगा हरिणनेत्रा युवतयः तासां पक्ष्मभिः सहितानि पक्ष्मलानि तानि च तानि मूलानि अग्राणि येषां तानि च अवलोकितानि कटाक्षाः तै: अपहसितं तिरस्कृतम् अनङ्गास्त्राणां मदनबाणानां तन्त्रम् कार्यम् कामिपुरुषमनोवेधनम् यत्र [यशोध्वजस्य भूभुजः सुवीरो नामसूनुः पुत्रः वीरपुरिषदमवादोदिति संबन्धः] कथंभूतस्य यशोवजस्य राज्ञः । सुसीमेति--सुसीमाख्या या कामिनी राज्ञो तस्याः मकरध्वजस्य इव मदनस्येव सुवीरः पुत्रोऽभूत् । कथंभूतः सः । पराक्रमेति-पराक्रमेण निजशौर्येण अक्रमेण युगपत् आक्रान्ताः वशीकृताः सकलाः प्रवीराः महाभटा येन सः पुनः कथंभूतः नृपसूनुः । अनासादितेति-विद्याभिः वृद्धाः विद्यावृद्धाः अनासादितः अलब्धं विद्यावृद्धसंयोगात् समयत्वम् आगमाध्ययन तस्मात् अप्राप्तविद्यावृद्धजनसमागमशास्त्रत्वात्, विटेति-विटा: कामुकाः विदूषकाः पीठमर्दाः वैहासिकाः तैः दूषित-मलिनचित्तत्वात्, प्रायेण बहुशः परेति-परेषां द्रविणं धनम् दाराः स्त्रियश्च तस्य तासां चादानं ग्रहणम् तत्र उदारा महती क्रिया यस्य तथाभूतः स यशोध्वजसूनुः सुवीरः क्रीडा क्रीडावने गतः । कितवेति-कितवा वञ्चकाः किराताः म्लेच्छा: पश्यतोहराः पश्यन्तं जनम् अनादृत्य हरन्तीति पश्यतोहराश्चौराः ते च ते वीराः भटास्तेषां परिषदम् सभाम् एवम् अवादोत् [ यदवादीत् तदुच्यते ]-अहो जनाः, विक्रमेति-विक्रमः शौर्यम् स एव एकः मुख्यो रैसः अस्ति येषां ते विक्रमैकरसिकाः शौर्यककार्यकारिणः, तेषु माँसाहसिकेषु अतीव बलात्कारेण धनहरणादिकार्यकारिणः तेषु भवत्सु मध्ये किं कोऽपि मम प्रार्थनेति-मम प्रार्थनाया याञ्चायाः अतिथिरूपायाः मनोरथस्य सारथिः मम याचनाभिलाषपुरणप्रवीण इत्यर्थः किं कोऽपि अस्ति । यः खलु पूर्वदेशस्य वेशः वेश्याजनसमाश्रयः तेन अवाप्तं कीर्तनं येन तस्मिन् तामलिप्तिनगरे पुण्येति-पुण्यं सुकृतम्, पुरुषकारः प्रयत्नस्ताभ्याम, आत्मेति-आत्मसात्कृतः स्वायत्तीकृत: रत्नाकरः मणिसमूहः रत्नखनिर्वा येन तस्य जिनेन्द्रभक्तनाम्ना अवतारो यस्य वणिक्पतेः वैश्यस्वामिनः, जिनस पनि जिनगृहे कथंभूते । सप्ततलेति