________________
३७२ पं० जिनदासविरचिता
[पृ०६८दिशि चन्द्रप्रभः क्षुल्लकः विष्णुरूपं वभारेति) पुनः कोनाशदिशि कीनाशो यमः तस्य दिक् दक्षिणाशा तस्याम् , अधोक्षजवेषं विष्णुवेषं कथंभूतम् । पवनाशनेति-पवनाशनानां सर्पाणाम् ईश्वरः शेष: सर्पराजस्तस्य शरीरं तदेव शयनं शय्या तत् आश्रितम् अवलम्बितम् अपघनं शरीरं (विष्णोः ) यस्य तम् । इतस्ततः प्रकामम् अतिशयेन प्रसरन्ती चासौ तदङ्गस्य शेषाङ्गस्य उत्तरङ्गा उन्नतलहरीवत् या कान्ति: प्रभा तस्याः प्रकाशस्तेन परिकल्पितम् अमृताम्बुधेः सुधासागरस्य संनिधानं समीपभावो येन तम् । पुनः कथंभूतमधोक्षजम् । उल्लेखेति-उल्लेखेन घर्षणेन उल्लसन्तः शोभमाना ये फणामणीनां मरीचयः किरणाः तेषां निचयः समूहः स एव सिचयः वस्त्रं तेन आचरितो विहितो निरालम्बे अम्बरे आकाशे वितानभावः उल्लोचभावो येन तम् । अमत्यति-अमर्त्या देवास्तेषाम् उद्यानं वनं नन्दनवनमित्यर्थः, तत्र यानि प्रसनानि पुष्पाणि मञ्जरीजालं च अभिनवनिर्गता आयता सुकुमारा सकुसुमा अकुसुमा च-मञ्जरी कथ्यते मञ्जरीणां जालं तेन जालेन जटिला प्रताना विस्तीर्णा या वनमाला "आजानुलम्बिनी माला सर्वर्तृकुसुमोज्ज्वला । मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्तिता" तस्या निर्गतमकरन्देन मधुना मण्डितः कौस्तुभस्य रत्नविशेषस्य प्रभावो यस्य तम् । पुनः कथंभूतम् । असितेति-असितानि कृष्णकान्तोनि सितानि धवलद्यतीनि यानि रत्नानि तन्निमितक ण्डलयोद्योतेन संपा. दितौ शोभमानौ च तो पक्षी पावौं तौ एव विभावितो यो पक्षौ शुक्लकृष्णपक्षाविव वा ताभ्याम् आक्षेपो ग्रहणं यस्य तम् । पुनः कथंभूतम् । अनेकेति-अनेकानि च तानि माणिक्यानि च पद्मरागरत्नानि तेषाम् आधिक्यं विपुलता तेन आघटितो रवितश्चासो किरीटश्च तस्य कोटयो अग्राणि तेप विन्यस्ताः स्थापिता अस्तोका विपुलाः स्तवका गुच्छरूपाः पारिजातप्ररावाः पारिजातकुसूमानि तेषां परिमलस्य सूरभिगन्धस्य जनमनोहरस्य पानपरिचयन चटुला लुब्धाः चञ्चला वा चञ्चरीका भ्रमरास्तेषां चयैः समुहैः रच्यमानोऽपरोऽन्यो इन्दीवराणां नीलकमलानां शेखरा: शिखाविन्यस्तमालास्तेषां कलापो वन्दं यस्य तम। पुनः कथंभूतम् गम्भीरेति-गम्भीरा निम्ना या नाभी तुन्दकूपो सा एव नदः तस्मान्निर्गतो य उन्नालो दीर्घनालस्तस्य यत् नलिनं कमलं तदेव निलयं गृहं तत्र निलीनः स्थितो योऽसौ हिरण्यगर्भ: ब्रह्मा तेन संभाष्यमाणानाम् उच्यमानानां नाम्नां सहस्रेण कलो मनोहरस्तम् । पुनः कथंभूतम् । आखण्डल इन्द्र : जलधिसूता क्षीरोदतनया लक्ष्मीश्च ताभ्यां संवाह्यमानौ सेव्यमानी क्रमो चरणो कमले इव यस्य तम् । पुनः कथंभूतम् ।
[पृष्ठ ६८] अन इति-अनश्चरणं शकटचक्रम्, सुदर्शनचक्रमित्यर्थः, शङ्खः पाञ्चजन्यः, शाङ्ग चापः, नन्दकः खङ्गः तै: संकीर्णाः व्यापृताः करा यस्य तम् । पुनः कथंभूतम् । असुरेति-असुराणां दैत्यानां द्वन्द समूहः तस्य बन्दीकृता कारागारनिक्षिप्ता याः सुन्दर्यः अङ्गनाः ताभिः संपाद्यमानाः क्रियमाणाश्चामरैर्य उपचारास्तेषां व्यतिकरो मिश्रणं यस्य तम् । पुनः कथंभूतं तम् । अरुणेति-अरुणस्य सूर्यसारथेः अनुजो लघुभ्राता गरुडः तेन विनीयमानाः शिक्ष्यमाणा: सेवागताः आदरकरणार्थ समागताः सुरा देवाः तेषां समाजो यस्य तम् । तथाभूतम् अधोक्षजबेपं विशिष्य विष्णवेषं गृहीत्वेत्यर्थः । स विद्याधरचरः दीक्षाग्रहणात् पूर्व विद्याधरत्वं दधानः विद्याधरचरः भूतपूर्वे चरट विधानात् । समस्तमपि नगरं क्षोभयामास । सापि जिनसमयस्य जिनागमस्य । रहस्यस्य गूढतत्त्वस्य अवसायो निश्चयस्तस्मिन् सरस्वतीवेति सरस्वती रेवती कर्णपरम्परया किंवदन्ती वार्ताम् उपश्रुत्य 'सन्ति खलु अर्धचक्रवतिनो नवनारायणा नवकौमोदक्यास्तन्नामधेयाया गदायाः स्वामिनः । ते तु सम्प्रति न विद्यन्ते । अयं पुनः अपर एव कश्चिदिन्द्रजालिकः इन्द्राणाम् इन्द्रियाणां जालिक: आवारकः मायाकर्म कुर्वाणः कोऽपि लोकानां विप्रलम्भनाय वञ्चनार्थम् अवतीर्ण: । इति निर्णीय विनिश्चित्य अविचलितचित्ता दृढचित्ता समासीत् समभवत् । पुनः पाशद्दिशि पाशं बिभर्तीति पाशभत वरुण: तस्य दिशि पश्चिमदिशि स पश्चिम दिक्पालोऽस्ति । शिशिरेति-शिशिरः शीतल: स चासौ गिरिश्च शिशिरगिरिः हिमगिरिरिति भावः तस्य शिखरं तद्वकारो यस्थ कायस्य स चासो शाक्वरः बलीवर्दः तम् आश्रितः शरीरस्य ( महादेवस्य देहस्य ) आभोगः विस्तारो यस्य तम् । पुनः कथंभूतं महादेवम् । अन्वगिति-अन्वग्भूता अनु पश्चात् अञ्चति सरति इति अन्वग्भूता महादेवाकोपरि निवासित्वादन्वग्भूता चासो नगनन्दना हिमालयपुत्री पार्वती, तस्याः निबरीशः पीवरः स चासौ स्तनः कुचः तेन तुङ्गिमउन्नतः स्तिमितः स्तब्धः पृष्ठभागो यस्य तम् । पुनः कथंभतम् ।