________________
३७४ पं० जिनदासविरचिता
[पृ०७०वसुन्धरा भूमयो यत्र पुनः कथंभूतम् । अनवधीति-अनवधि अमर्यादरूपा निर्माणं रचना येषां तानि माणिक्यानि तैः सूत्रिता खचिता या त्रिमेखला कटनीत्रयं तस्त्र अलंकाररूपा ये कण्ठीरवाः सिंहाः तैर्युक्तं यत्पीठमासनम् तत्र प्रतिष्ठा उपवेशनं यस्य स चासो परमेष्ठी च तद्वत्प्रतिमा आकृतिर्यस्य तत् पुनः कथंभूतम् । अशेषत इति-अशेषतोऽभितः समासीना या द्वादशसभाः तासांम अन्तराले मध्ये विलसन्ति शोभमाना निलिम्पानां देवानाम् आनका वाद्यानि, अशोकानोकहः अशोकवृक्षः प्रमुखानि मुख्यानि प्रातिहार्याणि सुरपुष्पवृष्टिदिव्यध्वनिचामरादीनि अष्टो तैः शोभितम् । पुनः कथंभूतम् । ईषदिति-ईषत् स्तोकं उन्मिषन्ति. स्फुटन्ति विकसन्ति यानि अनिमिषाणां देवानाम् उद्यानस्य नन्दनवनस्य प्रसूनानि पुष्पाणि तेषाम् उपहारः अर्चनम् तस्य हरिचन्दनस्य तत्रामककल्पवृक्षस्य आमोदोऽतिनिहारी गन्धः तेन सनाथा युक्ता या गन्धकुटी तदाख्या सभा तया समेतं युक्तम् । पुनः कथंभूतम् । अनेकेति-अनेके मानस्तम्भाः जिनेन्द्रदर्शनार्थ समागतभव्यजनमानहरणे समर्था ये रत्नस्तम्भास्ते मानस्तम्भा उच्यन्ते, तडागाः सरांसि,तोरणानि वन्दनमालाः, स्तूपाः ध्वजा, धूपनिपा धूपघटाः निधानानि नवनिधयस्तैनिर्भरं भरितम् । पुनः कथंभूतम् । उरगेतिउरगा नागदेवाः नरा मनुष्याः, अनिमिषा देवाः तेपाम् नायकाः स्वामिनः तेषां अनीकानि सैन्यानि तैः आनीतः विहितः स चासौ महामहोत्सवस्तस्य प्रसरो यत्र तत् । अमित इति-भवसेनः प्रभतिः आदी येषां ते भवसेनप्रभृतयः ते च ते आर्हताभासाश्च जैनाभासाश्च तैः प्रभाविता यात्रा प्रभुदर्शनार्थ गमनं तस्य अधिकरणम् आधारः तथाभतं समवसरणं विस्तार्य स विद्याधरः समस्तमपि नगरं क्षोभयामास ।
[पृष्ठ ७०]-सापि जिनसमयोपदेशरसैरावती जिनशास्त्रोपदेशजला ऐरावतनदीव रेवतोराज्ञो इमं वत्तान्तोपक्रमं जनोदन्तस्य उद्भूति कुतोऽपि जैनाभासजनमतेत्विा , "सिद्धान्ते खलु चतुर्विशतिरेव तीर्थकराः ते चाधना सिद्धवध्वाः सिद्धकामिन्याः सोधस्य प्रासादस्य मध्ये विहारः क्रीडा येषां ते तस्मात् एष अपर: एव कोऽपि मायाचारी तस्य जिनेन्द्रस्य रूपधारी। इति चावधार्य विनिश्चित्य अविपर्यस्तमतिः यथार्थमार्गे प्रवर्तितबुद्धि : परि सर्वत: आत्मधामन्येव स्वगृहे एव आत्मरूपे गहे वा प्रवर्तितम् आचरितम् धर्मकर्मणां चक्रं वन्दं यत्र तस्मिन् सुखेन आसांचक्रे उवास । (पुनः स क्षुल्लकः मुनिवेषं धृत्वा रेवती परीक्ष्यामूढतावती निश्चित्य तामभ्यनन्दयत्) पुनः स बहुकूटकपटमतिः बहुकूटा बहुस्थिरा कपटे मतिर्यस्य स देशयतिस्ताभि: विविधस्वभावाभिः आकृतिभिः ब्रह्माहरिहरजिनाकृतिभिः तदास्वनितं तस्या रेवत्या आस्वनितं मनः अक्षभितं निश्चलम अवगत्य ज्ञात्वा उपात्तो गृहीतः मासोपवासिनो मुनेर्वेषो येन स क्षुल्लकः, क्रियेति-लोकानाम् आचरणं दृष्ट्वा अनुमातुं योग्यः सकलेन्द्रियप्रवत्तिर्येन तथाभूतः क्षुल्लकः गोचराय आहारार्थ तदालयं रेवत्या गहं प्रविष्टः तया स्वयमेव यथाविधि प्रतिग्रहादिनवविधीन् कृत्वा अनतिक्रम्य प्रतिपन्नचेष्टः कृतादरक्रियः तथापि विद्यावलात कथंभूतात् । अनलनाशः अग्निपाचनशक्तिस्तम्भनम्, वमनादिप्रकारः ताभ्यां प्रबलात् कृतेति-क्रतम अनेक नानाविधं मानसस्य उद्वेजनकारक पीडाकरं वयात्यम् औद्धत्यं येन स रेवत्याः क्वचिद् कस्मिन्नपि कार्ये मनोमौर्यम अवीक्षमाणः, रेवतीमेवमवदत् । 'अम्ब मातः, सर्वाम्बरचरेति-सर्वे च ते अम्बरचरा विद्याधराः तेषां चित्तानाम् अलंकारभूतं भूषणभूतं यत्सम्यक्त्वरत्नं तस्य आकरभूमे हे रेवति मातः, दक्षिणमथु
रायां प्रसिद्धाश्रमपदः सर्वगुणरत्ननिर्माणकारणविदूरपर्वतरत्नभूमिः, श्रीमुनिगुप्तमुनिः, मर्पितरचनैः वचनैः प ता रचना येषां तथाभतः वचनैः पनः कथंभतः। परिमषितेति-परिमपितानि विनाशितानि अशेषाणि कल्मषाणि पापानि यस्तैः सवनैरिव जिनाभिषेकरिव, पुनः कथंभूतः ? अखिलेति-अखिलाश्च ते कल्पाः सकलभूषणानि तेषां परम्परा समूहस्तस्याः विरोचनभूतैः किरणरिव भवती पूज्यां रेवतीम् अभिनन्दयति धर्मवद्धयाशिषा सत्करोतीति भावः । रेवती कथंभूता, भक्तिरसेति-भक्तिरसवशेन उल्लसद् विकसत् च तल्लपनं मखं तस्य रागः कान्तिस्तेनाभिरामं यथा स्यात्तथा ससंभ्रमं सादरं च सप्तप्रचारोपसदैः सप्त च ते प्रचाराः सप्तप्रचाराः सप्तगमनानि सप्तवरणन्यासाः तानि उपसोदन्ति इति सप्तप्रचारोपसदानि तैः पदैः पदनिक्षेपः तां दिशमाश्रित्य श्रीमुनिगुप्तमुन्यधिष्ठितदिशमवलम्ब्य श्रुतविधानेन आगमोक्तविधिना विहितप्रणामा कृतवन्दना प्रमोदमानाः आह्लादं प्राप्नुवन्तः मनःपरिणामाश्चेतोवृत्तयो यस्याः