________________
- पृ० ६७ ]
उपासकाध्ययनटीका
३७१
जले तैलमिवेति — रसवत् पारद इव यथा पारदः धातुषु लोहादिषु वेधाय भवति लोहादिकं स्वस्पर्शेन अन्तः प्रविश्य वा सुवर्णीकरोति तथा यत्र ऐतिह्यं श्रुतज्ञानम् अध्यात्मज्ञानं रसवत् अन्तः प्रविश्य मुन्यादिकं रत्नत्रयवन्तं न करोति तत्र स अन्तर्बोधः जले तैलमिव वृथा तत्र केवलं बहिर्द्युतिरेव ।
इत्युपासकाध्ययने भवसेनदुर्विकसनो नाम दशमः कल्पः ||१०||
११. अमूढताप्रौढिपरिवृढो नामैकादशः कल्पः
परीक्षितस्तावत्प्रसभाविर्भविष्यद्भवसेनो भवसेनः । प्रसभं हठात् आविर्भविष्यन्ती प्रकटं भवित्री भवस्य संसारस्य सेना यस्य सः भवसेनः परीक्षितस्तावत् । इदानीम् अधुना भगवदिति - भगवतः श्रीमुनिगुप्तस्य आशीर्वाद एव पापो वृक्षस्तस्य उत्पादाय वसुमतिमिव भूमिमिव रेवतीं राशीं परीक्षे, इति आक्षिप्तं विमृष्टम् अन्तःकरणे मनसि येन स विद्याधरः ब्रह्मण आकारं गृहीत्वा सकलं पुरं क्षोभयामास । कस्यां दिशि पुरस्य नगरस्य पुरन्दरदिशि इन्द्रदिशायाम् । कथंभूतं ब्रह्मण आकारम् । हंसेति - हंसानाम् अंसा: भुजशिरांसि तेषाम् उपरि उत्तंसः भूषणभूतश्चासो आवास: विमानं तस्य वेदिका विर्तादिः तस्याः अन्तराले मध्ये या कमलकणिका कमलकोषः तस्याः उपरि आस्तीर्णम् प्रसारितं यन्मृगाजिनं हरिणचर्म तदेव पर्यङ्कपर्यायः मञ्चकतुल्यता यस्य तम् । पुनः कथंभूतम् अमरेति - अमरसरसि देवतडागे संजातानि यानि सरोजानि कमलानि तेषां सूत्राणि तैः वत्तितं विहितं यदुपवीतं यज्ञसूत्रं तेन पूतः कायः शरीरं यस्य तम् । पुनः कथंभूतम् ? अमृतेति - अमृतमयाः करा यस्य स अमृतकरश्चन्द्रः तस्य कुरङ्गकुले हरिणवंशे जातो यः कृष्णसारो मृगविशेषः तस्य कृत्तिश्चर्म तेन कृतः विहितः उत्तरासंगस्य वामस्कन्धे धार्यमाणस्य वस्त्रस्य संनिवेशो रचना येन तम् पुनः कथंभूतम् । अनवरतेति - अनवरतं सततम् यो होमस्यारम्भः तस्मात् संभूतं यद्भसितं भस्म तेन विहिता ये पाण्डवः शुभ्राः पुण्ड्रकास्तिलकाः तेन उत्कटो उद्दीप्तः निटिलदेशी ललाटदेशो यस्य तम् । पुनः कथंभूतम् | अम्बरेति - अम्बरे आकाशे चरन्ति विहरन्ति ये ते अम्बरचरा देवाः तेषां तरङ्गिणी नदी तस्या जलं तेन क्षालितानि धौतानि यानि कल्पकुजानाम् कल्पतरूणाम् वल्कलानि त्वचस्तैर्वलितानि यानि उत्तरीयाणि ऊर्ध्वदेहाच्छादकानि वस्त्राणि तेषां प्रतानं जालं तेन परिवेष्टितं जटावलयं जटामण्डलं येन स तम् । पुनः कथंभूतम् । अमृतेति - अमृतम् अन्धः अन्नं येषां ते अमृतान्धसः देवाः तेषां सिन्धुर्नदी गङ्गा तस्या रोधसि तटे संजाता ये कुतपाङ्कुराः कुशतॄणाङ्कुराः, अक्षमाला जपमाला, कमण्डलुः, योगमुद्रा च एभिश्चतुभिः अङ्कितम् चिह्नितम् करचतुष्टयं हस्तचतुष्कम् यस्य तम् । पुनः कथंभूतम् । उपासनेति — उपासनार्थं समायाताः समागता ये मतङ्ग भृगु भर्ग-भरत गौतम गर्ग-विङ्गल- पुलह- पुलोम- पुलस्ति- पराशर मरोचिविरोचना एव चञ्चरीकानीकं भृङ्गसमूहः तेन आस्वाद्यमानो लिह्यमानो यत् वदनारविन्दस्य मुखकमलस्य कन्दरात् विनिर्गलन्तः बहिरागच्छन्तो ये वेदास्त एव मकरन्दसंदोहो यस्य तम् । पुनः कथंभूतम् ।
[ पृष्ठ ६७ ] उभयेति – उभययोः पार्श्वयोः अवस्थिता मूर्ति तनुं धृत्वा समागताः निखिलाः कला, इत्र या विलासिन्यः तासां समाजेन समूहेन संचार्यमाणो वीज्यमानश्चामराणां प्रवाहः यत्र तम् । पुनः कथंभूतम् । उदारेति - उदारो महान् नादो वो यस्य स चासौ नारदो मुनिस्तेन मन्यमानः स्वीक्रियमाणः प्रतीहारव्यबहारः द्वारपालनकर्म यस्य तम् । अम्भोजोद्भवाकारम् अम्भोजं कमलं तत् उद्भव: उत्पत्तिस्थानं यस्य ब्रह्मणः आकारं स्वरूपम् आसाद्य प्राप्य स विद्याधरः समस्तमपि नगरं क्षोभयामास क्षुब्धम् अकरोत् । सापि रेवती कथंभूता । जिनेश्वरेति - जिनेश्वरस्य चरणयोः पादयोः प्रणयः प्रीतिः स एव मण्डपः तस्य मण्डनं भूषणस्वरूपा माधवीलतेव वरुणधरणीश्वरवरुणनामधेयस्य घरण्याः पृथ्व्या ईश्वरस्य पत्युर्महादेवी नृपतेः वरुणराजस्य पुरोहितात् तम् उदन्तं ब्रह्मणो वार्ताम् आकर्ण्य, त्रिषष्टिशलाकासु उत्सन्नेषु पुरुपेषु मध्ये ब्रह्मा नाम न कोऽपि श्रूयते । तथा —– आत्मनीति — ब्रह्मेति गीः शब्दः आत्मनि जीवे, मोक्षे सकलकर्मविश्लेषणलक्षणे, ज्ञाने, वृत्ते, चारित्रे, भरतचक्रवर्तिन आद्यस्य पितरि वृषभनाथे, प्रगीता प्रवृत्ता । अत एतान्मुक्त्वा न चान्यो ब्रह्मविद्यते । ॥। १८२ ॥ इति च अनुस्मृत्य विमर्शं कृत्वा अविस्मयबुद्धिः गर्वरहितमतिः अतिष्ठत् (पुनः दक्षिण