________________
–पृ० ७६ ]
उपासकाध्ययनटीका
३७६
पालनेन महान्तं पूज्यं प्रहरन्तः ते तलवरानुचराः देवताभिः कृतानि प्रातिहार्याणि श्रेणिकभूपाय न्यवेदयन् । शर विसरान् वाणसमूहान् प्रसूनशेखरतां पुष्परचितशिखामालात्वम्, भ्रमिलमण्डलानि चक्रमण्डलानि कर्णकुण्डलताम्, कृपाणनिकरान् खङ्गसमूहान् मौक्तिकहारत्वम् एवम् अपराण्यपि अन्यान्यपि अस्त्राणि भूषणताम् अलङ्कारताम् अनुसरन्ति भजन्ते । निबुध्य ज्ञात्वा तद्वयानेति-तस्य वारिषेणस्य ध्यानधेर्येण ध्यानस्य स्थैर्येण प्रवृद्धानन्दतया स्वयमेव पुरदेवतानां करें: विकोर्यमाणामरतरुप्रसवोपहारं नगरदेवीनां हस्तैः प्रवृष्यमाणसुरवृक्षपुष्पबलियंत्र तम् । अम्बरेति - अम्बरं नभसि चरन्तोति अम्बरचरा आकाशगामिनस्ते च ते कुमारा देवविशेषाः तैः आस्फाल्यमानाश्च वाद्यमानाश्च ते आनकाश्च दुन्दुभयः तेषां निकरः समूहो यत्र तम् । अनिमिषेति — अनिमिषा देवाः तेषां निकायः समूहः तेन कीर्त्यमानाश्च प्रशस्यमानाश्च ताः स्तुतयस्तासां व्यतिकरो मिश्रणं यत्र, तम् इतस्ततो महामहोत्सवावतारं च निचाय्य अवलोक्य सत्वरम् अतिभीतिविस्मितान्तः करणाः अतिशयभयेने विस्मितानि आश्चयं प्राप्तानि अन्तःकरणानि मनांसि येषां ते तलवरानुचराः श्रेणिकधरणीश्वरायेदं निवेदयामासुः ।
[ पृ० ७७ ] नरवरः सोत्तालं सत्वरं तत्रागतः सन् कुमारेति कुमारस्याचारः कुमारस्य सत्प्रवर्तनं तस्माज्जातो योऽनुरागः स्नेहः तस्य रसेन उत्कटतया उत्सारितमृतिभीतिसंगात् उत्सारितो निराकृतः मृतिभीतिसंगः, मरणभयसम्पर्कों येन तस्मात् मृगवेगात् वीरात् अवगतो ज्ञात: आमूलं मूलमारभ्य आदित इति भावः वृत्तान्तः प्रवृत्तिः येन स श्रेणिकः तं कुमारं साधुं क्षमयामास । क्षमाम् अयाचतेति भावः । नृपनन्दनोऽपि श्रेणिकपुत्रो वारिषेणोऽपि प्रतिज्ञातसमयावसाने इयन्तं कालं रात्रिप्रतिमायोगं बिभर्मीति प्रतिज्ञातस्य समयस्य कालस्य अवसाने अन्ते, ( वारिषेणः सुरदेवस्यान्तिके तपो जग्राह ) एवं विचार्य दीक्षां जग्राह । कं विचारं कृत्वा । 'प्राणिनां सुलभ सम्पाताः खलु संसारे व्यसनविनिपाताः खलु अस्मिन् संसारे व्यसननिपाताः संकटानाम् आघाताः सुलभागमाः जीवानाम् । तदलमत्र कालकवलनावलम्बेन विलम्बेन' तस्मात् अत्र भव विलम्बेन कालयापनेन अलं कालयापनं मया न क्रियते । यतः तत्कालयापनं कालकवलनालम्बनं कालस्य यमस्य कवलनाय भक्षणाय अवलम्बनम् अधिकरणं भवेत् । 'एषोऽहमिदानीम् अवाप्तयथार्थमनीषोन्मेषः तावदात्महितस्योपस्करिष्ये" । एषो अहं ( वारिषेणः ) इदानीमधुना अवाप्तायाः लब्धायाः यथार्थमनीषायाः परमार्थभूताया: मनीषायाः मतेः उन्मेषः उदयो जन्म येन स तथाभूतोऽहम् अभवम् । अधुना मम यथार्थात्मस्वरूपग्राहिण्या बुद्धेर्जन्म जातमिति भावः । तावत् प्रथमम् आत्महितस्य उपस्करिष्ये आत्महिते पुनः पुनर्यत्नं करिष्ये इति भावः । इति निश्चयमुपश्लिष्य इति निश्चयं कृत्वा । आभाष्य च पितरं जनकस्य श्रेणिकस्य अनुमति लब्ध्वा चं, बाह्याभ्यन्तरपरिग्रहाग्रहम् आविष्य आसमन्तात् पिष्ट्वा परित्यज्येत्यर्थः, आचार्यस्य सुरदेवस्य अन्तिके समीपे तपो जग्राह । भवति चात्र श्लोक : – विशुद्ध मनसामिति - निर्मल चित्तानाम् परिच्छेदपरात्मनां परिच्छेदे यथार्थात्मस्वरूपनिर्णये तत्पराणां सदाचारखिलैः समीचीनाचारैः खिला: अप्रहृताः रहिता इत्यर्थ: । 'द्वे खिलाप्रहते समे' इत्यमरः । तैः खलैर्दुर्जनैः कृता विघ्नाः किं कुर्वन्ति कां हानि जनयितुं प्रभवन्ति । म कामपि ।। १९६ ॥
इस्युपासकाध्ययने वारिषेणकुमारप्रवज्याम्रजनो नाम त्रयोदशः कल्पः ॥ १३ ॥
१४. स्थितिकारकीर्तनो नाम चतुर्दशः कल्पः
[ पृष्ठ ७८-७९ ] पुन: 'इष्टं धर्मे नियोजयेत्' इष्टं प्रियं जनं मित्रं बन्धुं वा धर्मे संसारदुःखतः सत्वान् उत्तमे सुखे धरति इत्येवं स्वरूपवति धर्मे नियोजयेत् स्थापयेत् तथा आतुरस्य व्याधितस्य अगदंकारोपयोग इव गदो रोगः करोतीति कारः अगदं नीरोगं करोतीति अगदंकारः औषधं तस्य उपयोग इव प्राशनम् अनिच्छतोऽपि जन्तोः कुशलैः हितकामैश्चतुरैः क्रियमाणः आयत्याम् उत्तरकाले श्रेयसे हितायावश्यं भवति तथा धर्मम् अनिच्छतोऽपि जन्तोर्धर्मसंबन्धः क्रियमाणः आयत्याम् उत्तरभवे अवश्यं निःश्रेयसाय मोक्षाय