________________
३७०
पं० जिनदासविरचिता
[ पृ० ६५
मनः अस्ति उच्यताम् । बाङ्मलेति- - वाचां मल: बाङ्मलः अशुद्धवचनप्रयोगः तस्य क्षालनं करोतीति क्षालनकरं तस्य प्रकरणं तस्मिन् व्याकरणे । यद्येवमिति - मदन्तिके मत्समीपे । स्वाध्यायष्याने एव सर्वस्वं सम्पूर्ण धनं यस्य तत्संबोधनम् हे स्वाध्यायध्यान सर्वस्त्र | समास्व सम्यक् - विनयेन तिष्ठ । परवादीति-परवादिगर्वविनाशिनीनां वाचां प्रक्रमः आरम्भ एव असिः खड्गः यस्य तत्संबोधनम् । हे भगवन्, साधु तिष्ठामि भवतः सन्निधौ । तदनु तदनन्तरम् । अतीतेति — अवसानं यातेषु कियत्सु समयविभागेषु । बटो इति - बटो मार्तण्ड: भालप्रदेशं बाधते । तद्गृहाण इमं कमण्डलुम् । पर्यटय आगच्छावः । बटुः यथाज्ञापयति भगवान् । पुनरिति — पुनः पुरबाह्य प्रदेशे निर्गते याते सरूपसंयते वेषमुनी । स कपटबटुरिति-स बटुवेषी विक्रियादर्शितधान्याङ्कुरवृन्दव्याप्ताम् अवनि भूमिम् अकार्षीत् अकरोत् । तद्दर्शनादिति - तदवलोकनात् द्रव्यलिङ्गीमुनिः ईषत्कालं व्यलम्बिष्ट विलम्ब्य अतिष्ठत् । भगवन् इति-भगवन् किमिति अनवसरे अस्थाने च विलम्बः क्रियते । बटो, आगमे किल एते धान्याकुराः स्थावराः एकेन्द्रियाः प्राणिनः पठ्यन्ते प्रतिपाद्यन्ते । भगवन्श्वासादिष्विति - अमीषां धान्याकुराणां प्राणः दशसु प्राणेषु मध्ये कियतिथगुणः कतितमः प्राणः । केवलमिति - - यथा मणिमयाङ्कुराः पृथ्वीविकाराः अचेतनास्तथेमे धान्याकुराः अचेतना: भूमिविकाराः ।
[ पृष्ठ ६५ ] वेषमुनिः - साध्वयमभिदधाति । शोभनमयं बटुर्ब्रवीति । इति विचिन्त्य विहृत्य च विहारं कृत्वा च निःशङ्कं संशयं मनसि अधृत्वा निष्पादितनीहारः निष्पादितः विहितः नीहारः शौचविधिर्येन । तथा विरहितव्याहारः विरहितस्त्यक्तो व्याहारः भाषण विधिर्येन स भव्यसेनः करेण किमपि अभिनयन् संज्ञां कुर्वन् अनेन बटुना एवं उक्तः "भगवन् किमिदं मौनेनाभिनीयते । जिनरूपाजीव: जिनरूपेण नग्नताधारणेन आजीवतीति उदरपोषणं करोतीति जिनरूपाजीवः । सः 'अभिमानस्य रक्षायं प्रतीक्षार्थं श्रुतस्य च । ध्वनन्ति मुनयो मौनम् अदनादिषु कर्मसु ॥१८०॥ अभिमानस्य अयाचनायाः रक्षणहेतोः श्रुतस्य प्रतीक्षार्थं विनयार्थम् आदरार्थम् अदनादिकर्मसु भोजने, स्नाने, सामायिकादिकषट्कर्मसु हृदने, मूत्रणे इत्यादिकार्येषु मुनयो मौनम् अभाषणं ध्वनन्ति ब्रुवन्ति । इति मौनफलम् अविकल्प्य असंकल्प्य जातजल्पः कृतभाषण:, द्विजात्मज, विप्रबटो, समन्विष्य संशोध्य समानीयताम् आवायत्कायो गोमयो यस्मिन् जीवोत्पत्तिर्नास्ति स गोमयः शुष्कः भसितपटलं भस्मसमूहः, इष्टकाशकलम् अग्निपक्वमृत्तिकाखण्डो वा । भगवन्, अखिललोकशौचोचितप्रवृत्तिकायां सकलजनैः शुद्धये क्रियते उचिता प्रवृत्तिः यस्यां तस्यां मृतिकायां को दोष: ? बटो, प्रवचनलोचननिचायिकाः प्रवचनलोचनेन आगमनयनेन निचीयन्ते अवलोक्यन्ते इति प्रवचनलोचननिचायिकाः तत्कायिकाः पृथ्वी एव कायः शरीरं येषां ते जीवाः किल तत्र सन्ति । भगवन्, ज्ञानदर्शनोपयोगलक्षणो जीवगुणः, न च तेषु तद्गुणद्वयम् उपलभ्यते । मृत्तिकायां ज्ञानं दर्शनं च न विद्यते इति भावः । यद्येवं यदि तत्र जीवगुणो नोपलभ्यते तर्हि आनीयतां मृत्सा कृत्स्ना सकला प्रशस्ता मृत्तिका असुमत्सेव्या प्राणिभिः सेवनीया बटुस्तथाचर्य – बटुस्तथा कृत्वा कुण्डिकां कमण्डलुमर्पयति । मुत्रामुनिर्जल विकलां कमण्डलुं करेण आकलय्य शाखा, बटो, रिक्तोऽयं कमण्डलुः । भगवन्, इदमुदकं अचिरवल्ले अचिरं नूतनं वल्लं संवरणं यस्य तस्मिन् तल्ले तडागे समास्ते विद्यते । बटो, पटापूतपानोयादाने पटेन वस्त्रेण अपूतम् अगालितं तच्च तत्पानीयं जलं तस्यादाने ग्रहणे महदादीनवं महादोषः यतस्तत्र जन्तवः सन्ति । तदसत्यम् इह स्वच्छतया निर्मलतया विहायसीव आकाश इव पयसि जले तदनवलोकनात् जन्तूनामदर्शनात् । इति वचनात् बटुभाषणात्, बहिस्तन्त्रसंयमिनि बाह्यतन्त्रेण बाह्यप्रवृत्त्या संयमिनि यतो तत्राभिनिवेशव शिकाशयवेश्मनि तत्त्वानां जोवादीनाम् अभिनिवेशः यथार्थाश्रद्धा तत्र वशिको वन्ध्यः आशयोऽभिप्रायस्तस्य वेश्म इव तस्मिन्मुधामुनौ तद्देशम् उद्दिश्य अवलम्ब्य आश्रितशौचे कृतपावित्र्ये खचरेण विद्याधरेण चिन्तितम् । अत एव भगवान् अतीन्द्रियपदार्थप्रकाशनशेमुषी मू अतीन्द्रियाः पदार्थाः पापपुण्यानि, अणवः इत्यादीनां प्रकाशने प्ररूपणे शेमुषों बुद्धि प्राप्तः ।
[ पृष्ठ ६६ ] श्रीमुनिगुप्तः अस्य किमपि वाचिकं संदेशं न प्राहिणोत् न प्रेषयति स्म । यस्मात् अस्मिन् भव्यसेने प्रदीपवर्तिवदनमिव प्रदोषस्य दशामुखमिव अन्तस्तत्त्वसर्गे अन्तस्तत्त्वम् अध्यात्मतत्त्वं तस्य सर्गे उत्पत्तौ निसर्गमलीमसं स्वभावमलिनं मानसं च बहिःप्रकाशने सरसं प्रीतियुक्तं च । भवति चात्र श्लोक:--